________________
प्रथमोऽध्यायः ।
णत्वस्वभावस्य परित्यागे श्रावणखभावोपादाने च शब्दस्य परिणामित्वसिद्धिः, पूर्वापर स्वभाव परिहारावाप्तिस्थितिलक्षणत्वात्परिणामित्वस्य । तथा च वचनस्य किमभिव्यक्तिपक्षकक्षीकरणेन, उत्पत्तिपक्षस्यैव सुघटत्वात् । शब्दाद्भिन्नोऽभिन्नश्च संस्कारः प्रणेतृव्यापारेणाधीयत इति चेत् । न । सर्वथा भेदाभेदयोरेकत्वविरोधात् । यदि पुनः कथंचिदभिन्नो भिन्नश्च शब्दात् संस्कारस्तस्य तेनाधीयत इति मतं, तदा → स्यात्पौरुषेयं तत्त्वार्थशासनमित्यायातमर्हन्मतं । ननु च वर्णसंस्कारोऽभिव्यक्तिस्तदावारकवागपनयनं घटाद्यावारकतमोपनयनवत्तिरोभावश्च तदावारकोत्पत्तिर्नचान्योत्पत्तिविनाशौ शब्दस्य तिरोभावाविर्भाव कौटस्थ्यविरोधिनौ येन परमतप्रसिद्धिरिति चेत् तर्हि किंकुर्वन्नावारकः शब्दस्य वायुरुपेयते न तावत्स्वरूपं खंडयन्नित्यैकांतत्वविरोधात् । तद्बुद्धिप्रतिनन्निति चेत्, तत्प्रतिघाते शब्दस्योपलभ्यता प्रतिहन्यते वा न वा प्रतिहन्यते चेत् सा शब्दादभिन्ना प्रतिहन्यते न पुनः शब्द इति प्रलापमात्रं । ततोसौ भिन्नैवेति चेत्, सर्वदानुपलभ्यताखभावः शब्दः स्यात् । तत्संबंधादुपलभ्यः स इति चेत् कस्तया तस्य संबंधः । धर्मधर्मिभाव इति चेत् नात्यंतं भिन्नयोस्तयोस्तद्भावविरोधात् । भेदाभेदोपगमादविरुद्धस्तद्भाव इति चेत्, तर्हि येनांशेनाभिन्नोपलभ्यता ततः प्रतिहन्यते तेन शब्दोपीति नैकांतनित्योसौ । द्वितीय विकल्पे सत्यप्यावारके शब्दस्योपलब्धिप्रसंगस्तदुपलभ्यतायाः प्रतिघाताभावात् । तथा च न तद्बुद्धिप्रतिघाती कश्चिदावारकः कूटस्थस्य युक्तो यतस्तदपनयनमभिव्यक्तिः सिद्ध्येत् । एतेन शब्दस्योपलब्ध्युत्पत्तिरभिव्यक्तिरिति ब्रुवन् प्रतिक्षिप्तः, तस्यां तदुपलभ्यतोत्पत्त्यनुत्पत्त्योः शब्दस्योत्पत्त्यप्रतिपत्तिप्रसंगात् । न हि शब्दस्योपलब्धेरुत्पत्तौ तदभिन्नोपलभ्यतोत्पद्यते न पुनः शब्द इति ब्रुवाणः स्वस्थः, तस्यास्ततो भेदे सदानुपलभ्यस्वभावतापत्तेर्धर्मधर्मिभावसंबंधायोगात्तत्संबंधादप्युपलभ्यत्वासंभवात् । भेदाभेदोपगमे कथंचिदुत्पत्तिप्रसिद्धेरेकांतनित्यताविरोधात् । शब्दस्योपलब्ध्युत्पत्तावप्युपलभ्यतानुत्पत्तौ स्यादप्रतिपत्तिरिति व्यर्थाभिव्यक्तिः । श्रोत्रसंस्कारोऽभिव्यक्तिरित्यन्ये; तेषामपि श्रोत्रस्यावारकापनयनं संस्कारः, शब्द - ग्रहणयोग्यतोत्पत्तिर्वा । तदा तद्भावे तस्योपलभ्यतोत्पत्त्यनुत्पत्त्योः स एव दोषः । तदुभयसंस्कारोऽभिव्यक्तिरित्ययं पक्षोsनेनैव प्रतिक्षेप्तव्यः प्रवाहनित्यतोपगमादभिधानस्याभिव्यक्तौ नोक्तो दोष इति चेत् म, पुरुषव्यापारात् प्राक् तत्प्रवाहसद्भावे प्रमाणाभावात् । प्रत्यभिज्ञानं प्रमाणमिति चेत्, तत्सादृश्यनिबंधनमेकत्वनिबंधनं वा ? । न तावदाद्यः पक्षः सादृश्यनिबंधनात्प्रत्यभिज्ञानादेकशब्दप्रवाहासिद्धेः । द्वितीयपक्षे तु कुतस्तदेकत्वनिबंधनत्वसिद्धिः । स एवायं शब्द इत्येकशब्दपरामर्शिप्रत्ययस्य बाधकाभावानिबंधनत्वसिद्धिस्तत एव नीलज्ञानस्य नीलनिबंधनत्वसिद्धिवदिति चेत् । स्यादेवं यदि तदेकत्वपरा - मर्शिनः प्रत्ययस्य बाधकं न स्यात् स एवायं देवदत्त इत्याद्येकत्वपरामर्शिप्रत्ययवत् । अस्ति च बाधकं नाना गोशब्दो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वाद् ब्रह्मवृक्षादिवदिति । न तावदिदमेकेन पुरुषेण क्रमशोऽनेकदेशतयोपलभ्यमानेनानैकांतिकं, युगपग्रहणात् । नाप्येकेनादित्येन नानापुरुषैः सकृद्भिन्नदेशतयोपलभ्यमानेन प्रत्यक्षानुमानाभ्यामेकपुरुषेण वा नानाजलपात्रसंक्रांतादित्यविबेन प्रत्यक्षतो दृश्यमानेनेति युक्तं वक्तुं, बाधकाभावे सतीति विशेषणात् । न ह्येकस्मिन्नादित्ये सर्वथा भिन्नदेशतयोपलभ्यमाने बाधकाभावः, प्रतिपुरुषमादित्यमालानुपलंभस्य बाधकस्य सद्भावात् । पर्वतादिनैकेन व्यभिचारीदमनुमा - नमिति चेत् । न । तस्य नानावयवात्मकस्य सतो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वं व्यवतिष्ठते । निरवयवत्वे तथाभावविरोधादेकपरमाणुवत् । व्योमादिना तदनैकांतिकत्वमनेन प्रत्युक्तं, तस्याप्यनेकप्रदेशत्वसिद्धेः । खादेरनेकप्रदेशत्वादेकद्रव्यविरोध इति चेत् । न । नानादेशस्यापि घटादेरेकद्रव्यत्वप्रतीतेः । न ह्येकप्रदेशत्वेनैवैकद्रव्यत्वं व्याप्तं येन परमाणोरेवैकद्रव्यता । नापि नानाप्रदेशत्वेनैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org