________________
प्रथमोऽध्यायः ।
३०५
इत्यहेतुसमत्वेन प्रत्यवस्थाप्य युक्तिता । हेतोः प्रत्यक्षतः सिद्धेः कारकस्य घटादिषु ॥ ३९० ॥ कार्येषु कुंभकारस्य तन्निवृत्तेस्ततो ग्रहात् । ज्ञापकस्य च धूमादेरन्यादौ ज्ञप्तिकारिणः ॥ ३९१ ॥ स्वज्ञेये परसंताने वागादेरपि निश्चयात् । त्रैकाल्यानुपपत्तेश्च प्रतिषेधे कचित्तथा ॥ ३९२ ॥ समान कार्यासौ प्रतिषेध विद्भिः, कथं पुनस्त्रैकाल्या सिद्धिर्हेतोरहेतुसमा जातिरभिधीयते ? अहेतुसामान्याप्रत्यवस्थानात् । यथा ह्यहेतुः साध्यस्यासाधकस्तथा हेतुरपि त्रिकालत्वेनाप्रसिद्ध इति स्पष्टत्वादहेतुसमा जातेर्लक्षणोदाहरणप्रतिविधानानामलं व्याख्यानेन ॥
प्रयत्नानंतरोत्थत्वाद्धेतोः पक्षे प्रसाधिते । प्रतिपक्षप्रसिद्ध्यर्थमर्थापत्या विधीयते ॥ ३९३ ॥ या प्रत्यवस्थितिः सात्र मता जातिविदांवरैः । अर्थापत्तिः समैवोक्ता साधनाप्रतिवेदिनी ३९४ यदि प्रयत्नजत्वेन शब्दस्यानित्यताभवत् । तदार्थापत्तितो नित्यसाधर्म्यादस्तु नित्यता ॥ ३९५ यथैवास्पर्शनत्वादेर्नित्ये दृष्टा तथा ध्वनौ । इत्यत्र विद्यमानत्वात्समाधानस्य तत्त्वतः ॥ ३९६ शब्दो नास्तीति “पक्षे हेतोरसंशयम् । एष नास्तीति पक्षस्य हानिरर्थात्प्रतीयते ॥ ३९७॥ यया च प्रत्यवस्थानमर्थापत्त्या विधीयते । नानैकांतिकता दृष्टा समत्वादुभयोरपि ॥ ३९८ ॥ ग्रा''''द्यनस्य पातः स्यादित्युक्तेर्थान्न सिद्ध्यति । द्रव्यात्मनामसंपाताभावोर्थापत्तितो यथा ॥ तस्याः साध्याविनाभावशून्यत्वं तद्वदेव हि । शब्दानित्यत्वसंसिद्धौ नार्थानित्यत्वसाधनं ४०० नर्थापत्त्यानैकांतिक्या प्रतिपक्षः सिद्ध्यति येन प्रयत्नानंतरीयकत्वात् शब्दस्यानित्यत्वे साधितेपि अस्पर्शवत्त्वान्यथानुपपत्त्या तस्य नित्यत्वं । सिद्धे तु सुखादिनानैकांतिकी चेयमर्थापत्तिरतो न प्रतिपक्षस्य सिद्धिस्तदसिद्धौ च ना............ ...........उपपद्यते, सर्वापत्त्यर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसम इति वचनात् ॥
1
का पुनरविशेषसमा जातिरित्याह ;
'
क्वचिदेकस्य धर्मस्य घटनादुररीकृते । अविशेषोत्र सद्भावाघटनात्सर्ववस्तुनः ॥ ४०१ ॥ अविशेषः प्रसंगः स्यादविशेषसमा स्फुटं । जातिरेवंविधं न्यायप्राप्तदोषासमीक्षणात् ॥ ४०२ ॥ एको धर्मः प्रयत्नानंतरीयकत्वं तस्य क्वचिच्छन्दघटयोर्घटनादविशेषे समानत्वे सत्यनित्यत्वे वादिनोरुररीकृते पुनः सद्भावः सर्वस्य सत्त्वधर्मस्य वस्तुषु घटनादविशेषस्यानित्यत्वप्रसंजनमविशेषसमा जातिः स्फुटं, एवं विधस्य न्यायप्राप्तस्य दोषस्यासमीक्षणात् । एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसंगात् सद्भावोपपत्तेरविशेषः सम इत्येवंविधो हि प्रतिषेधेन न्यायप्राप्तः ॥
कुत इत्याह ;
प्रयत्नानंतरीयत्वंधर्मस्यैकस्य संभवात् । अविशेषे ह्यनित्यत्वे सिद्धेपि घटशब्दयोः ॥ ४०३ ॥ न सर्वस्याविशेषः स्यात्सत्त्वधर्मोपपत्तितः । धर्मातरस्य सद्भावनिमित्तस्य निरीक्षणात् ||४०४ || प्रयत्नानंतरीयत्वे निमित्तस्य च दर्शनात् । न समोयमुपन्यासः प्रतिभातीति मुच्यताम् ॥४०५ सर्वार्थेष्वविशेषस्य प्रसंगात् प्रत्यवस्थितिः ।
न हि यथा प्रयत्नानंतरीयकत्वं साधनधर्मः साध्यमनित्यत्वं साधयति शब्दे तथा सर्ववस्तुनि सत्त्वं
३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org