________________
प्रथमोऽध्यायः ।
३०३ उत्पन्नस्यैव शब्दस्य तथाभावप्रसिद्धितः । प्रागुत्पत्तेर्न शब्दोस्तीत्युपालंभः किमाश्रयः।।३७१॥ सत एव तु शब्दस्य प्रयत्नानंतरोत्थता । कारणं नश्वरत्वेस्ति तनिषेधस्ततः कथम् ॥ ३७२ ॥
उत्पत्तेः पूर्व कारणाभावतो या प्रत्यवस्थितिः परस्यानुत्पत्तिसमा जातिरुक्ता भवेत् । “प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसम इति वचनात् । तद्यथा-विनश्वरः शब्दः पुरुषप्रयत्नोद्भवात् कदंबादिवदित्युक्ते साधने सति पर एवं ब्रवीति प्रागुत्पत्तेरनुत्पन्ने शब्दविनश्वरत्वस्य कारणं यत्प्रयत्नानंतरीयकत्वं तन्नास्ति ततोयमविनश्वरः, शाश्वतस्य च शब्दस्य न प्रयत्नानंतरं जन्मेति सेयमनुत्पत्त्या प्रत्यवस्था दूषणाभासो न्यायातिलंघनात् । उत्पन्नस्यैव हि शब्दधर्मिणः प्रयत्नानंतरीयकत्वमुत्पत्तिधर्मकत्वं वा भवति, नानुत्पन्नस्य प्रागुत्पत्तेः शब्दस्य चासत्त्वे किमाश्रयोयमुपालंभः । न ह्ययमनुत्पत्तौ सन्नेव शब्द इति वा प्रयत्नानंतरीयक इति वा अनित्य इति वा व्यपदेशं शक्यः । शब्दे तु सिद्धमेव प्रयत्नानंतरीयकत्वं कारणं नश्वरत्वे साध्ये । ततः कथमस्य प्रतिषेधः किं वार्य हेतुआपको न पुनः कारको, ज्ञापके च कारकवत्प्रत्यवस्थानमसंबद्धमेव । ज्ञापकस्यापि किंचित्कुर्वतः कारकत्वमेवेति चेत् न, क्रियाहेतोरेव कारकत्वोपपत्तेरस्यानुत्पन्नेस्ति हेतोपिकत्वात् । कारकता हि वस्तूत्पादयति ज्ञापकस्तूत्पन्नं वस्तु ज्ञापयतीत्यस्ति विशेषः । कारकविशेषे वा ज्ञापके कारकसामान्यवत्प्रत्यवस्थानमयुक्तं । किं च–प्रागुत्पत्तेरप्रयत्नानंतरीयको अनुत्पत्तिधर्मको वा शब्द इति ब्रुवाणः शब्दमभ्युपैति नासतो प्रयत्नानंतरीयकत्वादिधर्म इति तत्त्वस्य विशेषणमनर्थकं प्रागुत्पत्तौ इति । अपरे तु प्राहुः, प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयमिति प्रागुत्पत्तेः प्रयत्नानंतरीयकत्वस्याभावादप्रयत्नानंतरीयकत्वाच इति कृते सत्प्रत्युत्तरं ब्रूते । नायं नियमो अप्रयत्नानंतरीयकत्वं नित्यमिति तु, न हि तस्य गतिः किंचिन्नित्यमाकाशाधेव, केषांचिदनित्यं विद्युदादि, किंचिदसदेवाकाशपुष्पादीति । एतत्तु न पश्यन्युक्तमिति पश्यामः । कथमिति: यत्तावदसत्तदप्रयत्नानंतरीयकत्वं व्यजन्मविशेषणत्वात् । यस्याप्रयत्नानंतरं जन्म तदप्रयत्नानंतरीयक न चाभावो विद्यते अतो न तस्य जन्म यच्चासत् किं तस्य विशेष्यमस्ति । एतेन नित्यं प्रयुक्तं, न हि नित्यमप्रयत्नानंतरीयकमिति युक्तं वक्तुं, तस्य जन्माभावादिति जातिलक्षणाभावान्नेयमनुत्पत्तिसमा जातिरितिचेत् नानुत्पत्तेरहेतुभिः साधर्म्यात् योनुत्पन्न........"भिस्तद्यथानुत्पन्नास्तंतवो न पटस्य कारणमिति ॥
सामान्ये घटयोस्तुल्य ऐंद्रियत्वे व्यवस्थिते । नित्यानित्यत्वसाधात् संशयेन समा मता३७३ तत्रैव साधने प्रोक्ते संशयेन स्वयं परः । प्रत्यवस्थानमाधत्ते पश्यन् सद्भूतदूषणम् ॥३७४ ॥ प्रयत्नानंतरोत्थेपि शब्दे साधर्म्यमैंद्रिये । सामान्येनास्ति नित्येन घटेन च विनाशिना॥३७५॥ तादृशेनेति संदेहो नित्यानित्यत्वधर्मयोः । स चायुक्तो विशेषेण शब्दानित्यत्वसिद्धितः३७६ यथा पुंसि विनिर्णीते शिरःसंयमनादिना । पुरुषस्थाणुसाधाद्धर्मत्वान्नास्ति संशयः॥३७७॥ तथा प्रयत्नजत्वेनानित्ये शब्दे विनिश्चिते । घटसामान्यसाधादेंद्रियत्वान्न संशयः ॥३७८॥ संदेहेत्यंतसंदेहः साधर्म्यस्याविनाशतः । पुंसित्वादिगतस्येति निर्णयः कास्पदं व्रजेत्॥३७९॥
ननु चैषा संशयसमा साधर्म्यसमातो न भिद्यते एवोदाहरणसाधर्म्यात् तस्याप्रवर्तनादिति न चोद्य, संशयसमानोभयसाधात्प्रवृत्तेः । साधर्म्यसमाया एकसाधादुपदेशात् । ततो जात्यंतरमेव संशयसमा । तथाहि-नित्यः शब्दः प्रयत्नानंतरीयकत्वात् घटवदिति, अत्र च साधने प्रयुक्ते सति परः खयं संशयेन प्रत्यवस्थानं करोति सद्भूतं दूषणमप्यसत्, प्रयत्नानांतरीयकेपि शब्दे सामान्येन साधर्म्यसेंद्रियकत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org