________________
तत्त्वार्थश्लोकवार्तिके चेतनस्योपदेशयोग्यतायामतिप्रसंगः शरीरादिषु तन्निवारणाघटनात् । तत्संबंधविशेषात्परमार्थतः कस्यचिच्चेतनत्वमितिचेत् , स कोन्योन्यत्र कथंचिच्चेतनातादात्म्यात् । ततो ज्ञानाद्युपयोगखभावस्यैव श्रेयसा योक्ष्यमाणस्य श्रेयोमार्गप्रतिपित्सायां सत्यामिदं प्रकृतं सूत्रं प्रवृत्तमिति निश्चयः । प्रमाणभूतस्य प्रबंधन वृत्तेः श्रोतृविशेषाभावे वक्तृविशेषासिद्धौ विधानानुपपद्यमानत्वात् । __ किं पुनः प्रमाणमिदमित्याह;
संप्रदायाव्यवच्छेदाविरोधादधुना नृणाम् । सद्गोत्राद्युपदेशोत्र यद्वत्तद्वद्विचारतः ॥६॥ प्रमाणमागमः सूत्रमाप्तमूलत्वसिद्धितः ।
लैंगिकं वाविनाभाविलिंगात्साध्यस्य निर्णयात् ॥७॥ प्रमाणमिदं सूत्रमागमस्तावदाप्तमूलत्वसिद्धेः सद्गोत्राद्युपदेशवत् । कुतस्तदाप्तमूलत्वसिद्धिरिति चेत् संप्रदायाव्यवच्छेदस्याविरोधात् तद्वदेवेति ब्रूमः । कथमधुनाततानां नृणां तत्संप्रदायाव्यवच्छेदाविरोधः । सिद्ध इति चेत् सद्गोत्राद्युपदेशस्य कथं ? विचारादिति चेत् मोक्षमार्गोपदेशस्यापि तत एव । कः पुनरत्र विचारः सद्गोत्राद्युपदेशे कः ? प्रत्यक्षानुमानागमैः परीक्षणमत्र विचारोऽभिधीयते सोमवंशः क्षत्रियोयमिति हि कश्चित्प्रत्यक्षतोतींद्रियादध्यवस्यति तदुच्चैर्गोत्रोदयस्य सद्गोत्रव्यवहारनिमित्तस्य साक्षात्करणात् । कश्चित्तु कार्यविशेषदर्शनादनुमिनोति । तथागमादपरः प्रतिपद्यते ततोप्यपरस्तदुपदेशादिति संप्रदायस्याव्यवच्छेदः सर्वदा तदन्यथोपदेशाभावात् । तस्याविरोधः पुनः प्रत्यक्षादिविरोधस्यासंभवादिति तदेतन्मोक्षमार्गोपदेशेपि समानं । तत्राप्येवंविधविशेषाक्रांतानि सम्यग्दर्शनादीनि मोक्षमार्ग इत्यशेषतोतींद्रियप्रत्यक्षतो भगवान् परममुनिः साक्षात्कुरुते, तदुपदेशाद्गणाधिपः प्रत्येति, तदुपदेशादप्यन्यस्तदुपदेशाच्चापर इति संप्रदायस्याव्यवच्छेदः सदा तदन्यथोपदेशाभावात्। तस्याविरोधश्च प्रत्यक्षादिविरोधस्याभावादिति । सद्गोत्राद्युपदेशस्य यत्र यदा यथा यस्याव्यवच्छेदस्तत्र तदा तथा तस्य प्रमाणत्वमपीष्टमिति चेत् , मोक्षमार्गोपदेशस्य किमनिष्टं । केवलमत्रेदानीमेवमस्मदादेस्तद्व्यवच्छेदाभावाप्रमाणता साध्यते। कपिलाद्युपदेशस्यैवं प्रमाणता स्यादिति चेत् न, तस्य प्रत्यक्षादिविरोधसद्भावात् । नन्वातमूलस्याप्युपदेशस्य कुतोर्थनिश्चयोसदादीनां ? न तावत्खत एव वैदिकवचनादिवत्पुरुषव्याख्यानादिति चेत्। स पुरुषोऽसर्वज्ञो रागादिमांश्च यदि तदा तद्व्याख्यानादर्थनिश्चयानुपपत्तिरयथार्थाभिधानशंकनात् । सर्वज्ञो वीतरागश्च न सोत्रेदानीमिष्टो यतस्तदर्थनिश्चयः स्यादिति कश्चित् । तदसत् । प्रकृतार्थपरिज्ञाने तद्विषयरागद्वेषाभावे च सति तद्व्याख्यातुर्विप्रलंभनासंभवात्तद्व्याख्यानादर्थनिश्चयोपपत्तेः । अपौरुषेयागमार्थनिश्चयस्तद्वदस्तु । मन्वादेस्तव्याख्यातुस्तदर्थपरिज्ञानस्य तद्विषयरागद्वेषाभावस्य च प्रसिद्धत्वादिति चेत् न, प्रथमतः कस्यचिदतींद्रियवेदार्थपरिच्छेदिनोऽनिष्टेरन्वर्थपरंपरातोर्थनिर्णयानुपपत्तेः । ननु च व्याकरणाद्यभ्यासाल्लौकिकपदार्थनिश्चये तदविशिष्टवैदिकपदार्थनिश्चयस्य खतः सिद्धेः पदार्थप्रतिपत्तौ च तद्वाक्यार्थप्रतिपत्तिसंभवादश्रुतकाव्यादिवन्न वेदार्थनिश्चयेतींद्रियार्थदर्शी कश्चिदपेक्ष्यते, नाप्यंधपरंपरा यतस्तदर्थनिर्णयानुपपत्तिरिति चेत् । न । लौकिकवैदिकपदानामेकत्वेपि नानार्थत्वावस्थितेरेकार्थपरिहारेण व्याख्यांगमिति तस्यार्थस्य निगमयितुमशक्यत्वात् । प्रकरणादिभ्यस्तन्नियम इति चेन्न, तेषामप्यनेकधा प्रवृत्तेः पंचसंधानादिवदेकार्थस्य व्यवस्थानायोगात् । यदि पुनर्वेदवाक्यानि सनिबंधनान्येवानादिकालप्रवृत्तानि न व्याख्यानांतरापेक्षाणि देशभाषावदिति मतं, तदा कुतो व्याख्याविप्रतिपत्तयस्तत्र भवेयुः । प्रतिपत्तुर्मीद्यादिति चेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org