________________
प्रथमोऽध्यायः । केयं तदर्थसंप्रतिपत्तिरमंदस्य प्रतिपत्तुर्जातुचिदसंभवात् । सातिशयप्रज्ञो मन्वादिस्तत्प्रतिपत्ता संप्रतिपत्तिहेतुरस्त्येवेति चेत् । कुतस्तस्य तादृशः प्रज्ञातिशयः? श्रुत्यर्थस्मृत्यतिशयादिति चेत्। सोपि कुतः। पूर्वजन्मनि श्रुत्यभ्यासादिति चेत् , स तस्य खतोऽन्यतो वा ? खतश्चेत् सर्वस्य स्यात् तस्यादृष्ट विशेषाद्वेदाभ्यासः खतो युक्तो न सर्वस्य तदभावादिति चेत् कुतोस्यैवादृष्टविशेषस्तादृग्वेदार्थानुष्ठानादिति चेत् । तर्हि स वेदार्थस्य स्वयं ज्ञातस्यानुष्ठाता स्यादज्ञातस्य वापि । न तावदुत्तरः पक्षोतिप्रसंगात् । खयं ज्ञातस्य चेत् परस्पराश्रयः, सति वेदार्थस्य ज्ञाने तदनुष्ठानाददृष्टविशेषः सति वादृष्टविशेषे खयं वेदार्थस्य परिज्ञानमिति । मन्वादेर्वेदाभ्यासोन्यत एवेति चेत् । स कोन्यः ? ब्रह्मेति चेत् । तस्य कुतो वेदार्थज्ञानं धर्मविशेषादिति चेत् स एवान्योन्याश्रयः । वेदार्थपरिज्ञानाभावे तत्पूर्वकानुष्ठानजनितधर्मविशेषानुत्पत्तौ वेदार्थपरिज्ञानायोगादिति । स्यान्मतं । सहस्रशाखो वेदः खर्गलोके ब्रह्मणाधीयते चिरं पुनस्ततोवतीर्य मयै मन्वादिभ्यः प्रकाश्यते पुनः खर्ग गत्वा चिरमधीयते पुनर्मावतीर्णेभ्यो मन्वादिभ्योऽवतीर्य प्रकाश्यत इत्यनाद्यनंतो ब्रह्ममन्वादिसंतानो वेदार्थविप्रतिपत्तिनिराकरणसमर्थोऽधपरंपरामपि परिहरतीति वेदे तव्याहृतं, सर्वपुरुषाणामतींद्रियार्थज्ञानविकलत्वोपगमाद्ब्रह्मादेरतींद्रियार्थज्ञानायोगात् । चोदनाजनितमतींद्रियार्थज्ञानं पुसोभ्युपेयते चेत्, योगिप्रत्यक्षेण कोपराधः कृतः। तदन्तरेणापि हेयोपादेयतत्त्वनिश्चयात् किमस्यादृष्टस्य कल्पनयेति चेत् ब्रह्मादेरतींद्रियार्थज्ञानस्य किमिति दृष्टस्य कल्पना । संभाव्यमानस्येति चेत् योगिप्रत्यक्षस्य किमसंभावना । यथैव हि शास्त्रार्थस्याक्षाद्यगोचरस्य परिज्ञानं केषांचिदृष्टमिति ब्रह्मादेर्वेदार्थस्य ज्ञानं तादृशस्य संभाव्यते तथा केवलज्ञानमपीति निवेदयिष्यते। ततः सकलागमार्थविदामिव सर्वविदां प्रमाणपिरत्वान्नानुपलभ्यमानानां परिकल्पना । नापि तैर्विनैव हेयोपादेयतत्त्वनिर्णयः सकलार्थविशेषसाक्षास्करणमंतरेण कस्यचिदर्थस्याक्षूणविधानायोगात् । सामान्यतस्तत्त्वोपदेशस्याषणविधानमाम्नायादेवेति चेत् तर्खनुमानादेव तत्तथास्त्विति किमागमप्रामाण्यसाधनायासेन । प्रत्यक्षानुमानाविषयत्वनिर्णयो नागमाद्विनेति तत्प्रामाण्यसाधने प्रत्यक्षानुमानागमाविषयत्वविशेषनिश्चयोपि न केवलज्ञानाद्विनेति तत्प्रामाण्यं किं न साध्यते । न हि तृतीयस्थानसंक्रांतार्थभेदनिर्णयासंभवेनुमेयार्थनिर्णयो नोपपद्यत इत्यागमगम्यार्थनिश्चयस्तत्त्वोपदेशहेतुर्न पुनश्चतुर्थस्थानसंक्रांतार्थनिश्चयोपीति युक्तं वक्तुं । तदा केवलज्ञानासंभवे तदर्थनिश्चयायोगात् । न च चोदनाविषयत्वमतिक्रांतश्चतुर्थस्थानसंक्रांतः कश्चिदर्थविशेषो न विद्यत एवेति युक्तं, सर्वार्थविशेषाणां चोदनया विषयीकर्तुमशक्तेस्तस्याः सामान्यभेदविषयत्वात् । ततोऽशेषार्थविशेषाणां साक्षात्करणक्षमः प्रवचनस्याद्यो व्याख्याताभ्युपेयस्तद्विनेयमुख्यश्च सकलागमार्थस्य परिच्छेदीति तत्संप्रदायाव्यवच्छेदादविरुद्धात्सिद्धोमदादेरागमार्थनिश्चयो न पुनरपौरुषेयागमसंप्रदायाव्यवच्छेदात्तत्सूक्तमागमः प्रमाणमिदं सूत्रमिति । ननु च सन्नप्याप्तः प्रवचनस्य प्रणेतास्येति ज्ञातुमशक्यस्तद्व्यापारादेर्व्यभिचारित्वात् सरागा अपि हि वीतरागा इव चेष्टते वीतरागाश्च सरागा इवेति कश्चित् । सोप्यसंबद्धप्रलापी । सरागत्ववीतरागत्वनिश्चयस्य कचिदसंभवे तथा वक्तुमशक्तेः । सोयं वीतरागं सरागवच्चेष्टमानं कथंचिन्निश्चिन्वन् वीतरागनिश्चयं प्रतिक्षिपतीति कथमप्रमत्तः खयमात्मानं कदाचिद्वीतरागं सरागवच्चेष्टमानं संवेदयते न पुनः परमिति चेत् । कुतः सुगतसंवित्तिः कार्यानुमानादिति चेत् न । तत्कार्यस्य व्याहारादेर्व्यभिचारित्ववचनात् विप्रकृष्टखभावस्य सुगतस्य नास्तित्वं प्रतिक्षिप्यते । बाधकामावान्न तु तदस्तित्वनिश्चयः क्रियत इति चेत् कथमनिश्चितसत्ताकः स्तुत्यः प्रेक्षावतामिति साश्चर्य नश्वेतः । कथं वा संतानांतरक्षणस्थितिवर्गप्रापणशक्त्यादेः सत्तानिश्चयः खभावविप्रकृष्टस्य क्रियेत तदकरणे सर्वत्र संशयान्नाभिमततत्त्वनिश्चयः संवेदनाद्वैतमत एवं श्रेयस्तस्यैव सुगतत्वात् संस्तुत्यतोपपत्तेरित्यपरः । सोपि यदि संवेद्याद्याकाररहितं निरंश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org