SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । किंचिज्ज्ञस्यापि तद्वन्मे तेनैवेति विनिश्चयः । इत्ययुक्तमशेषज्ञसाधनोपायसंभवात् ॥ २७ ॥ स्वयमसर्वज्ञस्यापि सर्वविदो बोद्धारो वृत्ता वर्तते वर्तिष्यंते मत्तोऽन्येपीति युक्तं वक्तुं, तत्सिच्युपायघटनात् । तत्पुनरसर्वज्ञवादिनस्ते पूर्वं नासन्न संति न भविष्यतीति प्रमाणाभावात् । कथम् — यथाहमनुमानादेः सर्वज्ञं वेद्मि तत्त्वतः । तथान्येपि नराः संतस्तद्वोद्धारो निरंकुशाः ॥ २८ ॥ संतः प्रशस्याः प्रेक्षावंतः पुरुषास्ते मदन्येप्यनुमानादिना सर्वज्ञस्य बोद्धारः प्रेक्षावत्त्वात् यथाहमिति ब्रुवतो न किंचिद्बाधकमस्ति । न च प्रेक्षावत्त्वं ममासिद्धं निरवद्यं सर्वविद्यावेदकप्रमाणवादित्वात् । यो हि यत्र निरवद्यं प्रमाणं वक्ति स तत्र प्रेक्षावानिति सुप्रसिद्धम् । यथा मम न तद्ज्ञप्तेरुपलं भोस्ति जातुचित् । तथा सर्वनृणामित्यज्ञानस्यैव विचेष्टितम् ॥ २९ ॥ हेतोर्नरत्वकायादिमत्त्वादेर्व्यभिचारतः । स्याद्वादिनैव विश्वज्ञमनुमानेन जानता ॥ ३० ॥ मदन्ये पुरुषाः सर्वज्ञज्ञापकोपलंभशून्याः पुरुषत्वात्कायादिमत्त्वाद् यथाहमिति वचस्तमोविलसितमेव । हेतोः स्याद्वादिनानैकांतात् । तस्य पक्षीकरणाददोष इति चेत् । न । पक्षस्य प्रत्यक्षानुमानबाधप्रसक्तेः । सर्वज्ञवादिनो हि सर्वज्ञज्ञापकमनुमानादिखसंवेदनप्रत्यक्षं प्रतिवादिनश्च तद्वचनविशेषोत्थानुमानसिद्धं सर्वपुरुषाणां सकलवित्साधनानुभवनशून्यत्वं बाधते हेतुश्चातीतकालः स्यादिति नासर्वज्ञवादिनां सर्वविदो बोद्धारो न केचिदिति वक्तुं युक्तम् । ज्ञापकानुपलभोस्ति तन्न तत्प्रतिषेधतः । कारकानुपलंभस्तु प्रतिघातीष्यतेऽग्रतः ॥ ३१ ॥ तदेवं सिद्धो विश्वतत्त्वानां ज्ञाता तदभावसाधनस्य ज्ञापकानुपलंभस्य कारकानुपलंभस्य च निराकरणात् । १५ कल्मषप्रक्षयश्चास्य विश्वतत्त्वात्प्रतीयते । तमंतरेण तद्भावानुपपत्तिप्रसिद्धितः ॥ ३२ ॥ सर्वतत्त्वार्थज्ञानं च कस्यचित्स्यात् कल्मषप्रक्षयश्च न स्यादिति न शंकनीयं तद्भाव एव तस्य सद्भावो पपत्तिसिद्धेः । Jain Education International जायते तद्विधं ज्ञानं वे सति प्रतिबंधरि । स्पष्टस्वार्थावभासित्वान्निर्दोषनयनादिवत् ॥ ३३ ॥ सर्वज्ञविज्ञानस्य खं प्रतिबंधकं कल्मषं तस्मिन्नसत्येव तद्भवति स्पष्टखविषयावभासित्वात् निर्दोषचक्षुरादिवदित्यत्र नासिद्धं साधनं प्रमाणसद्भावात् । नन्वामूलकल्मषस्य क्षये किं प्रमाणमिति चेदिमं ब्रूमहे ; क्षीयते कचिदामूलं ज्ञानस्य प्रतिबंधकम् । समग्रक्षयहेतुत्वाल्लोचने तिमिरादिवत् ॥ ३४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy