________________
२६४ तत्त्वार्थश्लोकवार्तिके
[सू० ३२ मनननिदिध्यासनरूपस्य विधीयमानतयानुभवात् । तथा च खयमात्मानं द्रष्टुं श्रोतुमनुमंतुं निध्यातुं वा प्रवर्तते, अन्यथा प्रवृत्त्यसंभवेप्यात्मनः प्रेरितोहमित्यत्र गतिरप्रमाणिका स्यात् । ततो नासत्यो विधिर्येन प्रधानता न विरुध्यते । नापि सत्यत्वे द्वैतसिद्धिः आत्मस्वरूपव्यतिरेकेण तदभावात् , तस्यैकस्यैव तथा प्रतिभासनात् इति । तदप्यसत्यं । नियोगादिवाक्यार्थस्य निश्चयात्मतया प्रतीयमानत्वात् । तथाहि-नियोगस्तावदग्निहोत्रादिवाक्यादिवत् द्रष्टव्यो रेऽयमात्मा इत्यादिवचनादपि प्रतीयते एव . नियुक्तोहमनेन वाक्येनेति निरवशेषो योगो नियोगः प्रतिभाति मनागप्ययोगाशंकानवतारादवश्यकर्तव्यतासंप्रत्ययात् । कथमन्यथा तद्वाक्यश्रवणादस्य प्रवृत्तिरुपपद्यते, मेघध्वन्यादेरपि प्रवृत्तिप्रसंगात् । स्यादेतत् । मिथ्येयं प्रतीतिनियोगस्य विचार्यमाणस्य प्रवृत्तिहेतुत्वायोगात् । स हि प्रवर्तकखभावो वा स्यादतत्वभावो वा ? प्रथमकल्पनायां प्राभाकराणामिव ताथागतादीनामपि प्रवर्तकः स्यात् । सर्वथा प्रवर्तकत्वात् तेषां विपर्यासादप्रवर्तक इत्यपि न निश्चेतुं शक्यं परेषामपि विपर्यासात्प्रवर्तकत्वादनुषंगात् । प्राभाकरा हि विपर्यस्तमनसः शब्दनियोगात् प्रवर्तते नेतरे सविपर्यस्तत्वादिति वदतो निवारयितुमशक्तेः सौगतादिमतस्य प्रमाणबाधितत्वात् त एव विपर्यस्ता न प्राभाकरा इत्यपि पक्षपातमात्रं तन्मतस्यापि प्रमाणबाधनाविशेषात् । यथैव हि प्रतिक्षण विनश्वरसकलार्थवचनं प्रत्यक्षादिविरुद्धं तथा नियोगाद्विषयादिभेदकल्पनमपि सर्वप्रमाणानां विधिविषयतयावधारणात् सदेकत्वस्यैव परमार्थतोपपत्तेः । यदि पुनरप्रवर्तकखभावः शब्दनियोगस्तदा सिद्ध एव तस्य प्रकृतिहेतुत्वायोगः फलरहिताद्वा नियोगमात्रान्न प्रेक्षावतां प्रवृत्तिरप्रेक्षावत्त्वप्रसंगात् , प्रयोजनमनुद्दिश्य न मंदोपि प्रवर्तत इति प्रसिद्धेश्च । प्रचंडपरिहढवचननियोगादफलादपि प्रवर्तनदर्शनाददोष इति चेन्न, तन्निमित्तापायपरिरक्षणस्य फलत्वात् । तन्नियोगादप्रवर्तने हि ममानपायोवश्यं भावीति तन्निवारणाय प्रवर्तमानानां प्रेक्षावतामपि तत्त्वाविरोधात् । तर्हि वेदवचनादपि नियुक्तप्रत्यवायपरिहाराय प्रवर्ततां "नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया" इति वचनात् । कथमिदानी खर्गकाम इति वचनमवतिष्ठते, जुहुयात् जुहोतु होतव्यमिति लिंङ्लोट्तव्यप्रत्ययांतनिर्देशादेव नियोगमात्रप्रतिपत्तेः, तत एव च प्रवृत्तिसंभवात् । फलसहितान्नियोगात् प्रवृत्तिफलसिद्धौ च फलार्थितैव प्रवर्तिका न नियोगस्तमंतरेणापि फलार्थिनां प्रवृत्तिदर्शनात् । पुरुषवचनान्नियोगे अयमुपालंभो नापौरुषेयाग्निहोत्रादिवाक्यनियोगे तस्यानुपालभ्यत्वात् । इति न युक्तं, “सर्व खल्विदं ब्रह्म" इत्यादि वचनस्याप्यनुपालभ्यत्वसिद्धेर्वेदांतवादपरिनिष्ठानात् । तस्मान्न नियोगो वाक्यार्थः कस्यचित्प्रवृत्तिहेतुरिति । तदेतद्विधिवादिनोपि समानं विधेरपि प्रवृत्तिहेतुत्वायोगस्या विशेषात् । प्रकृविकल्पानतिवृत्तेः । तस्यापि हि प्रवर्तकखभावत्वे वेदांतवादिनामिव प्रामाकरतथागतादीनामपि प्रवर्तकत्वप्रसक्तेरप्रवर्तकखभावात्तेषामपि न प्रवर्तको विधिः स्यात् । खयमविपर्यस्तास्ततः प्रवर्तते न विपयस्ता इति चेत्, कुतः संविभागो विभाव्यतां । प्रमाणाबाधितेतरमताश्रयणादितिचेत् , तर्हि वेदांतवादिनः कथं न विपर्यस्ताः सर्वथा सवैकत्वमतस्याध्यक्षविरुद्धत्वात् परस्परनिरपेक्षद्रव्यगुणादिभेदाभेदमननवत् । तद्विपरीतस्यानेकांतस्य जात्यंतरस्य प्रतीतेः फलरहितश्च विधिन प्रवर्तको नियोगवत् । सफलः प्रवर्तक इतिचेत् , किंचिज्ज्ञानां फलार्थिनां फलाय दर्शनादेव प्रवृत्त्युपपत्तेः । पुरुषाद्वैते न कश्चित् कुतश्चित् प्रवर्तत इतिचेत् , सिद्धस्तर्हि विधिरप्रवर्तको नियोगवदिति न वाक्यार्थः । पुरुषाद्वैतवादिनामुपनिषद्वाक्यादात्मनि दर्शनश्रवणानुमनननिध्यानविधानेप्यप्रवर्तने कुतस्तेषां तदभ्यासः साफल्यमनुभवति मत्तोन्मत्तादिप्रलापवत् , कथं वा सर्वथाप्यप्रवर्तको विधिरेव वाक्यार्थो न पुनर्नियोगः पटादिवत् पदार्थातरत्वेनाप्रतिभासनात् । नियुज्यमानविषयनियोक्तृधर्मत्वेन चानवस्थानान्न नियोगो वाक्यार्थ इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org