________________
३०४ तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० नित्येनास्ति घटेन वानित्येनेति संशयः । शब्दे नित्यानित्यत्वधर्माधर्मयोरित्येषा संशयसमा जातिः । सामान्यघटयोरैंद्रियकत्वे सामान्ये स्थिते नित्यानित्यसाधान्न पुनरेकसाध या॑त् । सामान्यदृष्टांतयोरैंद्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसम इति वचनात् । अत्र संशयो न युक्तो विशेषेण शब्दानित्यत्वसिद्धेः । तथाहि-पुरुषे शिरःसंयमनादिना विशेषेण नित्यत्वे सति न पुरुषस्थाणुसाधादूर्द्धत्वात्संशयस्तथा प्रयत्नानंतरीयकत्वेन विशेषेणानित्ये शब्दे निश्चिते सति न. घटसामान्यसाधादेंद्रियकत्वात्संशयः अत्यंतसंशयः । साधर्म्यस्याविनाशित्वात् पुरुषस्थाण्वादिगतस्येति निर्णयः कास्पदं प्राप्नुयात् । साधर्म्यमात्राद्धि संशये कचिद्वैधर्म्यदर्शनान्निर्णयो युक्तो न पुनर्वैधात्साधर्म्यवैधाभ्यां वा संशये तथात्यंतसंशयात् । न चात्यंतसंशयो ज्यायान् सामान्यात् संशयाद्विशेषदर्शनात् संशयनिवृत्तिसिद्धेः ॥
अथानित्येन नित्येन साधादुभयेन या । प्रक्रियायाः प्रसिद्धिः स्यात्ततः प्रकरणे समा३८० उभाभ्यां नित्यानित्याभ्यां साधाद्या प्रक्रियासिद्धिस्ततः प्रकरणसमा जातिरवसेया, "उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमा” इति वचनात् ॥ किमुदाहरणमेतस्या इत्याह;तत्रानित्येन साधानिःप्रयत्नोद्भवत्वतः । शब्दस्यानित्यतां कश्चित्साधयेदपरः पुनः॥३८१॥ तस्य नित्येन गोत्वादिसामान्येन हि नित्यता । ततः पक्षे विपक्षे च समाना प्रक्रिया स्थिता ३८२ तत्र हि प्रकरणसमायां जातौ कश्चिदनित्यः शब्दः प्रयत्नानांतरीयकत्वाद्धटवदित्यनित्यसाधर्म्यात् पुरुषप्रयत्नोद्भवत्वाच्छब्दस्यानित्यत्वं साधयति । परः पुनर्गोत्वादिना सामान्येन साधर्म्यात्तस्य नित्यतां साधयेत् । ततः पक्षे विपक्षे च प्रक्रिया समानेत्युभयपक्षपरिग्रहेण वादिप्रतिवादिनोनित्यत्वानित्यत्वे साधयतः । साधर्म्यसमायां संशयसमायां च नैवमिति ताभ्यां भिन्नेयं प्रकरणसमा जातिः ॥ कथमीदृशं प्रत्यवस्थानमयुक्तमित्याह;प्रक्रियांतनिवृत्त्या च प्रत्यवस्थानमीदृशं । विपक्षे प्रक्रियासिद्धौ न युक्तं तद्विरोधतः ॥३८३।। प्रतिपक्षोपपत्तौ हि प्रतिषेधो न युज्यते । प्रतिषेधोपपत्तौ च प्रतिपक्षकृतिभ्रुवम् ॥ ३८४ ॥ तत्त्वावधारणे चैतत्सिद्धं प्रकरणं भवेत् । तदभावेन तत्सिद्धिर्येनेयं प्रत्यवस्थितिः ॥३८५॥
प्रक्रियांतनिवृत्त्या प्रत्यवस्थानमीदृशमयुक्तं, विपक्षे प्रक्रियासिद्धौ तयोर्विरोधात् । प्रतिपक्षप्रक्रियासिद्धौ हि प्रतिषेधो विरुध्यते, प्रतिषेधोपपत्तौ च प्रतिपक्षप्रक्रियासिद्धिाहन्यते इति विरुद्धस्तयोरेव सांभवी । किं च, तत्त्वावधारणे सत्येवैतत्प्रकरणं सिद्धं भवेन्नान्यथा । न चात्र तत्त्वावधारणं ततोऽसिद्धं प्रकरणं, तदसिद्धौ च नैवेयं प्रत्यवस्थितिः संभवति ॥ का पुनरहेतुसमा जातिरित्याह;त्रैकाल्यानुपपत्तेस्तु हेतोः साध्यार्थसाधने । स्थादहेतुसमा जातिः प्रयुक्ते साधने कचित्३८६ पूर्व वा साधनं साध्यादुत्तरं वा सहापि वा । पूर्व तावदसत्यर्थे कस्य साधनमिष्यते ॥३८७॥ पश्चाचेत् किं न तत्साध्यं साधनेऽसति कथ्यतां । युगपद्वाचि चित्साध्यसाधनत्वं न युज्यते३८८ स्वतंत्रयोस्तथाभावासिद्धेविन्ध्यहिमाद्रिवत् । तथा चाहेतुना हेतुर्न कथंचिद्विशिष्यते ॥३८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org