________________
प्रथमोऽध्यायः ।
स चायं प्रतिषेधो न युक्त इत्याह;
कारणांतर तोप्यत्र साध्यधर्मस्य सिद्धितः । न युक्तः प्रतिषेधोऽयं कारणानियमोक्तितः ॥ ४१३॥
प्रयत्नानंतरीयकत्वात् कारणादन्यदुत्पत्तिधर्मकत्वादिकारणांतर मनित्यत्वस्य साधर्म्यस्य, ततोपि सिद्धिर्न युक्तः प्रतिषेधोयं तत्र कारणानियमवचनात् । नाभिज्ञापकमंतरेण ज्ञाप्यं न भवतीति नियमोस्ति, साध्याभावे साधनस्यानियमव्यवस्थितेः इति ॥
निषेध्यानुपलब्धेचानुपलब्धेः प्रसाधने । अभावस्य विपर्यासादुपपत्तिः प्रकीर्तिता ॥ ४१४ ॥ प्रस्तुतार्थविघातायानुपलब्धिसमानधैः ।
३०७
कश्चिदाह, न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः सदावरणश्चानुपलब्धेरुत्पत्तेः प्राग्घटादेरिव । यस्य तु दर्शनात् प्राग्विद्यमानस्यानुपलब्धिस्तस्य नावरणाद्यनुपलब्धिः यथा भूम्यावृत्तस्योदकादेर्नावरणाद्यनुपलब्धिश्च श्रवणात् प्राक् शब्दस्य । तस्मान्न विद्यमानस्यानुपलब्धिरित्यविद्यमानः शब्दश्रवणात्पूर्वमनुपलब्धिरिति निषेधस्य शब्दस्यानुपलब्धिर्या तस्याश्चानुपलब्धेरभावस्य साधने कृते सति विपर्यासादभावेऽस्योपपत्तिरनुपलब्धिसमा जातिः प्रकीर्तितानधैः, प्रस्तुतार्थाविघाताय तस्याः प्रयोगात् । तदुक्तं । “तदनुपलब्धेरनुपलंभादभावसिद्धौ विपरीतोपपत्तेरनुपलब्धिसम" इति ॥
कथमिति श्लोकैरुपदर्शयति ;
यथा न विद्यमानस्य शब्दस्य प्रागुदीरणात् । अश्रुतिः स्यात्तदावृत्त्या वा दृष्टेरिति भाषिते ४१५ कश्चिदावरणादीनामदृष्टेरप्यदृष्टितः । शिवं मा भूत्ततः शब्दे सत्ये वा श्रवणात्तदा ॥ ४१६ ॥ वृत्या स्वभावसंसिद्धेरभावादिति जल्पति । तदीदृशं प्रत्यवस्थानमसंगतमित्या वेदयति;
तदसंबंधमेवास्यानुपलब्धेः स्वयं सदा । नुपलब्धिस्वभावो नोपलब्धिविषयत्वतः ॥ ४१७ ॥ नैवोपलब्ध्यभावेनाभावो यस्मात्प्रसिद्ध्यति । विपरीतोपपत्तिश्च नास्पदं प्रतिपद्यते ॥ ४९८ ॥ शब्दस्यावरणादीनि प्रागुच्चारणतो न वै । सर्वत्रोपलभे हंत इत्याबालमनाकुलम् ॥ ४१९ ॥ ततश्चावरणादीनामदृष्टेरप्यदृष्टितः । सिद्ध्यत्यभाव इत्येष नोपालंभः प्रमान्वितः ॥ ४२० ॥
नाविद्यमानस्य शब्दस्य प्रागुच्चारणाद्यनुपलब्धेरित्युपमस्ते यत्कस्यचित्प्रत्यवस्थानं तदावरणादीनामनुपलब्धेरप्यनुपलंभात् । सैवावरणाद्यनुपलब्धिर्मा भूत् ततः शब्दस्य प्रागुच्चारणात् सत एवाश्रवणं तदावरणाद्यभावसिद्धेरभावादावरणादिसद्भावादिति संबंध मेवानुपलब्धेः सर्वदा स्वयमेवानुपलंभखभावत्वादुपलब्धिविषयत्वात् । यथैव ह्युपलब्धिर्विषयस्तथानुपलब्धिरपि । कथमन्यथास्ति मे घटोपलब्धिर्नास्ति मे घटोपलब्धिरिति संवेदनमुपपद्यते यतश्चैवमावरणाद्यनुपलब्धिरनुपलंभान्नैवाभावः सिद्ध्यति तदसिद्धौ च विपरीतस्यावरणादिसद्भाव स्योपपत्तिश्च नास्पदं प्रतिपद्यते । यतश्च प्रागुच्चारणाच्छब्दस्यावरणादीनि सोहं नैवोपलभे, तदनुपलब्धिमुपलभे सर्वत्रेत्याबालमनाकुलं संवेदनमस्ति । तस्मादावरणादीनामहष्टिरदृष्टेर्नः सिद्ध्यत्यभावः इत्ययमुपालंभो न प्रमाणान्वितः सर्वत्रोपलंभानुपलंभव्यवस्थित्यभावप्रसंगात् । ततोनुपलब्धेरपि समयानुपलब्ध्या प्रत्यवस्थानमनुपलब्धिमतो दूषणाभास एवेति प्रतिपत्तव्यं ॥
Jair Education International
"
का पुनरनित्यसमा जातिरित्याह; -
कृतकत्वादिना साम्यं घटेन यदि साधयेत् । शब्दस्यानित्यतां सर्वं वस्तु नित्यं तदा न किम् ४२१
For Private & Personal Use Only
www.jainelibrary.org