________________
तत्त्वार्थश्लोकवार्तिके
यतो घटादेरेवेति व्यवतिष्ठते, एकद्रव्यत्वपरिणामेन तस्याः व्याप्तत्वदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता, नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतद्बाधकाभावे सतीति हेतु - विशेषणमसिद्धं गौरित्यादिशब्दस्य सर्वगतस्य युगपद्यंजकस्य देशभेदाद्भिन्नदेशतयोपलभ्यमानस्य खतो देशविच्छिन्नतयोपलंभासंभवादिति । तदयुक्तं । तस्य सर्वगतत्वासिद्धेः कूटस्थत्वेनाभिव्यंग्यत्वप्रतिषेधाच्च । सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्तत्वादाकाशवदित्येतदपि न शब्दसर्वगतत्वसाधनायालं, जीवद्रव्येणानैकांतिकत्वात् । तस्यापि पक्षीकरणान्न तेनानैकांत इति चेत् न, प्रत्यक्षादिविरोधात् । श्रोत्रं हि प्रत्यक्षं नियतदेशतया शब्दमुपलभते खसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति कालात्ययापदिष्टो हेतुस्तेजोनुष्णत्वे द्रव्यत्ववत् । खरूपासिद्धश्च सर्वथा नित्यद्रव्यत्वामूर्तत्वयोर्धर्मिण्य संभवात् । तथाहि । परिणामी शब्दो वस्तुत्वान्यथानुपपत्तेः, न वस्तुनः प्रतिक्षणविवर्तेनैकेन व्यभिचारस्तस्य वस्त्वेकदेशतया वस्तुत्वाव्यवस्थितेः । न च तस्या वस्तुत्वं वस्त्वेकदेशत्वाभावप्रसंगात् । वस्तुत्वस्यान्यथानुपपत्तिरसिद्धेति चेत्। न । एकांतनित्यत्वादौ पूर्वापरखभावत्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयौ - गपद्याभ्यामर्थक्रियाविरोधाद्वस्तुत्वासंभवादिति नैकांतनित्यः शब्दो, नापि सर्वथा द्रव्यं पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः क्रमशस्तत्रोद्भवत्वात् छायातपादिवत् कथंचिद्द्रव्यं शब्दः क्रियावत्त्वाह्वाणादिषत् । धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनानैकांत इति चेत् । न । परिस्पंदरूपया क्रियया क्रियावत्त्वस्य हेतुत्ववचनात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशांतरप्राप्त्या तस्य तत्सिद्धेरन्यथा बाणादेरपि निःक्रियत्वप्रसंगान्मतांतरप्रवेशाच्च । ततो द्रव्यपर्यायात्मकत्वाच्छब्दस्यैकांतेन द्रव्यत्वासिद्धिः । अमूर्तत्वं वासिद्धं तस्य मूर्तिमद्रव्यपर्यायत्वात् । मूर्तिमद्रव्यपर्यायोसौ सामान्यविशेषवत्त्वे सति बायेंद्रियविषयत्वादातपादिवत् । न घटत्वादिसामान्येन व्यभिचारः, सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्षं चेदं विशेषणं । खमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्षणस्य द्रव्यपर्यायात्मकत्वेन स्थितेस्तेन व्यभिचाराभावात् । कर्मणानैकांत इति चेत् न, तस्यापि द्रव्यपर्यायात्मकत्वेनेष्ठेः । स्पर्शादिना गुणेन व्यभिचारचोदनमनेनापास्तं । ततो हेतोरसिद्धिरेवेति नातोभिलापस्य सर्वगतत्वसाधनं यतो युगपद्भिन्नदेशतयोपलभ्यमानता अस्याबाधिता न भवेत् । प्रत्यभिज्ञानस्य वा तदेकत्व परामर्शिनोनुमानबाधितत्वेन पुरुषव्यापारात्प्राक् सद्भावावेदकत्वाभावात्तदभिव्यंग्यत्वाभाव इति तज्जन्यमेव वचनं सिद्धं पर्यायार्थतः पौरुषेयं । वचन सामान्यस्य पौरुषेयत्वसिद्धौ विशिष्टं सूत्रवचनं सत्प्रणेतृकं प्रसिद्ध्यत्येवेति सूक्तं “सिद्धे मोक्षमार्गस्य नेतरि प्रबंधन वृत्तं सूत्रमादिमं शास्त्रस्येति” । तथाप्यनाप्तमूलमिदं बक्तसामान्ये सति प्रवृत्तत्वाद्दुष्टपुरुषवचनवदिति न मतव्यं, साक्षात्प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे चेति विशेषणात् । सूत्रं हि सत्यं सयुक्तिकं चोच्यते हेतुमत्तथ्यमिति सूत्रलक्षणवचनात् । तच्च कथमसर्वज्ञे दोषवति च वक्तरि प्रवर्तते सूत्राभासत्त्वप्रसंगाद्बहस्पत्यादिसूत्रवत्ततोर्थतः सर्वज्ञवीतरागप्रणेतृकमिदं सूत्रं सूत्रत्वान्यथानुपपत्तेः । गणाधिपप्रत्येकबुद्धश्रुत केवल्यभिन्नदशपूर्वधरसूत्रेण स्वयं संमतेन व्यभिचार इति चेत् न, तस्याप्यर्थतः सर्वज्ञवीतरागप्रणेतृकत्वसिद्धेरर्हद्भाषितार्थं गणधरदेवैर्ग्रथितमिति वचनात् । एतेन गृद्धपिच्छाचार्यपर्यंतमुनिसूत्रेण व्यभिचारिता निरस्ता । प्रकृतसूत्रे सूत्रत्वमसिद्धमिति चेत् न, सुनिश्चितासंभवद्बाधकत्वेन तथास्य सूत्रत्वप्रसिद्धेः सकलशास्त्रार्थाधिकरणाच्च । न हि मोक्षमार्गविशेषप्रतिपादकं सूत्रमस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् यद्धि यदविषयं न तत्तद्वचसो बाधकं यथा रूपाविषयं रसनज्ञानं रूपवचसः श्रेयोमार्गविशेषाविषयं चास्मदादिप्रत्यक्षमिति । एतेनानुमानं तद्बाधकमिति प्रत्युक्तं, तस्याननुमानविषयत्वात् । श्रेयोमार्गसामान्यं हि तद्विषयो न पुनस्तद्विशेषः प्रव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org