________________
तत्त्वार्थश्लोकवार्तिके समग्रक्षयहेतुकं हि चक्षुषि तिमिरादि न पुनरुद्भवदृष्टं तद्वत्सर्वविदो ज्ञानप्रतिबंधकमिति । ननु क्षयमात्रसिद्धावप्यामूलक्षयोस्य न सिद्ध्येत् । पुनर्नयने तिमिरमुद्भवद् दृष्टमेवेति चेन्न, तदा तस्य समग्रक्षयहेतुत्वाभावात् । समग्रक्षयहेतुकमेव हि तिमिरादिकमिहोदाहरणं नान्यत् । न चानेन हेतोरनैकांतिकता तत्र तदभावात् । किं पुनः केवलस्य प्रतिबंधकं यस्यात्यंतपरिक्षयः कचित्साध्यत इति नाक्षेप्तव्यम् ।
मोहो ज्ञानहगावृत्त्यंतरायाः प्रतिबंधकाः।
केवलस्य हि वक्ष्यंते तद्भावे तदनुद्भवात् ॥ ३५ ॥ यद्भावे नियमेन यस्यानुद्भवस्तत्तस्य प्रतिबंधकं यथा तिमिरं नेत्रविज्ञानस्य मोहादिभावोस्मदादेश्वक्षुर्ज्ञानानुद्भवश्व केवलस्येति मोहादयस्तत्प्रतिबंधकाः प्रवक्ष्यंते । ततो न धर्मिणोऽसिद्धिः। कः पुनरेतत्क्षयहेतुः समग्रो यद्भावाद्धेतुसिद्धिरिति चेत् ;
तेषां प्रक्षयहेतू च पूर्णौ संवरनिर्जरे । ते तपोतिशयात्साधोः कस्यचिद्भवतो ध्रुवम् ॥ ३६॥ तपो ह्यनागताघौघप्रवर्तननिरोधनम् । तजन्महेतुसंघातप्रतिपक्षयतो यथा ॥ ३७॥ भविष्यत्कालकूटादिविकारौघनिरोधनम् । मंत्रध्यानविधानादि स्फुटं लोके प्रतीयते ॥ ३८ ॥ नृणामप्यघसंबंधो रागद्वेषादिहेतुकः। दुःखादिफलहेतुत्वादतिभुक्तिविषादिवत् ॥ ३९॥ तद्विरोधिविरागादिरूपं तप इहोच्यते । तदसिद्धावतजन्मकारणप्रतिपक्षता ॥४०॥ तदा दुःखफलं कर्मसंचितं प्रतिहन्यते । कायक्लेशादिरूपेण तपसा तत्सजातिना ॥४१॥ स्वाध्यायादिखभावेन परप्रशममूर्तिना।
बद्धं सातादिकृत्कर्म शक्रादिसुखजातिना ॥४२॥ केवलप्रतिबंधकस्यानागतस्य संचितस्य वात्यंतिकक्षयहेतू समग्रौ संवरनिर्जरे तपोतिशयात् कस्यचिदवश्यं भवत एवेति प्रमाणसिद्धं तस्य समग्रक्षयहेतुत्वसाधनं यतः ।
ततो निःशेषतत्त्वार्थवेदी प्रक्षीणकल्मषः।।
श्रेयोमार्गस्य नेतास्ति स संस्तुत्यस्तदर्थिभिः॥४३॥ ननु निःशेषतत्त्वार्थवेदित्वे प्रक्षीणकल्मषत्वे च चारित्राख्ये सम्यग्दर्शनाविनाभाविनि सिद्धेपि भगवतः शरीरत्वेनावस्थानासंभवान्न श्रेयोमार्गोपदेशित्वं तथापि तदवस्थाने शरीरत्वाभावस्य रत्नत्रयनिबंधनत्वविरोधात् तद्भावेप्यभावात् । कारणांतरापेक्षायां न रत्नत्रयमेव संसारक्षयनिमित्तमिति कश्चित् । सोपि न विपश्चित् । यस्मात्
तस्य दर्शनशुद्ध्यादिभावनोपात्तमूर्तिना। पुण्यतीर्थकरत्वेन नाम्ना संपादितश्रियः ॥४४॥ स्थितस्य च चिरं खायुर्विशेषवशवर्तिनः।। श्रेयोमार्गोपदेशित्वं कथंचिन्न विरुध्यते ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org