________________
५२
तत्त्वार्थश्लोकवार्तिके
संबध्यत एवेति चासंबंधे तैस्तस्य व्यपदेशाभावानुषंगात् । खातिशयैः कथंचित्तादात्म्योपगमे तु स्याद्वाद - सिद्धिः । इत्यनेकांतात्मकस्यैवात्मनः श्रेयोयोक्ष्यमाणत्वं न पुनरेकांतात्मनः, सर्वथा विरोधात् ॥ कालादिलब्ध्युपेतस्य तस्य श्रेयः पथे बृहत् ।
पापापायाच्च जिज्ञासा संप्रवर्तेत रोगिवत् ॥ २४७ ॥
श्रेयोमार्गजिज्ञासोपयोगखभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य कस्यचित्कालादिलब्धौ सत्यां बृहत्पापापायात् संप्रवर्तते श्रेयोमार्गजिज्ञासात्वात् रोगिणो रोगविनिवृत्तिजश्रेयोमार्गजिज्ञासावत् । न साध्यविकलमुदाहरणं रोगिणः स्वयमुपयोगस्वभावस्य रोगविनिवृत्तिजश्रेयसायोक्ष्यमाणस्य कालादिलब्धौ सत्यां बृहत्पापापायात् संप्रवर्तमानायाः श्रेयोजिज्ञासायाः सुप्रसिद्धत्वात् । तत्तत एव न साधनविकलं श्रेयोमार्गजिज्ञासात्वस्य तत्र भावात् । निरन्वयक्षणिकचित्तस्य संतानस्य प्रधानस्य वाऽनात्मनः श्रेयोमार्गजिज्ञासेति न मंतव्यमात्मन इति वचनात्तस्य च साधितत्वात् । जडस्य चैतन्यमात्रखरूपस्य चात्मनः सेत्यपि न शंकनीयमुपयोगखभावस्येति प्रतिपादनात् । तथास्य समर्थनात् । निःश्रेयसेनासंपित्स्यमानस्य तस्य सेति च न चिंतनीयं, श्रेयसा योक्ष्यमाणस्येति निगदितत्वात् । तस्य तथा व्यवस्थापितत्वात् । कालदेशादिनियममंतरेणैव सेत्यपि च न मनसि निधेयं, कालादिलब्धौ सत्यामित्यभिधानात्तथा प्रतीतेश्च । बृहत्पापापायमंतरेणैव सा संप्रवर्तत इत्यपि माभिमंस्त, बृहत्पापापायात्तत्संप्रवर्तनस्य प्रमाणसिद्धत्वात् । न हि क्वचित्संशयमात्रात् क्वचिज्जिज्ञासा, तत्प्रतिबंधकपापाक्रांतमनसः संशयमात्रेणावस्थानात् । सति प्रयोजने जिज्ञासा तत्रेत्यपि न सम्यक्, प्रयोजनानंतरमेव कस्यचिद्व्यासंगतस्तदनुपपत्तेः । 'दुःखत्रयाभिघाताज्जिज्ञासा तदपघात के तौ' इति केचित् । तेपि न न्यायवादिनः । सर्वसंसारिणां तत्प्रसंगात्, दुःखत्रयाभिघातस्य भावात् । आनायादेव श्रेयोमार्गजिज्ञासेत्यन्ये । तेषामथातो धर्मजिज्ञासेति सूत्रेथशब्दस्यानंतर्यार्थे वृत्तेरथेदमधीत्याम्न्नायादित्याम्नायादधीतवेदस्य वेदवाक्यार्थेषु जिज्ञासाविधिरवगम्यत इति व्याख्यानं । तदयुक्तं । सत्यप्याम्नाय - श्रवणे तदर्थावधारणेऽभ्यासे च कस्यचिद्धर्मजिज्ञासानुपपत्तेः । कालांतरापेक्षायां तदुत्पत्तौ सिद्धं कालादिलब्धौ तत्प्रतिबंधकपापापायाच्च श्रेयः पथे जिज्ञासायाः प्रवर्तनं । संशयप्रयोजनदुःखत्रयाभिघातान्नायश्रवणेषु सत्खपि कस्यचित्तदभावादसत्स्वपि भावात् । कदाचित्संशयादिभ्यस्तदुत्पत्तिदर्शनात्तेषां तत्कारणत्वे लोभाभिमानादिभ्योपि तत्प्रादुर्भावावलोकनात्तेषामपि तत्कारणत्वमस्तु । नियतकारणत्वं तु तज्जनने बृहत्पापापायस्यैवांतरंगस्य, कारणत्वं बहिरंगस्य तु कालादेरिति युक्तं, तदभावे तज्जननानीक्षणात् । कालादि न नियतं कारणं बहिरंगत्वात् संशयलोभादिवदिति चेन्न, तस्यावश्यमपेक्षणीयत्वात् । कार्योंतरसाधारणत्वात्तु बहिरंगं तदिष्यते, ततो न हेतोः साध्याभावेपि सद्भावः संदिग्धो निश्चितो वा, यतः संदिग्धव्यतिरेकता निश्चितव्यभिचारिता वा भवेत् । ननु च स्वप्रतिबंधकाधर्मप्रक्षयात्कालादिसहायादस्तु श्रेयः पथे जिज्ञासा, तद्वानेव तु प्रतिपाद्यते इत्यसिद्धं । संशयप्रयोजन जिज्ञासाशक्यप्राप्तिसंशयव्युदासतद्वचनवतः प्रतिपाद्यत्वात् । तत्र संशयितः प्रतिपाद्यस्तत्त्वपर्यवसायिना प्रश्नविशेषेणाचार्य प्रत्युपसर्पकत्वात्, नान्युत्पन्नो विपर्यस्तो वा तद्विपरीतत्वाद्वालकवद्दस्युवद्वा । तथा संशयवचनवान् प्रतिपाद्यः खसंशयं वचनेनाप्रकाशयतः संशयितस्यापि ज्ञातुमशक्तेः । परिज्ञातसंशयोपि वचनात् प्रयोजनवान् प्रतिपाद्यो न स्वसंशयप्रकाशनमात्रेण विनिवृत्ताकांक्षः । प्रयोजनवचनवांश्च प्रतिपाद्यः, खप्रयोजनं वचनेनाप्रकाशयतः प्रयोजनवतोपि निश्चेतुमशक्यत्वात् । तथा जिज्ञासावान् प्रतिपाद्यः प्रयोजनवतो निश्चितस्यापि ज्ञातुमनिच्छतः प्रतिपादयितुमशक्यत्वात् । तद्वानपि तद्वचनवान् प्रतिपाद्यते खां जिज्ञासां वचनेनानिवेदयतस्तद्वत्तया निर्णेतुमशक्तेः । तथा जिज्ञासुर्निश्चितोपि शक्यप्राप्तिमानेव प्रतिपादनायोग्यस्तत्त्वमुपदिष्टं प्राप्तुमशक्नुवतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org