________________
प्रथमोऽध्यायः । सर्वथानुपपन्नत्वसाधनात् । यदि पुनः सपक्षविपक्षयोरसत्त्वेन संशयितो साधारण इति मतं तदा पक्षत्रयवृत्तितया निश्चितया संशयितया वानकांतिकत्वं हेतोरित्यायातं । न च प्रकृतहेतोः सास्तीति गमकत्वमेव विरुद्धतानेन प्रत्युक्ता विपक्षे बाधकस्य भावाच्च । न चैवं हेतोरानर्थक्यं ततो विधिमुखेन साध्यस्य सिद्धेरन्यथा गमकत्ववित्तौ तदापत्तेस्ततः सूक्तं लैंगिकं वा प्रमाणमिदं सूत्रमविनाभाविलिंगात्साध्यस्य निर्णयादिति । प्रमाणत्वाच्च साक्षात्प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे सिद्धे प्रवृत्तमन्यथा प्रमाणत्वानुपपत्तेः । नेदं सर्वज्ञे सिद्धे प्रवृत्तं तस्य ज्ञापकानुपलंभादभावसिद्धेरिति परस्य महामोहविचेष्टितमाचष्टे;
तत्र नास्त्येव सर्वज्ञो ज्ञापकानुपलंभनात् ।
व्योमांभोजवदित्येतत्तमस्तमविजूंभितम् ॥८॥ नास्ति सर्वज्ञो ज्ञापकानुलब्धेः खपुष्पवदिति ब्रुवन्नात्मनो महामोहविलासमावेदयति । यस्मादिदं ज्ञापकमुपलभ्यत इत्याह;
सूक्ष्माद्यर्थोपदेशो हि तत्साक्षात्कर्तृपूर्वकः।
परोपदेशलिंगाक्षानपेक्षावितथत्वतः॥९॥ शीतं जलमित्याद्युपदेशेनाक्षापेक्षणावितथेन व्यभिचारोऽनुपचरिततत्साक्षात्कर्तृपूर्वकत्वस्य साध्यस्याभावेपि भावादवितथत्वस्य हेतोरुपचारतस्तत्साक्षात्कर्तृपूर्वकत्वसाधने खसिद्धांतविरोधात् । तत्सामान्यस्य साधने खाभिमतविशेषसिद्धौ प्रमाणांतरापेक्षणात्प्रकृतानुमानवैयर्थ्यापत्तिरिति न मंतव्यमक्षानपेक्षत्वनिशेषणात् । सर्वज्ञविज्ञानस्याप्यक्षजत्वादसिद्धं विशेषणमित्यपरः । सोप्यपरीक्षकः । सकलार्थसाक्षात्करणस्याक्षजज्ञानेनासंभवात् , धर्मादीनाम:रसंबंधात् । स हि साक्षान्न युक्तः पृथिव्याद्यवयविवत् । नापि परंपरया रूपरूपित्वादिवत् खयमनुमेयत्ववचनात् । योगजधर्मानुगृहीतान्यक्षाणि सूक्ष्माद्यर्थे धर्मादौ प्रवर्तते महेश्वरस्येत्यप्यसारं खविषये प्रवर्तमानानामतिशयाधानस्यानुग्रहत्वेन व्यवस्थितेः सूक्षाद्यर्थेक्षाणामप्रवर्तनात्तदघटनात् । यदि पुनस्तेषामविषयेपि प्रवर्तनमनुग्रहस्तदैकमेवेंद्रियं सर्वार्थ ग्रहीष्यतां । सत्यमंतःकरणमेकं योगजधर्मानुगृहीतं युगपत्सर्वार्थसाक्षात्करणक्षममिष्टमिति चेत् । कथमणोर्मनसः सर्वार्थसंबंधः सकृदुपपद्यते दीर्घशष्कुलीभक्षणादौ सकृच्चक्षुरादिभिस्तत्संबंधप्रसक्तेः रूपादिज्ञानपंचकस्य क्रमोत्पत्तिविरोधात् । क्रमशोन्यत्र तस्य दर्शनादिह क्रमपरिकल्पनायां सर्वार्थेषु योगिमनःसंबंधस्य क्रमकल्पनास्तु सर्वार्थानां साक्षात्करणसमर्थस्येश्वरविज्ञानस्यानुमानसिद्धत्वात्तैरीशमनसः सकृत्संबंधसिद्धिरिति चेत् । रूपादिज्ञानपंचकस्य कचिद्योगपद्येनानुभवादनीशमनसोपि सकृच्चक्षुरादिभिः संबंधोस्तु कुतश्चिद्धर्मविशेषात्तथोपपत्तेः । तादृशो धर्मविशेषः कुतोऽनीशस्य सिद्ध इति चेत् , ईशस्य कुतः? सकृत्सर्वार्थज्ञानात्तत्कार्यविशेषादिति चेत्, तर्हि सकृद्रूपादिज्ञानपंचकात् कार्यविशेषादनीशस्य तद्धेतुर्धर्मविशेषोस्तीति किं न सिद्ध्येत् । तथा सति तस्य रूपादिज्ञानपंचकं नेंद्रियजं स्यात् । किं तर्हि धर्मविशेषजमेवेति चेत् , सर्वार्थज्ञानमप्येवमीशस्यांतःकरण माभूत् समाधिविशेषोत्थधर्मविशेषजत्वात्तस्य मनोनपेक्षस्य ज्ञानस्यादर्शनाददृष्टकल्पना स्यादिति चेत् । मनोपेक्षस्य वेदनस्य सकृत्सर्वार्थसाक्षात्कारिणः कचिद्दर्शनं किमस्ति येनादृष्टस्य कल्पना न स्यात् । सर्वार्थज्ञानं मनोपेक्षं ज्ञानत्वादस्मदादिज्ञानवदिति चेत् न, हेतोः कालात्ययापदिष्टत्वात् पक्षस्यानुमानबाधितत्वात् । तथाहि सर्वज्ञविज्ञानं मनोक्षानपेक्षं सकृत्सर्वार्थपरिच्छेदकत्वात् यन्मनोक्षापेक्षं तत्तु न सकृत्सर्वार्थपरिच्छेदकं दृष्टं यथास्सदादिज्ञानं न च तथेदमिति मनोपेक्षत्वस्य निराकरणात् । नन्वेवं शष्कुलीभक्षणादौ रूपादिज्ञानपंचकं मनोक्षानपेक्षं सकृद्रूपादिपंचकपरिच्छेदकत्वाद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org