________________
१२
तत्त्वार्थश्लोकवार्तिके
न्नैवं तन्नैवं दृष्टं यथान्यत्र क्रमशो रूपादिज्ञानं न च तथेदमतोक्षमनोनपेक्षमित्यप्यनिष्टं सिच्छेदिति मा मंस्थाः साधनस्यासिद्धत्वात्, परस्यापि हि नैकांतेन शष्कुलीभक्षणादौ रूपादिज्ञानपंचकस्य सकृद्रूपादिपंचकपरिच्छेदकत्वं सिद्धं । सोपयोगस्यानेकज्ञानस्यैकत्रात्मनि क्रमभावित्ववचनात् । शक्तितोनुपयुक्तस्य यौगपद्यस्याप्रसिद्धेः । प्रतीतिविरुद्धं चास्याक्षमनोनपेक्षत्वसाधनं तदन्वयव्यतिरेकानुविधायितया तदपेक्षत्वसिद्धेरन्यथा कस्यचित्तदपेक्षत्वायोगात् । ततः कस्यचित् सकृत्सूक्ष्माद्यर्थसाक्षात्करणमिच्छता मनोक्षानपेक्षमेषितव्यमिति नाक्षानपेक्षत्वविशेषणं सूक्ष्माद्यर्थोपदेशस्यासिद्धं सिद्धमप्येतदनर्थकं तत् साक्षात्कर्तृपूर्वकत्वसामान्यस्य साधयितुमभिप्रेतत्वान्न वा सर्वज्ञवादिनः सिद्धसाध्यता, नापि साध्याविकलत्वादुदाहरणस्यानुपपत्तिरित्यन्ये । प खमतानपेक्षं ब्रुवाणा न प्रतिषिध्यंते परानुरोधात्तथाभिधानात् । खसिद्धांतानुसारिणां तु सफलमक्षानपेक्षत्वविशेषणमित्युक्तमेव । तदनुमातृपूर्वक सूक्ष्माद्यर्थोपदेशे नाक्षानपेक्षावितथत्वमनैकांतिकमित्यपि न शंकनीयं । लिंगानपेक्षत्वविशेषणात् । न चेदमसिद्धं परोपदेशपूर्वके सूक्ष्माद्यर्थोपदेशे लिंगानपेक्षा - वितथत्वप्रसिद्धेः। तेनैव व्यभिचारीदमिति चेत् न, परोपदेशानपेक्षत्वविशेषणात् । तदसिद्धं धर्माद्युपदेशस्य सर्वदा परोपदेशपूर्वकत्वात् । तदुक्तं । धर्मे चोदनैव प्रमाणं नान्यत् । किं च । नेन्द्रियमिति कश्चित् । तत्र केयं चोदना नाम ? क्रियायाः प्रवर्तकं वचनमिति चेत् तत् पुरुषेण व्याख्यातं स्वतो वा क्रियायाः प्रवर्तकं श्रोतुः स्यात् ? न तावत्स्वत एवाचार्यचोदितः करोमीति हि दृश्यते न वचनचोदित इति । नन्वपौरुषेयाद्वचनात्प्रवर्तमानो वचनचोदितः करोमीति प्रतिपद्यते पौरुषेयादाचार्यचोदित इति विशेषोस्त्येवेति चेत्। स्यादेवं यदि मेघध्वानवदपौरुषेयं वचनं पुरुषप्रयत्त्रनिरपेक्षं प्रवर्तकं क्रियायाः प्रतीयेत, न च प्रतीयते । सर्वदा पुरुषव्यापारापेक्षत्वात्तत्स्वरूपलाभस्य । पुरुषप्रयत्नोभिव्यंजकस्तस्येति चेन्नैकांतनित्यस्या भिव्यक्त्यसंभवस्य समर्थितत्वात् । पुरुषेण व्याख्यातमपौरुषेयं वचः क्रियायाः प्रवर्तकमिति चेत्, स पुरुषः प्रत्ययितोऽप्रत्ययितो वा ? न तावत्प्रत्ययितोतीन्द्रियार्थज्ञानविकलस्य रागद्वेषवतः सत्यवादितया प्रत्येतुमशक्तेः । स्यादपींद्रियगोचरेर्थेऽनुमानगोचरे वा पुरुषस्य प्रत्ययिता ननु तृतीयस्थानं संक्रांते जात्यंधस्येव रूपविशेषेषु । न च ब्रह्मा मन्वादिर्वातीन्द्रियार्थदर्शी रागद्वेषविकलो वा सर्वदोपगतो यतोस्मात्प्रत्ययिताच्चोदनाव्याख्यानं प्रमाण्यमुपेयादित्युक्तं प्राक् । खयमप्रत्ययितात्तु पुरुषात् तद्व्याख्यानं प्रवर्तमानमसत्यमेव नद्यास्तीरे फलानि संतीति लौकिकवचनवत् । न चापौरुषेयं वचनमतथाभूतमप्यर्थं ब्रूयादिति विप्रतिषिद्धं यतस्तद्व्याख्यानमसत्यं न स्यात् । लौकिकमपि हि वचनमर्थं ब्रवीति बोधयति बुध्यमानस्य निमित्तं भवतीत्युच्यते वितथार्थाभ्यधायि च दृष्टमविप्रतिषेधात् । तद्यदार्थ ब्रवीति न तदा वितथार्थाभिधायि । यदा तु बाधकप्रत्ययोत्पत्तौ वितथार्थाभिधायि न तदा यथार्थ ब्रवीत्यविप्रतिषेधे वेदवचनेपि तथा विप्रतिषेधो मा भूत्, तत्र बाधकप्रत्ययोत्पत्तेरसंभवाद्विप्रतिषेध एवेति चेत्, नाग्निहोत्रात्स्वर्गो भवतीति चोदनायां बाधकसद्भावात् । तथाहि । नाग्निहोत्रं स्वर्गसाधनं हिंसाहेतुत्वात्साधनवधवत् साधनवधो वा न स्वर्गसाधनस्तत एवाग्निहोत्रवत् । विधिपूर्वकस्य पश्वादिवधस्य विहितानुष्ठानत्वेन हिंसाहेतुत्वाभावात् असिद्धो हेतुरिति चेत्, तर्हि विधिपूर्वकस्य साधनवधस्य खारपटिकानां विहितानुष्ठानत्वेन हिंसाहेतुत्वं माभूदिति सधनवधात्स्वर्गे भवतीति वचनं प्रमाणमस्तु तस्याप्यैहिकप्रत्यवायपरिहारसमर्थेतिकर्तव्यतालक्षणविधिपूर्वकत्वाविशेषात् । न हि वेदविहितमेव विहितानुष्ठानं, न पुनः खरपटशास्त्रविहितमित्यत्र प्रमाणमस्ति यागः । श्रेयोर्थिनां विहितानुष्ठानं श्रेयस्करत्वान्न सधनवधस्तद्विपरीतत्वादिति चेत् । कुतो यागस्य श्रेयस्करत्वं ? धर्मशब्देनोच्यमानत्वात् । यो हि यागमनुतिष्ठति तं 'धार्मिक' इति समाचक्षते, यश्च यस्य कर्ता स तेन समाख्यायते यथा याचको लावक इति । तेन यः पुरुषं निःश्रेय
1
Jain Education International
For Private & Personal Use Only
E
www.jainelibrary.org