________________
तत्त्वार्थश्लोकवार्तिके क्षणिकवेदनं विप्रकृष्टखभावं क्रियात्तदा न तत्सत्तासिद्धिः स्वयमुपलभ्यखभावं चेन्न तत्र विभ्रमः खयमुपलब्धस्यापि निश्चयाभावाद्विभ्रमः स्यादिति चेत् । कथमनिश्चितं खतः सिद्धं नाम येन स्वरूपस्य खतो गतिर्व्यवतिष्ठतेति कायं तिष्ठेद्विप्रकृष्टसंशयवादी । अनाद्यविद्यातृष्णाक्षयादद्वयसंवेदने विभ्रमाभावो न निश्चयोत्पादात् सकलकल्पनाविकल्पत्वात्तस्येति चेत् , सा तयविद्या तृष्णा च यद्युपलभ्यखभावा तदा न संवेदनाद्वैतं तस्यास्ततोन्यस्याः प्रसिद्धेः । सानुपलभ्यखभावा चेत् , कुतस्तद्भावाभावनिश्चयो यतो ह्यद्वयसंवेदने विभ्रमाविभ्रमव्यवस्था । निरंशसंवेदनसिद्धिरेवाविद्यातृष्णानिवृत्तिसिद्धिरित्यपि न सम्यक् । विप्रकृष्टेतरखभावयोरर्थयोरेकतरसिद्धावन्यतरसद्भावासद्धावसिद्धेश्योगात् । कथमन्यथा व्याहारदिविशेषोपलंभात्कस्यचिद्विज्ञानाद्यतिशयसद्भावो न सिद्ध्येत्। तदयं प्रतिपत्ता खस्मिन् व्याहारादिकार्य रागित्वारागित्वयोः संकीर्णमुपलभ्य परत्र रागित्वनियमभावं साधयति न पुनररागित्वं । रागित्वं चेति ब्रुवाणः परीक्षकत्वमभिमन्यत इति किमपि महाद्भुतं । यथैव हि रागित्वाद्यतींद्रियं तथा तदनियतत्वमपीति । कुतश्चित्तत्साधने वीतरागित्वाधतिशयसाधनं साधीयः । ततोयमस्य प्रवचनस्य प्रणेताप्त इति ज्ञातुं शक्यत्वादाप्तमूलत्वं तत्प्रामाण्यनिबंधनं सिद्ध्यत्येव । अथवानुमानमिदं सूत्रमविनाभाविना भाविनो मोक्षमार्गत्वलिंगान्मोक्षमार्गधर्मिणि सम्यग्दर्शनादित्रयात्मकत्वस्य साध्यस्य निर्णयात् । तथाहि । सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गो मोक्षमार्गत्वान्यथानुपपत्तेः। न तावदत्राप्रसिद्धो धर्मी हेतुर्वा मोक्षवादिनामशेषाणामविप्रतिपत्तेः । मोक्षाभाववादिनस्तु प्रति तसिद्धेः प्रमाणतः करिष्यमाणत्वात् । प्रतिज्ञार्थंकदेशो हेतुरिति चेत् । कः पुनः प्रतिज्ञार्थस्तदेकदेशो वा ? साध्यधर्मधर्मिसमुदायः प्रतिज्ञार्थस्तदेकदेशः साध्यं धर्मो यथानित्यः शब्दोऽनित्यत्वादिति धर्मी वा तदेकदेशो यथा नश्वरः शब्दः शब्दत्वादिति । सोयं हेतुत्वेनोपादीयमानो न साध्यसाधनायालं खयमसिद्धमिनि चेत् । कथं धर्मिणोऽसिद्धता प्रसिद्धो धर्मीति वचनव्याघातात् । सत्यं । प्रसिद्ध एव धर्मीति चेत् स तर्हि हेतुत्वेनोपादीयमानोपि न खयमसिद्धो यतो न साध्यं साधयेत् स हेतुस्तदन्वयः स्यात् धर्मिणोन्यत्रानुगमनाभावादिति चेत् सर्वमनित्यं सत्त्वादिति धर्मः किमन्वयी येन खसाध्यसाधने हेतुरिष्यते सत्त्वादिधर्मसामान्यमशेषधर्मिव्यक्तिष्वन्वयीति चेत् तथा धर्मिसामान्यमपि दृष्टांतधर्मिण्यनन्वयः पुनरुभयोति यत्किचिदेतत् । साध्यधर्मः पुनः प्रतिज्ञार्थंकदेशत्वान्न हेतुर्धर्मिणा व्यभिचारात् । किं तर्हि खरूपासिद्धत्वादेवेति न प्रतिज्ञार्थंकदेशो नाम हेत्वाभासोस्ति योत्राशंक्यते श्रावणत्वादिवदसाधारणत्वादनैकांतिकोयं हेतुरिति चेन्न असाधारणत्वस्यानैकांतिकत्वेन व्याप्त्यसिद्धेः । सपक्षविपक्षयोर्हि हेतुरसत्त्वेन निश्चितोऽसाधारणः संशयितो वा ? निश्चितश्चेत् कथमनैकांतिकः पक्षे साध्यासंभवे अनुपपद्यमानतयास्तित्वेन निश्चितत्वात् संशयहेतुत्वाभावात् । न च सपक्षविपक्षयोरसत्त्वेन निश्चिते पक्षे साध्याविनाभावित्वेन निश्चेतुमशक्यः सर्वानित्यत्वादौ सत्त्वादेरहेतुत्वप्रसंगात् । न हि सत्त्वादिविपक्ष एवासत्त्वेन निश्चितः सपक्षेपि तदसत्त्वनिश्चयात् सपक्षस्याभावात्तत्र सर्वानित्यत्वादौ साध्ये सत्त्वादेरसत्त्वनिश्चयान्निश्चयहेतुत्वं न पुनः श्रावणत्वादेस्तद्भावेपीति चेत् । ननु श्रावणत्वादिरपि यदि सपक्षे स्यात्तदा तं व्याप्नुयादेवेति समानांताप्तिः । सति विपक्षे धूमादिश्चासत्त्वेन निश्चितो निश्चयहेतुर्माभूत् । विपक्षे सत्यसति वा सत्त्वेन निश्चितः साध्याविनाभावित्वाद्धेतुरेवेति चेत् , सपक्षे सत्यसति वा सत्त्वेन निर्णीतो हेतुरस्तु तत एव सपक्षे तदेकदेशे वा सन् कथं हेतुरिति चेत् ; सपक्षे असन्नेव हेतुरित्यनवधारणात् । विपक्षे तदसत्त्वानवधारणमस्त्वित्ययुक्तं साध्याविनाभावित्वव्याघातात् । नैवं । सपक्षे तदसत्त्वानवधारणे व्याघातः कश्चिदिति । तत्र सन्नसन् वा साध्याविनाभावी हेतुरेव श्रावणत्वादिः सत्त्वादिवत् । तद्वन्मोक्षमार्गत्वादिति हेतु साधारणत्वादगमकः साध्यस्य सम्यग्दर्शनज्ञानचारित्रात्मकत्वस्याभावे ज्ञानमात्रात्मकत्वादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org