________________
तत्त्वार्थश्लोकवार्तिके
परापेक्षितया कादाचित्कत्वं व्याप्तं, तेन चानित्यत्वमिति तत्सिद्धौ तत्सिद्धिः । परापेक्षिता पुरुषानुभवस्य नासिद्धा, परस्य बुद्ध्यध्यवसायस्यापेक्षणीयत्वात् । बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत इति वचनात् । परानपेक्षितायां तु पुरुषदर्शनस्य सर्वदर्शितापत्तिः, सकलार्थ बुद्ध्यध्यवसायापायेपि सकलार्थदर्शनस्योपपत्तेरिति योगिन इवायोगिनोऽमुक्तस्य च सार्वज्ञमनिष्टमायातम् ॥
५०
सर्वस्य सर्वदा पुंसः सिद्ध्युपायस्तथा वृथा । ततो बोधयोरात्मखभावत्वं प्रसिद्ध्यतु ॥ २४३ ॥ कथंचिन्नश्वरत्वस्याविरोधान्नर्यपीक्षणात् । तथैवार्थक्रियासिद्धेरन्यथा वस्तुताक्षतेः ॥ २४४ ॥
सर्वस्य सर्वज्ञत्वे च वृथा सिद्ध्युपायः साध्याभावात् । सिद्धिर्हि सर्वज्ञता मुक्तिर्वा कुतश्चिदनुष्ठानात्साध्यते ? तत्र न तावत्सर्वज्ञता तस्याः खतः सिद्धत्वात् । नापि मुक्ति: सर्वज्ञतापाये तदुपगमात्तस्य चासंभवात् । परानपेक्षितायाः सर्वदर्शितायाः परानिवृत्तावपि प्रसक्तेः । स्यान्मतं । न बुद्ध्यध्यवसितार्थालोचनं पुंसो दर्शनं तस्यात्मखभावत्वेन व्यवस्थितत्वादिति । तदपि नावधानीयं, बोधस्याप्यात्मखभावत्वोपपत्तेः । न ह्यहंकाराभिमतार्थाध्यवसायो बुद्धिस्तस्याः पुंखभावत्वेन प्रतीतेर्बाधकाभावात् । इति दर्शनज्ञानयोरात्मस्वभावत्वमेव प्रसिद्ध्यतु विशेषाभावात् । ननु च नश्वरज्ञानस्वभावत्वे पुंसो नश्वरत्वप्रसंगो बाधक इति चेत् न, नश्वरत्वस्य नरेपि कथंचिद्विरोधाभावात्, पर्यायार्थतः परपरिणामाक्रांततावलोकनात्, अपरिणामिनः क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेर्वस्तुत्वहानिप्रसंगान्नित्यानित्यात्मकत्वेनैव कथंचिदर्थक्रियासिद्धिरित्यलं प्रपंचेन, आत्मनो ज्ञानदर्शनोपयोगात्मकस्य प्रसिद्धेः ॥ संसारव्याधिविध्वंसः कचिज्जीवे भविष्यति । तन्निदानपरिध्वंससिद्धेर्ज्वरविनाशवत् ॥ २४५ ॥ तत्परिध्वंसनेनातः श्रेयसा योक्ष्यमाणता ।
पुंसः स्याद्वादिनां सिद्धा नैकांते तद्विरोधतः ॥ २४६ ॥
सन्नप्यात्मोपयोगात्मा न श्रेयसा योक्ष्यमाणः कश्चित् सर्वदा रागादिसमाक्रांतमानसत्वादिति केचि - त्संप्रतिपन्नाः। तान् प्रति तत्साधनमुच्यते । श्रेयसा योक्ष्यमाणः कश्चित् संसारव्याधिविध्वंसित्वान्यथानुपपत्तेः । श्रेयोत्र सकलदुःखनिवृत्तिः । सकलदुःखस्य च कारणं संसारव्याधिः । तद्विध्वंसे कस्यचित्सिद्धं श्रेयसा योक्ष्यमाणत्वं, तल्लक्षणकारणानुपलब्धेः । न च संसारव्याधेः सकलदुःखकारणत्वमसिद्धं जीवस्य पारतंत्र्यनिमित्तत्वात् । पारतंत्र्यं हि दुःखमिति । एतेन सांसारिक सुखस्य दुःखत्वमुक्तं, स्वातंत्र्यस्यैव सुखत्वात् । शक्रादीनां खातंत्र्यं सुखमस्त्येवेति चेन्न तेषामपि कर्मपरतंत्रत्वात् । निराकांक्षतात्मकसंतोषरूपं तु सुखं न सांसारिकं, तस्य देशमुक्तिसुखत्वात् । देशतो मोहक्षयोपशमे हि देहिनो निराकांक्षता विषयरतौ नान्यथातिप्रसंगात् । तदेतेन यतिजनस्य प्रशमसुखमसांसारिकं व्याख्यातं । क्षीणमोहानां तु कार्यतः प्रशमसुखं मोहपरतंत्रत्वनिवृत्तेः । यदपि संसारिणामनुकूल वेदनीयप्रातीतिकं सुखमिति मतं, तदप्यभिमानमात्रं । पारतंत्र्याख्येन दुःखेनानुषक्तत्वात्तस्य तत्कारणत्वात् कार्यत्वाच्चेति न संसारव्याधिर्जातुचित्सुखकारणं येनास्य दुःखकारणत्वं न सिद्ध्येत् । तद्विध्वंसः कथमिति चेत्, कचिन्निदानपरिध्वंससिद्धेः । यत्र यस्य निदानपरिध्वंसस्तत्र तस्य परिध्वंसो दृष्टो यथा क्वचिज्वरस्य । निदानपरिध्वंसश्च संसारव्याधेः शुद्धात्मनीति कारणानुपलब्धिः । संसारव्याधेर्निदानं मिथ्यादर्शनादि, तस्य विध्वंसः सम्यग्दर्शनादिभावनाबलात् क्वचिदिति समर्थयिष्यमाणत्वान्न हेतोरसिद्धता शंकनीया । सरसि शंखकादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org