________________
प्रथमोऽध्यायः। प्रत्यक्षत्वं ततोंशेन सिद्धं निद्भुतये कथम् ।
श्रोत्रियैः सर्वथा चात्मपरोक्षत्वोक्तदूषणम् ॥ २१८॥ ननु चात्मनः कर्तृरूपता कथंचिदभिन्ना परिच्छिद्यते न तु प्रत्यक्षा कर्तृरूपता, कर्मतया प्रतीयमानत्वाभावात्तन्नात्मनोंशेनापि प्रत्यक्षत्वं सिद्ध्यति; यस्य निहवे प्रतीतिविरोध इति चेत् । कथमिदानी कर्तृता परिच्छिद्यते । तस्य कर्तृतयैवेति चेत् , तर्हि कर्तृता कर्ता न पुनरात्मा, तस्यास्ततो भेदात् । न ह्यन्यस्यां कर्तृतायां परिच्छिन्नायामन्यः कर्ता व्यवतिष्ठतेतिप्रसंगात्। नन्वात्मा धर्मी कर्ता कर्तृतास्य धर्मः कथं चित्तदात्मा, तत्रात्मा कर्ता प्रतीयत इति स एवार्थः सिद्धो धर्मिधर्माभिधायिनोः शब्दयोरेव भेदात्ततः कर्तृता खरूपेण प्रतिभाति न पुनरन्यया कर्तृतया, यतः सा की स्यात् । कर्ता चात्मा खरूपेण चकास्ति नापरास्य कर्तृता यस्याः प्रत्यक्षत्वे पुंसोपि प्रत्यक्षत्वप्रसंग इति चेत् । तात्मा तद्धर्मो वा प्रत्यक्षः । खरूपेण साक्षात्प्रतिभासमानत्वान्नीलादिवत् । नीलादिर्वा न प्रत्यक्षस्तत एवात्मवत् । नीलादिः प्रत्यक्षः साक्षात् क्रियमाणत्वादिति चेत् । तत एवात्मा प्रत्यक्षोस्तु । कर्मत्वेनाप्रतीयमानत्वान्न प्रत्यक्ष इति चेत् । व्याहतमेतत् । साक्षात्प्रतीयमानत्वं हि विषयीक्रियमाणत्वं, विषयत्वमेव च कर्मत्वं, तच्चात्मन्यस्ति । कथमन्यथा प्रतीयमानतास्य स्यात् । नात्मा प्रतीयते स्वयं किंतु प्रत्येति सर्वदा न ततो प्रतीयमानत्वात्तस्य कर्मत्वसिद्धिरसिद्धता साधनस्येति चेत् । सर्वथा प्रतीयमानत्वमसिद्धं कथंचिद्वा ? न तावत्सर्वथा, परेणापि प्रतीयमानत्वाभावप्रसंगात् । कथंचित्पक्षे तु नासिद्धं साधनं, तथैवोपन्यासात् । खतः प्रतीयमानत्वमसिद्धमिति चेत् । परतः कथं तत्सिद्धं ? विरोधाभावादिति चेत् । खतस्तत्सिद्धौ को विरोधः ? कर्तृत्वकर्मत्वयोः सहानवस्थानमिति चेत् , परतस्तत्सिद्धौ समानं । यदैव खयमर्थ प्रत्येति तदैव परेणानुमानादिनात्मा प्रतीयत इति प्रतीतिसिद्धत्वान्न सहानवस्थानविरोधः । खयं कर्तृत्वस्य परकर्मत्वेनेति चेत् तर्हि स्वयं कर्तृत्वकर्मत्वयोरप्यात्मानमहं जानामीत्यत्र सहप्रतीतिसिद्धत्वाद्विरोधो माभूत् । न चात्मनि कर्मप्रतीतिरुपचरिता, कर्तृत्वप्रतीतेरप्युपचरितत्वप्रसंगात् । शक्यं हि वक्तुं दहत्यग्निरिंधनमित्यत्र क्रियायाः कर्तृसमवायदर्शनात् , जानात्यात्मार्थमित्यत्रापि जानातीति क्रियायाः कर्तृसमवायोपचारः । परमार्थतस्तु तस्य कर्तृत्वे कर्म स एव वा स्यादन्यो वार्थः स्यात् ? स एव चेद्विरोधः । कथमन्यथैकरूपतात्मनः । नानारूपत्वात्तस्यादोष इति चेन्न, अनवस्थानात् । यदि पुनरन्योर्थः कर्म स्यात्तदा प्रतिभासमानोऽप्रतिभासमानो वा ? प्रतिभासमानश्चेत् कर्ता स्यात्ततोन्यत्कर्म वाच्यं, तस्यापि प्रतिभासमानत्वे कर्तृत्वादन्यत्कर्मेत्यनवस्थानान्न क्वचित्कर्मत्वव्यवस्था । यदि पुनरप्रतिभासमानोर्थः कर्मोच्यते तदा खरशृंगादेरपि कर्मत्वापत्तिरिति न किंचित्कर्म स्यादात्मवदर्थस्यापि प्रतिभासमानस्य कर्तृस्वसिद्धेः । यदि पुनरर्थः प्रतिभासजनकत्वादुपचारेण प्रतिभासत इति न वस्तुतः कर्ता तदात्मापि खप्रतिभासजनकत्वादुपचारेण कर्तास्तु विशेषाभावात् । खप्रतिभासं जनयन्नात्मा कथमकर्तेति चेदर्थः कथं ? जडत्वादिति चेत्तत एव खप्रतिभासं माजीजनत् । कारणांतराज्जाते प्रतिभासेर्थः प्रतिभासते न तु खयं प्रतिभासं जनयतीति चेत् , समानमात्मनि । सोपि हि वावरणविच्छेदाजाते प्रतिभासे विभासते म तन्निरपेक्षः खप्रतिभासं जनयतीति । तदेवमात्मनः कर्तृत्वकर्मत्वापलापवादिनौ नान्योन्यमतिशय्येते । ये तु प्रतीत्यनुसरणेनात्मनः खसंविदितात्मत्वमाहुस्ते करणज्ञानात्फलज्ञानाच्च भिन्नस्याभिन्नस्य वा भिन्नाभिन्नस्य वा?
भिन्नस्य करणज्ञानात्फलज्ञानाच्च देहिनः। स्वयं संविदितात्मत्वं कथं वा प्रतिपेदिरे ॥ २१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org