________________
प्रथमोऽध्यायः ।
५१
नानैकांतिकोयं हेतुः खनिदानस्य जलस्य परिध्वंसेपि तस्यापरिध्वंसादिति चेन्न । तस्य जलनिदानत्वासिद्धेः । खारंभकपुद्गलपरिणाम निदानत्वात् शंखकादेस्तत्सहकारिमात्रत्वाज्जलादीनां । न हि कारणमात्रं केनचित्कस्यचिन्निदानमिष्टं नियतस्यैव कारणस्य निदानत्वात् । न च तन्नाशे कस्यचिन्निदानिनो न नाश इत्यव्यभिचार्येव हेतुः कथंचन संसारव्याधिविध्वंसनं साधयेद्यतस्तत्परिध्वंसनेन श्रेयसा योक्ष्य• माणः कश्चिदुपयोगात्मकात्मा न स्यात् । निरन्वयविनश्वरं चित्तं श्रेयसा योक्ष्यमाणमिति न मंतव्यं, तस्य क्षणिकत्वविरोधात् । संसारनिदानरहिताच्चित्ताच्चित्तांतरस्य श्रेयः स्वभावस्योत्पद्यमानतैव श्रेयसा योक्ष्यमाणता, सा न क्षणिकत्वविरुद्धेति चेन्न, क्षणिकैकांते कुतश्चित्कस्यचिदुत्पत्त्ययोगात् । संतानः श्रेयसा योक्ष्यमाण इत्यप्यनेन प्रतिक्षिप्तं, संतानिव्यतिरेकेण संतानस्यानिष्टेः । पूर्वोत्तरक्षण एव हापरामृष्टभेदाः (?) संतानस्स चावस्तुभूतः कथं श्रेयसा योक्ष्यते ? प्रधानं श्रेयसा योक्ष्यमाणमित्यप्यसंभाव्यं, पुरुषपरिकल्पनविरोधात् । तदेव हि संसरति तदेव च विमुच्यत इति किमन्यत्पुरुष साध्यमस्ति ? प्रधानकृतस्यानुभवनं पुंसः प्रयोजनमिति चेत्, प्रधानस्यैव तदस्तु | कर्तृत्वात्तस्य तन्नेति चेत् । स्यादेवं यदि कर्तानुभविता न स्यात् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रसक्तिरिति चेत्, मुक्तः किमकर्तेष्टः ? विषयसुखादेरकर्तैवेति चेत्, कुतः स तथा तत्कारणकर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारण - कर्मविशेषस्य॒ कर्तृत्वाद्विषयसुखादेः कर्ता स एव चानुभविता किं न भवेत् ? संसार्यवस्थायामात्मा विषयसुखादितत्कारणकर्मणां न कर्ता चेतनत्वान्मुक्तावस्थावदित्येतदपि न सुंदरं, खेष्टविघातकारित्वात् । कथं । संसार्यवस्थायामात्मा न सुखादेर्भोक्ता चेतनत्वान्मुक्तावस्थावदिति खेष्टस्यात्मनो भो - स्वस्य विघातात् । प्रतीतिविरुद्धमिष्टविघातसाधनमिति चेत्, कर्तृत्वाभावसाधनमपि पुंसः श्रोता घ्राताह - मिति स्वकर्तृत्वप्रतीतेः । श्रोताहमित्यादिप्रतीतेरहंकारास्पदत्वादहंकारस्य च प्रधानविवर्तत्वात्प्रधानमेव कर्तृतया प्रतीयत इति चेत्, तत एवानुभवितृ प्रधानमस्तु । न हि तस्याहंकारास्पदत्वं न प्रतिभाति शब्दादेरनुभविताहमिति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रांतमनुभवितुरहंकार (स्पदत्वमिति चेत्, कर्तुः कथमभ्रांतं ? तस्याहंकारास्पदत्वादिति चेत्, तत एवानुभवितुस्तदभ्रांतमस्तु । तस्यौपाधिकत्वादहंकारास्पदत्वं भ्रांतमेवेति चेत्, कुतरतदौपाधिकत्वसिद्धिः ? पुरुषस्वभावत्वाभावादहंकारस्य तदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्वस्यौपाधिकमिति चेत्, स्यादेवं यदि पुरुषस्वभावोहंकारो न स्यात् । मुक्तस्याहंकारा - भावादपुरुषस्वभाव एवाहंकारः; खभावो हि न जातुचित्तद्वंतं त्यजति, तस्य निःखभावत्वप्रसंगादिति चेन्न । स्वभावस्य द्विविधत्वात्, सामान्य विशेषपर्यायभेदात् । तत्र सामान्यपर्यायः शाश्वतिकः खभावः, कादाचित्को विशेषपर्याय, इति न कादाचित्कत्वात्पुंस्यहंकारादेरतत्खभावता । ततो न तदास्पदत्वमनुभवितृत्वस्यैौपाधिकं, येनाभ्रांतं न भवेत् कर्तृत्ववत् । न चात्रांताहंकारास्पदत्वाविशेषेपि कर्तृत्वानुभवितृत्वयोः प्रधानात्मकत्वमयुक्तं, यतः पुरुषकल्पनमफलं न भवेत्, पुरुषात्मकत्वे वा तयोः प्रधानपरिकल्पनं । तथाविधस्य चासतः प्रधानस्य गगनकुसुमस्येव न श्रेयसा योक्ष्यमाणता । पुरुषस्य सास्तु इति चेन्न, तस्यापि निरतिशयस्य मुक्तावपि तत्प्रसंगात् । तथा च सर्वदा श्रेयसा योक्ष्यमाण एव स्यात्पुरुषो न चायुज्यमानः । पूर्वं योक्ष्यमाणः पश्चात्तेनायुज्यमान इति चायुक्तं, निरतिशयैकांतत्वविरोधात् । खतो भिन्नैरतिशयैः सातिशयस्य पुंसः श्रेयसा योक्षमाणता भवत्वितिचेन्न, अनवस्थानुषंगात् । पुरुषो हि स्वातिशयैः संबध्यमानो यदि नानाखभावैः संबध्यते, तदा तैरपि संबध्यमानः परैर्नानाखभावैरित्यनवस्था । स तैरेकेन स्वभावेन संबध्यते इति चेत् न, अतिशयानामेकत्वप्रसंगात् । कथमन्यथैकखभावेन क्रियमाणानां नानाकार्याणामेकत्वापत्तेः पुरुषस्य नानाकार्यकारिणो नानातिशयकल्पना युक्तिमधितिष्ठेत् । खातिशयैरात्मा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org