________________
तत्त्वार्थश्लोकवार्तिके योजनत्वसाधनमप्रयुक्तमपि सकलशास्त्रव्याख्यानेन समर्थ्यते क्वचित्प्रयुज्यमानमिति नैकांतः, स्याद्वादिनामविरोधात् । सर्वथैकांतवादिनां तु न प्रयोजनवाक्योपन्यासो युक्तस्तस्याप्रमाणत्वात् । तदागमः प्रमाणमिति चेत् । सोऽपौरुषेयः पौरुषेयो वा ? न तावदाद्यपक्षकक्षीकरणं "अथातो धर्मजिज्ञासे"ति प्रयोजनवाक्यस्यापौरुषेयत्वासिद्धेः । खरूपेर्थे तस्य प्रामाण्यानिष्टेश्चान्यथातिप्रसंगात् । पौरुषेय एवागमः प्रयोजनवाक्यमिति चेत् । कुतोस्य प्रामाण्यनिश्चयः । खत एवेति न, खतः प्रामाण्यैकांतस्य निराकरिष्यमाणस्वात् । परत एवागमस्य प्रामाण्यमित्यन्ये, तेषामपि नेदं प्रमाणं सिद्ध्यति । परतः प्रामाण्यस्थानवस्थादिदोषदूषितत्वेन प्रतिक्षेप्स्यमानत्वात् प्रतीतिविरोधात् । परार्थानुमानमादौ प्रयोजनवचनमित्यपरे । तेपि न युक्तिवादिनः, साध्यसाधनयोर्व्याप्तिप्रतिपत्तौ तर्कस्य प्रमाणस्यानभ्युपगमात् । प्रत्यक्षस्यानुमानस्य वा तत्रासमर्थत्वेन साधयिष्यमाणत्वात् । ये त्वप्रमाणकादेव विकल्पज्ञानात्तयोर्व्याप्तिप्रतिपत्तिमाहुस्तेषां प्रत्यक्षानुमानप्रमाणत्वसमर्थनमनर्थकमेव, प्रमाणादेव प्रत्यक्षानुमेयार्थप्रतिपत्तिप्रसंगात् । ततो न प्रयोजनवाक्यं स्याद्वादविद्विषां किंचित्प्रमाणं प्रमाणादिव्यवस्थानासंभवाच्च न तेषां तत्प्रमाणमिति शास्त्रप्रणयनमेवासंभवि विभाव्यतां किं पुनः प्रयोजनवाक्योपन्यसनं । श्रद्धाकुतूहलोत्पादनार्थ तदित्येके । तदप्यनेनैव निरस्तं, तस्य प्रमाणत्वाप्रमाणत्वपक्षयोस्तदुत्पादकत्वायोगात् । अर्थसंशयोत्पादनार्थ तदित्यप्यसारं, कचिदर्थसंशयात् प्रवृत्तौ प्रमाणव्यवस्थापनानर्थक्यात् । प्रमाणपूर्वकोर्थसंशयः प्रवर्तक इति प्रमाणव्यवस्थापनस्य साफल्ये कथमप्रमाणकात् प्रयोजनवाक्यादुपजातोर्थसंशयः । प्रवृत्त्यंगं विरुद्धं च संशयफलस्य प्रमाणत्वं विपर्यासफलवत् , खार्थव्यवसायफलस्यैव ज्ञानस्य प्रमाणत्वप्रसिद्धेः । ये त्वाहुर्यनिष्प्रयोजनं तन्नारंभणीयं यथा काकदंतपरीक्षाशास्त्रं निष्प्रयोजनं चेदं शास्त्रमिति । व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानात्प्रतिव्यापकानुपलब्धेरसिद्धतोद्भावनार्थ प्रयोजनवाक्यमिति । तेपि न परीक्षकाः । खयमप्रमाणकेन तदसिद्धतोद्भावनाऽसंभवात् , तत्प्रमाणत्वस्य परैर्व्यवस्थापयितुमशक्तेः । सकलशास्त्रार्थोद्देशकरणार्थमादिवाक्यमित्यपि फल्गुप्रायं, तदुद्देशस्याप्रमाणात् प्रतिपत्तुमशक्तेस्तल्लक्षणपरीक्षावत् । ततो नोद्देशो लक्षणं परीक्षा चेति त्रिविधा व्याख्या व्यवतिष्ठते । समासतोऽर्थप्रतिपत्त्यर्थमादिवाक्यं व्यासतस्तदुत्तरशास्त्रमित्यप्यनेनैव प्रतिक्षिप्तमप्रमाणायासत इव समासतोप्यर्थप्रतिपत्तेरयोगात् । स्याद्वादिनां तु सर्वमनवद्यं तस्यागमानुमानरूपत्वसमर्थनादित्यलं प्रसंगेन ।
ननु च तत्त्वार्थशास्त्रस्यादिसूत्रं तावदनुपपन्नं प्रवक्तृविशेषस्याभावेपि प्रतिपाद्यविशेषस्य च कस्यचित् प्रतिपित्सायामसत्यामेव प्रवृत्तत्वादित्यनुपपत्तिचोदनायामुत्तरमाह;
प्रवुद्धाशेषतत्त्वार्थे साक्षात् प्रक्षीणकल्मषे । सिद्धे मुनीन्द्रसंस्तुत्ये मोक्षमार्गस्य नेतरि ॥२॥ सत्यां तत्प्रतिपित्सायामुपयोगात्मकात्मनः ।
श्रेयसा योक्ष्यमाणस्य प्रवृत्तं सूत्रमादिमम् ॥ ३ ॥ तेनोपपन्नमेवेति तात्पर्य । सिद्धे प्रणेतरि मोक्षमार्गस्य प्रकाशकं वचनं प्रवृत्तं तत्कार्यत्वादन्यथा प्रणेतृव्यापारानपेक्षत्वप्रसंगात् तयंग्यत्वात्तत्तदपेक्षमितिचेत् । न । कूटस्थस्य सर्वथाभिव्यंग्यत्वविरोधात्तदभिव्यक्तेरव्यवस्थितेः । सा हि यदि वचनस्य संस्काराधानं तदा ततो भिन्नोऽन्यो वा संस्कारः प्रणेतृव्यापारेणाधीयते, यद्यभिन्नस्तदा वचनमेव तेनाधीयत इति कथं कूटस्थं नाम । भिन्नश्चेत्पूर्ववत् तस्य सर्वदाप्यश्रवणप्रसंगः । प्राक् पश्चाद्वा श्रवणानुषंगः खखभावापरित्यागात् । संस्काराधानकाले प्राच्याश्राव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org