________________
१९
प्रथमोऽध्यायः। भिव्यक्तिप्रसक्तेः सर्वत्र संवेदनमसंवेदनं नोचेत् नानात्वापत्तिर्दुःशक्या परिहर्तु । ततो नैतौ सर्वगतात्मवादिनौ चेतनत्वमचेतनत्वं वा साधयितुमात्मनः समर्थौ यतोसिद्धं साधनं न स्यात् । स्याद्वादिनः सांख्यस्य च प्रसिद्धमेव चेतनत्वं साधनमिति चेन्नानवबोधाद्यात्मकत्वेन प्रतिवादिनश्चेतनत्वस्येष्टेस्तस्य हेतुत्वे विरुद्धसिद्धेविरुद्धो हेतुः स्यात् । साध्यसाधनविकलश्च दृष्टांतः सुषुप्तावस्थस्याप्यात्मनश्चेतनत्व, मात्रेणानवबोधादिखभावत्वेन चाप्रसिद्धेः ।। कथम्
सुषुप्तस्यापि विज्ञानस्वभावत्वं विभाव्यते ।
प्रवुद्धस्य सुखप्राप्तिस्मृत्यादेः स्वप्नदर्शिवत् ॥ २३५॥ खप्नदर्शिनो हि यथा सुप्तप्रबुद्धस्य सुखानुभवनादिस्मरणाद्विज्ञानस्वभावत्वं विभावयंति तथा सुषुप्तस्यापि सुखमतिसुषुप्तोहमिति प्रत्ययात् । कथमन्यथा सुषुप्तौ पुंसश्चेतनत्वमपि सिद्ध्येत् । प्राणादिदर्शनादिति चेत
यथा चैतन्यसंसिद्धिः सुषुप्तावपि देहिनः। प्राणादिदर्शनात्तद्वद्वोधादिः किं न सिद्ध्यति ॥ २३६ ॥ जाग्रतः सति चैतन्ये यथा प्राणादिवृत्तयः।
तथैव सति विज्ञाने दृष्टास्ता बाधवर्जिताः ॥ २३७ ॥ वीरणादौ चैतन्याभावे प्राणादिवृत्तीनामभावनिश्चयानिश्चितव्यतिरेकाभ्यस्ताभ्यः सुषुप्तौ चैतन्यसिद्धिरिति चेत् ॥
प्राणादयो निवर्तते यथा चैतन्यवर्जिते ।
वीरणादौ तथा ज्ञानशून्येपीति विनिश्चयः ॥ २३८ ॥ न हि चेतनत्वे साध्ये निश्चितव्यतिरेकाः प्राणादिवृत्तयो न पुनर्ज्ञानात्मकतायामिति शक्यं वक्तुं, तदभावेपि तासां वीरणादावभावनिर्णयात् । चैतन्याभावादेव तत्र ता न भवंति न तु विज्ञानाभावादिति कोशपानं विधेयं । सत्यं । विज्ञानाभावे ता न भवंति, सत्यपि चैतन्ये मुक्तस्य तदभावादित्यपरे । तेषां सुषुप्तौ विज्ञानाभावसाधनमयुक्तं, प्राणादिवृत्तीनां सद्भावात् । तथा च न सोदाहरणमिति कुतः साध्यसिद्धिः । सुखबुद्ध्यादयो नात्मस्वभावाः स्वयमचेतनत्वाद्र्पादिवदित्यनुमानादिति चेत् , कुतस्तेषामचेतनत्वसिद्धिः?
सुखवुद्ध्यादयो धर्माश्चेतनारहिता इमे । भंगुरत्वादितो विद्युत्प्रदीपादिवदित्यसत् ॥ २३९॥ हेतोरात्मोपभोगेनानेकांतात्परमार्थतः।
सोप्यनित्यो यतः सिद्धः कादाचित्कत्वयोगतः॥ २४०॥ पुरुषानुभवो हि नश्वरः कादाचित्कत्वाद्दीपादिवदिति परमार्थतस्तेन भंगुरत्वमनैकांतिकमचेतनत्वेसाध्ये । कादाचित्कः कुतः सिद्धः पुरुषोपभोगः खसद्भावादिति चेत् ।
कादाचित्कः परापेक्ष्यसद्भावाद्विभ्रमादिवत् । वुद्ध्यध्यवसितार्थस्य शब्दादेरुपलंभतः ॥ २४१ ॥ परापेक्ष्यः प्रसिद्धोयमात्मनोनुभवोंजसा । परानपेक्षितायां तु दृष्टेः सर्वदर्शिता ॥ २४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org