________________
प्रथमोऽध्यायः ।
१३
5
सेन संयुनक्ति स धर्मशब्देनोच्यते । न केवलं लोके, वेदेपि "यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्निति” यजतिशब्दवाच्य एवार्थे धर्मशब्द समामनंतीति शवराः । सोऽयं यथार्थनामा शिष्ट - विचारबहिर्भूतत्वात् । न हि शिष्टाः क्वचिद् धर्माधर्मव्यपदेशमात्रादेव श्रेयस्करत्वमश्रेयस्करत्वं वा प्रतियंति, तस्य व्यभिचारात् । कचिदश्रेयस्करेपि हि धर्मव्यपदेशो दृष्टो यथा मांसविक्रयिणां मांसदाने श्रेयस्करेपि वा धर्मव्यपदेशो यथा संन्यासे स्वघाती पापकर्मेति तद्विधायिनि कैश्विद्भाषणात् । सर्वैर्यस्य धर्मव्यपदेशः प्रतिपद्यते स श्रेयस्करो नान्य इति चेत् । तर्हि न यागः श्रेयस्करस्तस्य सौगतादिभिरधर्मत्वेन व्यपदिश्यमानत्वात् । सकलैर्वेदवादिभिर्यागस्य धर्मत्वेन व्यपदिश्यमानत्वाच्छ्रेयस्करत्वे सर्वैः खारपटिकैः कैः सधनवधस्य धर्मत्वेन व्यपदिश्यमानतया श्रेयस्करत्वं किं न भवेत्, यतः श्रेयोर्थिनां संविहितानुष्ठानं न स्यात् । लोकगर्हितत्वमुभयत्र समानम् । केषांचिदगर्हितत्वं चेति ततो न सधनवधाग्निहोत्रयोः प्रत्यवायेतरसाधनत्वव्यवस्था । प्रत्यक्षादिप्रमाणबलात्तु नाग्निहोत्रस्य श्रेयस्करत्वसिद्धिरिति नास्यैव विहितानुष्ठानत्वं, यतो हिंसा हेतुत्वाभावादसिद्धो हेतुः स्यात् । तन्न प्रकृतचोदनायां बाधकभावनिश्चयादर्थतस्तथाभावे संशयानुदयः पुरुषवचनविशेषवदिति न तदुपदेशपूर्वक एव सर्वदा धर्माद्युपदेशो येनास्य परोपदेशानपेक्षत्वविशेषणमसिद्धं नाम । न च परोपदेशलिंगज्ञानापेक्षा वितथत्वेपि तत्साक्षात्कर्तृपूर्वकत्वं सूक्ष्माद्यर्थोपदेशस्य प्रसिद्धस्य नोपपद्यते तथा विनाभावं संदेहायोगादित्यनवद्यं सर्वविदो ज्ञापकम् ।
अथवा
सूक्ष्माद्यर्थोपि वाध्यक्षः कस्यचित्सकलः स्फुटम् । श्रुतज्ञानाधिगम्यत्वान्नदीद्वीपादिदेशवत् ॥ १० ॥
धर्माधर्मावेव सोपायहेयोपादेयतत्त्वमेव वा कस्यचिदध्यक्षं साधनीयं न तु सकलोर्थ इति न साधीयः सकलार्थप्रत्यक्षत्वासाधने तदध्यक्षासिद्धेः । संवृत्या सकलार्थः प्रत्यक्षः साध्य इत्युन्मत्तभाषितं स्फुटं तस्य तथाभावासिद्धौ कस्यचित्प्रमाणतानुपपत्तेः ।
न हेतोः सर्वथैकांतैरनेकांतः कथंचन । श्रुतज्ञानाधिगम्यत्वात्तेषां दृष्टेष्टबाधनात् ॥ ११ ॥ स्थानत्रयाविसंवादिश्रुतज्ञानं हि वक्ष्यते । तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि ॥ १२ ॥
ततः प्रकृतहेतोरव्यभिचारिता पक्षव्यापकता च सामान्यतो बोद्धव्या । यतश्चैवं सर्वज्ञसाधनमनवद्यम् । ततोsसिद्धं परस्यात्र ज्ञापकानुपलंभनम् । नो भावसाधनायालं सर्वतत्त्वार्थवेदिनः ॥ १३॥
स्वयं सिद्धं हि किंचित्कस्यचित्साधकं नान्यथातिप्रसंगात् । सिद्धमपि —
स्वसंबंधि यदीदं स्याद्व्यभिचारिपयोनिधेः ।
अंभः कुंभादिसंख्यानैः सद्भिरज्ञायमानकैः ॥ १४॥
न हि पयोनिधेरंभः कुंभादिसंख्यानं बभस्त्वात् कूपांभोवदित्यनुमानात् । तत्तेषामज्ञायमानतेतिचेत्, नातो विशेषेणासिद्धेस्तत्संख्यानमात्रेणाव्यभिचाराचोदनात् । एतेनार्थापत्त्युपमानाभ्यां ज्ञायमानता प्रत्युक्ता । चोदनातस्तत्प्रतिसिद्धिरितिचेत् । न । तस्याः कार्यार्यादन्यत्र प्रमाणतानिष्टेः । परेषां तु तानि संतीत्यागमात्प्रतिपत्तेर्युक्तं तैर्व्यभिचारचोदनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org