________________
तत्वार्थश्लोकवार्तिके
यथात्मनि चेतनस्य संवेदनं मयि चैतन्यं चेतनोहमिति वा तथा ज्ञानस्यापि मयि ज्ञानं ज्ञाताहमिति चा प्रत्यक्षतः सिद्धेर्यथोदासीनस्य पुंसश्चैतन्यं स्वरूपं तथा ज्ञानमपि तत्प्रधानस्यैव विवर्त ब्रुवाणस्य प्रत्यक्षबाधा । ज्ञानस्यात्मनि संवेदनं भ्रांतिरिति चेत् न । स्यात्तदैवं यदि ज्ञानशून्यस्यात्मनः कदाचित्संविदाभ्रांता स्यात् । सर्वदा ज्ञानसंसर्गादात्मनो ज्ञानित्वसंवित्तिरिति चेत्— औदासीन्यादयो धर्माः पुंसः संसर्गजा इति ।
युक्तं सांख्यपशोर्वक्तुं ध्यादिसंसर्गवादिनः ॥ २२९ ॥
ज्ञानसंसर्गतो ज्ञानी सुखसंसर्गतः सुखी पुमान्न तु खयमिति वदतः सांख्यस्य पशोरिवात्मानमप्यजानतो युक्तं वक्तुमौदासीन्यस्य संसर्गादुदासीनः पुरुषः चैतन्यसंसर्गाश्चेतनो भोक्तृत्वसंसर्गाद्भोक्ता शुद्धिसंसर्गाच्च शुद्ध इति, स्वयं तु ततो विपरीत इति विशेषाभावात् । न हि तस्यानवबोधखभावतादौ प्रमाणमस्ति ॥ सदात्मानवबोधादिस्वभावश्चेतनत्वतः । सुषुप्तावस्थवन्नायं हेतुर्व्याप्यात्मवादिनः ॥ २३० ॥
४८
स्वरूपासिद्धी हि हेतुरयं व्यापिनमात्मानं वदतः कुतः -
जीवो ह्यचेतनः काये जीवत्वाद्वाह्यदेशवत् । वक्तुमेवं समर्थोन्यः किं न स्याज्जडजीववाक् ॥ २३९ ॥ कायाद्वहिरचेतनत्वेन व्याप्तस्य जीवत्वस्य सिद्धेः कायेप्यचेतनत्वसिद्धिरिति नानवबोधादिखभावत्वे साध्ये चेतनत्वं साधनमसिद्धस्यासाधनत्वात् ॥
शरीराद्वहिरप्येष चेतनात्मा नरत्वतः । कायदेशवादित्येतत्प्रतीत्या विनिवार्यते ॥ २३२ ॥
काये चेतनत्वेन प्राप्तस्य नरत्वस्य दर्शनात्ततो बहिरप्यात्मनश्चेतनत्व सिद्धेर्नासिद्धसाधनमिति न मंतव्यं प्रतीतिबाधनात् ॥
तथाहि बाह्यदेशेपि पुंसः संवेदनं न किम् ।
कायदेशवदेव स्याद्विशेषस्याप्यसंभवात् ॥ २३३ ॥
यस्य हि निरतिशयः पुरुषस्तस्य कायेन्यत्र च न तस्य विशेषोस्ति यतः काये संवेदनं न ततो हरिति युज्यते ॥
कायाइहिरभिव्यक्तेरभावात्तदवेदने ।
पुंसो व्यक्तेतराकार भेदाद्भेदः कथं न ते ।। २३४ ॥
कायेभिव्यक्तत्वात् पुंसः संवेदनं न ततो बहिरनभिव्यक्तत्वादिति ब्रुवाणः कथं तस्यैकखभावतां साधयेत्, व्यक्तेतराकारभेदाद्भेदस्य सिद्धेः । यत्र व्यक्तसंसर्गस्तत्रात्मा संवेद्यते नान्यत्रेत्यप्यनेनापास्तं । निरंशस्य क्वचिदेव व्यक्तसंसर्गस्येतरस्य वा सकृदयोगात् । सकृदेकस्य परमाणोः परमाण्वंतरेण संसर्ग क्वचिदन्यत्र वासंसंगै प्रतिपद्यत इति चेत् न, तस्यापि कचिद्देशे सतो देशांतरे च तदसिद्धेः । गगनवत्स्यादिति चेत् न, तस्यानंतप्रदेशतया प्रसिद्धस्य तदुपपत्तेरन्यथात्मवदघटनात् । नन्वेकं द्रव्यमनंतपर्यायान् सकृदपि यथा व्याप्नोति तथात्मा व्यक्तविवर्तशरीरेण संसर्ग क्वचिदन्यत्र वाऽसंसर्ग प्रतिपद्यत इति चेन्न, वस्तुनो द्रव्यपर्यायात्मकस्य जात्यंतरत्वात्, व्याप्यव्यापकभावस्य नयवशात्तत्र निरूपणात् । नैवं नानैकखभावः पुरुषो जात्यंतरतयोपेयते निरतिशयात्मवादविरोधादिति । कायेभिव्यक्तौ ततो बहिर -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org