________________
तत्त्वार्थश्लोकवार्तिके ___ यद्धि सर्वथा सर्वसाद्वेदनाद्भिन्नं तन्न वसंविदितं यथा व्योम तथात्मतत्त्वं श्रोत्रियाणामिति कथं तत्तस्येति संप्रतिपन्नाः ॥
यदि हेतुफलज्ञानादभेदस्तस्य कीर्त्यते । परोक्षेतररूपत्वं तदा केन निषिध्यते ॥ २२०॥ परोक्षात् करणज्ञानादभिन्नस्य परोक्षता ।
प्रत्यक्षाच फलज्ञानात्प्रत्यक्षत्वं हि युज्यते ॥ २२१ ॥ परोक्षात् करणज्ञानात् फलज्ञानाच्च प्रत्यक्षादभिन्नस्यात्मनो न परोक्षता अहमिति कर्तृतया संवेदना. नापि प्रत्यक्षता कर्मतया प्रतिभासाभावादिति न मंतव्यं, दत्तोत्तरत्वात् ।।
तथैवोभयरूपत्वे तस्यैतद्दोषदुष्टता।
स्याद्वादाश्रयणं चास्तु कथंचिदविरोधतः ॥ २२२॥ सर्वथा भिन्नाभिन्नात्मकत्वे करणफलज्ञानादात्मनस्तदुभयपक्षोक्तदोषदुष्टता । कथंचिद्भिन्नात्मकत्वे स्याद्वादाश्रयणमेवास्तु विरोधाभावात् । खावरणक्षयोपशमलक्षणायाः शक्तेः करणज्ञानरूपायाः द्रव्यार्थाश्रयणादभिन्नस्यात्मनः परोक्षत्वं, खार्थव्यवसायात्मकाच फलज्ञानादभिन्नस्य प्रत्यक्षत्वमिति स्याद्वादाश्रयणे न किंचिद्विरोधमुत्पश्यामः । सर्वथैकांताश्रयणे विरोधात् । तस्मादात्मा स्यात्परोक्षः स्यात्प्रत्यक्षः । प्रभाकरस्याप्येवमविरोधः किं न स्यादिति चेत् न, करणफलज्ञानयोः परोक्षप्रत्यक्षयोरव्यवस्थानात् । तथाहि
प्रत्यक्षेर्थपरिच्छेदे स्वार्थाकारावभासिनि ।
किमन्यत्करणज्ञानं निष्फलं कल्प्यतेऽमुना ॥ २२३ ॥ अर्थपरिच्छेदे पुंसि प्रत्यक्षे खार्थाकारव्यवसायिनि सति निष्फलं करणज्ञानमन्यच्च फलज्ञानं, तत्कृत्यस्यात्मनैव कृतत्वादिति तदकल्पनीयमेव । खार्थव्यवसायित्वमात्मनोसिद्धं व्यवसायात्मकत्वात्तस्येति चेत् न । खव्यवसायिन एवार्थव्यवसायित्वघटनात् । तथा ह्यात्मार्थव्यवसायसमर्थः सोर्थव्यवसाय्येवेत्यनेनापास्तं । खव्यवसायित्वमंतरेणार्थव्यवसितेरनुपपत्तेः कलशादिवत् । सत्यपि स्वार्थव्यवसायिन्यात्मनि प्रमातरि प्रमाणेन साधकतमेन ज्ञानेन भाव्यं । करणाभावे क्रियानुपपत्तेरिति चेत् न । इंद्रियमनसोरेव करणत्वात् । तयोरचेतनत्वादुपकरणमात्रत्वात् प्रधाने चेतनं करणमिति चेत् न । भावेंद्रियमनसोः परेषां चेतनतयावस्थितत्वात् । तदेव करणज्ञानमस्माकमिति चेत् , तत्परोक्षमिति सिद्धं साध्यते । लब्ध्युपयोगात्मकस्य भावकरणस्य छद्मस्थाप्रत्यक्षत्वात् । तजनितं तु ज्ञानं प्रमाणभूतं नाप्रत्यक्षं स्वार्थव्यवसायात्मकत्वात् , तच्च नात्मनोर्थातरमेवेति स एव खार्थव्यवसायी यदीष्टस्तदा व्यर्थ ततोपरं करणज्ञानं । फलज्ञानं च व्यर्थमनेनोक्तं तस्यापि ततोऽन्यस्यैवासंभवात् । अथवा प्रत्यक्षेर्थपरिच्छेदे फलज्ञाने खार्थाकारावभासिनि सति किमतोन्यत्करणं ज्ञानं पोप्यते निष्फलत्वात्तस्य । तदेव तस्य फलमिति चेत् , प्रमाणादभिन्न भिन्नं वा ? यद्यभिन्नं प्रमाणमेव तदिति कथं फलज्ञाने प्रत्यक्षे करणज्ञानमप्रत्यक्षं? भिन्नं चेन्न करणज्ञानं प्रमाणं खार्थव्यवसायादर्थातरत्वाद् घटादिवत् । कथंचिदभिन्नमिति चेन्न सर्वथा करणज्ञानस्याप्रत्यक्षत्वं विरोधात् । प्रत्यक्षात्फलज्ञानात् कथंचिदभिन्नत्वात् । कर्मत्वेनाप्रतिभासमानत्वात्करणज्ञानमप्रत्यक्षमिति चेन्न, करणत्वेन प्रतिभासमानस्य प्रत्यक्षत्वोपपत्तेः । कथंचित्प्रतिभासते च कर्म च न भवतीति व्याघातस्य प्रतिपादितत्वात् । कथं चायं फलज्ञानं कर्मत्वेनापि प्रतिभासमानमपि प्रत्यक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org