________________
३०६ तत्त्वार्थश्लोकवार्तिके
[तत्त्वाथा० यतः सर्वस्याविशेषः स्यात् सत्त्वधोपपत्तितयैव धर्मातरस्यापि नित्यत्वस्याकाशादौ सद्भावनिमित्तस्य दर्शनात् प्रयत्नानंतरीयकत्वनिमित्तस्य वा नित्यत्वस्य घटादौ दर्शनात् । ततो विषमोयमुपन्यासः इति त्यज्यतां सर्वार्थेष्वविशेषप्रसंगात् प्रत्यवस्थानं । यदि तु सर्वेषामर्थानामनित्यता सत्वस्यानिमित्तमिष्यते तदापि प्रत्यवस्थानादनित्याः सर्वे भावाः सत्त्वादिति पक्षः प्रामोति तत्र च प्रतिज्ञार्थव्यतिरिक्त कोदाहरणो हेतुरस्तु । उदाहरणसाधात् साध्यसाधनत्वं हेतुरिति समर्थनात् । पक्षैकदेशस्य प्रदीपज्वालादेरुदाहरणत्वे साध्यत्वविरोधः साध्यत्वे तूदाहरणं विरुध्यते । न च सर्वेषां सत्त्वमनित्यत्वं साधयति नित्यत्वेपि केषांचित्सत्त्वप्रतीतेः । संप्रति सिद्धार्था वा सर्वेषामनित्यताया कथं शब्दानित्यत्वं प्रतिषिध्यते सत्त्वैरिति परीक्ष्यतां । सोयं सर्वस्यानित्यत्वं साधयेन्नैव शब्दानित्यत्वं प्रतिषेधतीति कथं खस्थः ? ॥ कारणस्योपपत्तेः स्यादुभयोः पक्षयोरपि । उपपत्तिसमा जातिः प्रयुक्ते सत्यसाधने ॥ ४०६॥ उभयोरपि पक्षयोः कारणस्योभयोरुपपत्तिः प्रत्येया उभयकारणोपपत्तिसम इति वचनात् ॥ एतदुदाहरणमाह;कारणं यद्यनित्यत्वे प्रयत्नोत्थत्वमित्ययं । शब्दोऽनित्यस्तदा तस्य नित्यत्वेऽस्पर्शनास्ति तत्४०७ ततो नित्योप्यसावस्तु न नित्यः कथमन्यथा ।
यद्यनित्यत्वं कारणं प्रयत्नांतरीकत्वं शब्दस्यास्तीत्यनित्यः शब्दस्तदा नित्यत्वेपि तस्य कारणमस्पर्शत्वमुपपद्यते । ततो नित्योप्यस्तु कथमनित्योन्यथा स्यादित्युभयस्य नित्यत्वस्यानित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमो दूषणाभासः ॥
इत्येष हि नपुंस्कोत्र प्रतिषेधः कथंचन । कारणस्याभ्यनुज्ञादि यादृशं ब्रुवता स्वयं ॥४०८॥ शब्दानित्यत्वसिद्धिश्चोपपत्तेरविगानतः । व्याघातस्तु द्वयोस्तुल्यः सपक्षप्रतिपक्षयोः ॥४०९॥ साधनादिति नैवासौ तयोरेकस्य साधकः । एवं ह्येष न युक्तोत्र प्रतिषेधः कथं मयि॥४१०॥
कारणस्याभ्यनुज्ञानात् उभयकारणोपपत्तेरिति ब्रुवता खयमेव खत्वे नित्यकारणं प्रयत्नानंतरीयकत्वं तावदभ्यनुज्ञातमनेनाभ्यनुज्ञानान्नानुपपन्नस्तत्प्रतिषेधः । शब्दानित्यत्वसिद्धाया उपपत्तेरविवादात् । यदि पुनर्नित्यत्वकारणोपपत्तौ सत्यामनित्यत्वकारणोपपत्तेर्व्याघातादनित्यत्वादसिद्धेर्युक्तः प्रतिषेध इति मतिस्तदास्त्यनित्यत्वकारणोपपत्तौ सत्यां नित्यत्वकारणोपपत्तिरपि व्याघातान्न नित्यत्वसिद्धिरपीति नित्यत्वानित्यत्वयोरेकतरस्यापि न साधकस्तुल्यत्वादुभयोाघातस्य ॥
का पुनरुपलब्धिसमा जातिरित्याह;साध्यधर्मनिमित्तस्याभावेप्युक्तस्य यत्पुनः । साध्यधर्मोपलब्ध्या स्यात् प्रत्यवस्थानमात्रकम्४११ सोपलब्धिसमा जातियथा श्वासादिभंगजे । शब्देस्त्यनित्यता यत्नजत्वाभावेप्यसाविति।।४१२
साध्यधर्मस्तावदनित्यत्वं तस्य निमित्तकारणं प्रयत्नानंतरीयकत्वं ज्ञापकं तस्योक्तस्य वादिना कचिदभावेपि पुनः साध्यधर्मस्योपलब्ध्या यत्प्रत्यवस्थानमात्रकं सोपलब्धिसमा जातिर्विज्ञेया, "निर्दिष्ट कारणाभावेप्युपलंभादुपलब्धिसम” इति वचनात् । तद्यथा-श्वासादिभंगजे शब्दे प्रयत्नानंतरीयकत्वाभावेप्यनित्यत्वमस्ति साध्यधर्मोसाविति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org