________________
प्रथमोऽध्यायः।
४७
मुपयन् करणज्ञानं तथा नोपैति न चेद्व्याकुलांतःकरणः। फलज्ञानं कर्मत्वेन प्रतिभासत एवेति चेत् न, फलत्वेन प्रतिभासनविरोधात् । ननु च प्रमाणस्य परिच्छित्तिः फलं सा चार्थस्य परिच्छिद्यमानता, तत्प्रतीतिः कर्मत्वप्रतीतिरेवेति चेत् । किं पुनरियं परिच्छित्तिरर्थधर्मः ? तथोपगमे प्रमाणफलत्वविरोधोर्थवत् । प्रमातृधर्मः सेति चेत् , कथं कर्मकर्तृत्वेन प्रतीतेः न कर्मकारकं नापि कर्तृकारकं परिच्छित्तिः। क्रियात्वात् क्रियायाः कारकत्वायोगात् क्रियाविशिष्टस्य द्रव्यस्यैव कारकत्वोपपत्तेरिति चेत् । तर्हि फलज्ञानस्य कर्मत्वेन प्रतीतिर्युक्ता क्रियात्वेनैव फलात्मना प्रतीतिरिति न प्रत्यक्षत्वसंभवः करणज्ञानवदात्मवद्वा ॥
तस्यापि च परोक्षत्वे प्रत्यक्षोर्थो न सिद्ध्यति ।
ततो ज्ञानावसायः स्यात् कुतोऽस्यासिद्धवेदनात् ॥ २२४ ॥ फलज्ञानमात्मा चापरोक्षोस्तु करणज्ञानवदित्ययुक्तमर्थस्य प्रत्यक्षतानुपपत्तेः । प्रत्यक्षां खपरिच्छित्तिमधितिष्ठन्नेव ह्यर्थः प्रत्यक्षो युक्तो नान्यथा, सर्वस्य सर्वदा सर्वथार्थस्य प्रत्यक्षत्वप्रसंगात् । तथात्मनः परोक्षत्वे संतानांतरस्येवार्थः प्रत्यक्षो न स्यादन्यथा सर्वात्मांतरप्रत्यक्षः सर्वस्यात्मनः प्रत्यक्षोसौ किं न भवेत् , सर्वथा विशेषाभावात् । ततश्चाप्रत्यक्षादर्थात् न कुतश्चित्परोक्षज्ञाननिश्चयोस्य वादिनः स्यात् येनेदं शोभेत ।-ज्ञाते त्वनुमानादवगच्छतीति । नाप्यसिद्धसंवेदनात्पुरुषात्तन्निश्चयो यतोनवस्था न भवेत् । तल्लिंगज्ञानस्यापि परोक्षत्वे अपरानुमानान्निर्णयात्तलिंगस्याप्यपरानुमानादिति । वसंवेद्यत्वादात्मनो नानवस्थेति चेत् न, तस्य ज्ञानासंवेदकत्वात् । तत्संवेदकत्वे वार्थसंवेदकत्वं तस्य किं न स्यात् ? खतोर्थातरं कथंचिद् ज्ञानमात्मा संवेदयते न पुनरर्थमिति किंकृतोयं नियमः ? संवेदयमानोपि ज्ञानमात्मा ज्ञानांतरेण संवेदयते खतो वा ? ज्ञानांतरेण चेत् , प्रत्यक्षेणेतरेण वा ? न तावत्प्रत्यक्षेण सर्वस्य सर्वज्ञानस्य परोक्षत्वोपगमात् । नापीतरेण ज्ञानेन संतानांतरज्ञानेनेव तेन ज्ञातुमशक्तेः । वयं ज्ञातेन चेत् ? ज्ञानांतरेण खतो वा ? ज्ञानांतरेण चेत् , प्रत्यक्षेणेतरेण वेत्यादि पुनरावर्तत इति चक्रकमेतत् । खतो ज्ञानमात्मा संवेदयते खरूपवदिति चेत् , तथैव ज्ञानमर्थ खं च खतः किं न वेदयते ? यतः परोक्षज्ञानवादो महामोहविजूंभित एव न स्यात् ॥
कथं चात्मा स्वसंवेद्यः संवित्ति!पगम्यते ।
येनोपयोगरूपोयं सर्वेषां नाविगानतः ॥ २२५ ॥ कुतः पुनरुपयोगात्मा नरः सिद्ध इति चेत्
कथंचिदुपयोगात्मा पुमानध्यक्ष एव नः।
प्रतिक्षणविवादिरूपेणास्य परोक्षता ॥ २२६ ॥ खाकारव्यवसायरूपेणार्थालोचनमात्ररूपेण च ज्ञानदर्शनोपयोगात्मकः पुमान् प्रत्यक्ष एव तथा खसंविदितत्वात् । प्रतिक्षणपरिणामेन खावरणक्षयोपशमविशिष्टत्वेनासंख्यातप्रदेशत्वादिना चानुमेयः प्रवचनसमधिगम्यश्चात्यंतपरोक्षरूपेणेति निर्णतव्यं बाधकाभावात् ॥
स्वरूपं चेतना पुंसः सदौदासीन्यवर्तिनः। प्रधानस्यैव विज्ञानं विवर्त इति चापरे ॥ २२७ ॥ तेषामध्यक्षतो बाधा ज्ञानस्यात्मनि वेदनात् । भ्रांतिश्चेन्नात्मनस्तेन शून्यस्यानवधारणात् ॥ २२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org