________________
४४
तत्त्वार्थश्लोकवार्तिके ननु स्वसंवेद्येप्यात्मनि प्रमातृत्वशक्तिः प्रमेयत्वशक्तिश्च स्वयं परिच्छेदकशक्त्यान्यया परिच्छेद्या, सापि तत्परिच्छेदकत्वपरिच्छेद्यत्वशक्तिपरया परिच्छेदकशत्तया परिच्छेद्येत्यनवस्थानमन्यथाद्यशक्तिभेदोपि प्रमातृत्वप्रमेयत्वहेतुर्मा भूत् इति न स्याद्वादिनां चोद्यं । प्रतिपत्तुराकांक्षाक्षयादेव क्वचिदवस्थानसिद्धेः । न हि परिच्छेदकत्वादिशक्तिर्यावत्स्वयं न ज्ञाता तावदात्मनः खप्रमातृत्वादिसंवेदनं न भवति येनानवस्था स्यात् । प्रमातृत्वादिखसंवेदनादेव तच्छक्तेरनुमानान्निराकांक्षस्य तत्राप्यनुपयोगादिति युक्तमुपयोगात्म- । कत्वसाधनमात्मनः॥
कर्तृरूपतया वित्तेरपरोक्षः स्वयं पुमान् ।
अप्रत्यक्षश्च कर्मत्वेनाप्रतीतेरितीतरे ॥ २१४ ॥ सत्यमात्मा संवेदनात्मकः स तु न प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात् । न हि यथा नीलमहं जानामीत्यत्र नीलं कर्मतया चकास्ति तथात्मा कर्मत्वेन । अप्रतिभासमानस्य च न प्रत्यक्षत्वं, तस्य तेन व्याप्तत्वात् । आत्मानमहं जानामीत्यत्र कर्मतयात्मा भात्येवेति चायुक्तमुपचरितत्वात्तस्य तथा प्रतीतेः । जानातेरन्यत्र सकर्मकस्य दर्शनादात्मनि सकर्मकत्वोपचारसिद्धेः । परमार्थतस्तु पुंसः कर्मत्वे कर्ता स एव वा स्यादन्यो वा ? न तावत्स एव विरोधात् । कथमन्यथैकरूपतात्मनः सिद्ध्येत् । नानारूपत्वादात्मनो न दोष इति चेत् न, अनवस्थानुषंगात् । केनचिद्रूपेण कर्मत्वं केनचित्कर्तृत्वमित्यनेकरूपत्वे ह्यात्मनस्तदनेकं रूपं प्रत्यक्षमप्रत्यक्षं वा ? प्रत्यक्षं चेत्कर्मत्वेन भाव्यमन्येन तत्कर्तृत्वेन, तत्कर्मत्वकर्तृत्वयोरपि प्रत्यक्षत्वे परेण कर्मत्वेन कर्तृत्वेन चावश्यं भवितव्यमित्यनवस्था । तदनेक रूपमप्रत्यक्षं चेत् , कथमात्मा प्रत्यक्षो नाम ? पुमान् प्रत्यक्षस्तत्वरूपं न प्रत्यक्षमिति कः श्रद्दधीत । यदि पुनरन्यः कर्ता स्यात्तदा स प्रत्यक्षोऽप्रत्यक्षो वा ? प्रत्यक्षश्चेत् कर्मत्वेन प्रतीयमानोसाविति न कर्ता स्याद्विरोधात् । कथमन्यथैकरूपतात्मनः सिद्धयेत् । नानारूपत्वादात्मनो न दोष इति चेन्न, अनवस्थानुषंगात् , इत्यादि पुनरावर्तत, इति महच्चक्रकम् । तस्याप्रत्यक्षत्वे स एवास्माकमात्मेति सिद्धोऽप्रत्यक्षः पुरुषः । परोक्षोस्तु पुमानिति चेत् न, तस्य कर्तृरूपतया स्वयं संवेद्यमानत्वात् । सर्वथा साक्षादप्रतिभासमानो हि परोक्षः परलोकादिवन्न पुनः केनचिद्रूपेण साक्षाप्रतिभासमान, इत्यपरोक्ष एवात्मा व्यवस्थितिमनुभवति । इति केचित् ॥
तेषामप्यात्मकर्तृत्वपरिच्छेद्यत्वसंभवे ।
कथं तदात्मकस्यास्य परिच्छेद्यत्वनिन्हवः ॥ २१५ ।। कर्तृत्वेनात्मनः संवेदने तत्कर्तृत्वं तावत्परिच्छेद्यमिष्टमन्यथा तद्विशिष्टतयास्य संवेदनविरोधात् तत्संभवे कथं तदात्मकस्यात्मनः प्रत्यक्षत्वनिन्हवो युक्तः ॥
ततो भेदे नरस्यास्य नापरोक्षत्वनिर्णयः।
न हि विंध्यपरिच्छेद्ये हिमाद्ररपरोक्षता ॥ २१६ ॥ कर्तृत्वाद्भेदे पुंसः कर्तृत्वस्य परिच्छेदो न स्यात् विंध्यपरिच्छेदे हिमाद्रेरिवेति सर्वथात्मनः साक्षास्परिच्छेदाभावात्परोक्षतापत्तेः कथमपरोक्षत्वनिर्णयः । ततो नैकांतेनात्मनः कर्तृत्वादभेदो वाभ्युपगंतव्यः ॥
भेदाभेदात्मकत्वे तु कर्तृत्वस्य नरात्कथम् ।
न स्यात्तस्य परिच्छेद्ये नुः परिच्छेद्यता सतः ॥ २१७॥ कथंचिद्भेदः कथंचिदभेदः कर्तृत्वस्य नरादिति चायुक्तमंशतो नरस्य प्रत्यक्षत्वप्रसंगात् । न हि प्रत्यक्षात्कर्तृत्वाद्येनांशेन नरस्याभेदस्तेन प्रत्यक्षत्वं शक्यं निषेद्धं प्रत्यक्षादभिन्नस्याप्रत्यक्षत्वविरोधात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org