________________
तत्त्वार्थश्लोकवार्तिके सर्वसंबंधि तद्वोढुं किंचिद्वोधैर्न शक्यते ।
सर्वबोद्धास्तिचेत्कश्चित्तबोद्धा किं निषिध्यते ॥१५॥ सर्वसंबंधि तद् ज्ञातासिद्धं, किंचिझैझतुमशक्यत्वात् । न च सर्वज्ञस्तबोद्धास्ति तत्प्रतिषेधविरोधात् । षडिः प्रमाणैः सर्वज्ञो न वार्यत इति चायुक्तं । यस्मात्
सर्वसंबंधिसर्वज्ञज्ञापकानुपलंभनम् । न चक्षुरादिभिर्वेद्यमत्यक्षत्वाददृष्टवत् ॥१६॥ नानुमानादलिंगत्वात्कार्थापत्त्युपमागतिः।। सर्वस्यानन्यथाभावसादृश्यानुपपत्तितः ॥ १७॥ सर्वप्रमातृसंबंधि प्रत्यक्षादिनिवारणात् । केवलागमगम्यं च कथं मीमांसकस्य तत् ॥१८॥ कार्येर्थे चोदनाज्ञानं प्रमाणं यस्य संमतम् । तस्य स्वरूपसत्तायां तन्नैवातिप्रसंगतः ॥ १९ ॥ तज्ञापकोपलंभस्याभावोऽभावप्रमाणतः। साध्यते चेन्न तस्यापि सर्वत्राप्यप्रवृत्तितः ॥२०॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा तत्प्रतियोगिनम् । मानसं नास्तिताज्ञानं येषामक्षानपेक्षया ॥ २१ ॥ तेषामशेषज्ञाते स्मृते तज्ञापके क्षणे । जायते नास्तिताज्ञानं मानसं तत्र नान्यथा ॥ २२ ॥ न वाशेषनरज्ञानं सकृत्साक्षादुपेयते ।
न क्रमादन्यसंतानप्रत्यक्षत्वानभीष्टितः ॥ २३ ॥ यदाप्तस्तदधिकरणस्य वचनाद्यनुमानात्सिद्धिसद्भावात्तदभिप्रायस्य च तदनुपलंभनान्निषेधे साध्ये कुतो न दोष इति न वाच्यम् ।
अनेकांते हि विज्ञानमेकांतानुपलंभनम् ।
तद्विधिस्तन्निषेधश्च मतो नैवान्यथामतिः ॥ २४ ॥ अनेकांतोपलब्धिरेव हि प्रतिपत्तुरेकांतानुलब्धिः प्रसिद्धैव खसंबंधिनी सा चैकांताभावमंतरेणानुपपद्यमाना तत्साधनीया । न चानेकांतोपलंभादेवानेकांतविधिरभिमतः स एव चैकांतप्रतिषेध इति नानुमानतः साधनीयस्तस्य तत्र वैयर्थ्यात् । सत्यमेतत् । कस्यचित्तु कुतश्चित्साक्षात्कृतेप्यनेकांते विपरीतारोपदर्शनात्तद्व्यवच्छेदोनुपलब्धेः साध्यते । ततोस्याः साफल्यमेव प्रमाणसंप्लवोपगमाद्वा न दोषः । परस्याप्ययं न्यायः समान इति चेत्
नैवं सर्वस्य सर्वज्ञज्ञापकानुपदर्शनम् ।
सिद्धं तद्दर्शनारोपो येन तत्र निषिध्यते ॥ २५ ॥ सर्वसंबंधिनि सर्वज्ञज्ञापकानुपलभे हि प्रतिपत्तुः खयं सिद्धे कुतश्चित्कस्यचित्सर्वज्ञज्ञापकोपलंभसमारोपो यदि व्यवच्छेद्येन तदा समानो न्यायः स्यान्न चैवं सर्वज्ञाभाववादिनां तदसिद्धेः ।
आसन् संति भविष्यति बोद्धारो विश्वदृश्वनः। मदन्येपीति निर्णीतियथा सर्वज्ञवादिनः ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org