________________
तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० अनित्येन घटेनास्य साधर्म्यं गमयेत्स्वयं । सत्त्वेन साम्यमात्रस्य विशेषाप्रतिवेदनात् ॥ ४२२॥ इत्यनित्येन या नाम प्रत्यवस्था विधीयते । सातानित्यसमा जातिर्विज्ञेया न्यायबाधनात् ४२३
अनित्यः शब्दः कृतकत्वाद्धटवदिति प्रयुक्ते साधने यदा कश्चित्प्रत्यवतिष्ठते यदि शब्दस्य घटेन साधर्म्यात् कृतकत्वादिना कृत्वा साधयेदनित्यत्वं तदा सर्व वस्तु नित्यं किं न गमयेत् ? सत्त्वेन कृत्वा साधर्म्य, अनित्येन घटेन साधर्म्यमात्रस्य विशेषाप्रवेदादिति । तदेवमनित्यसमा जातिर्विज्ञेया न्यायेन बाध्यमानत्वात् । तदुक्तं । "साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसंगादनित्यसमा” इति ॥
एतच्च सर्वमसमंजसमित्याह;निषेधस्य तथोक्तस्यासिद्धिप्राप्तेः समत्वतः । पक्षणासिद्धिमाप्तेनेत्यशेषमसमंजसं ॥ ४२४ ॥ पक्षस्य हि निषेधस्य प्रतिपक्षोभिलप्यते । निषेधो धीधनैरत्र तस्यैव विनिवर्तकः ॥ ४२५ ॥ प्रतिज्ञानादियोगस्तु तयोः साधयेमिष्यते । सर्वत्रासंभवात्तेन विना पक्षविपक्षयोः ॥४२६॥ ततोसिद्धिर्यथा पक्षे विपक्षेपि तथास्तु सा । नो चेदनित्यता शब्दे घटवन्नाखिलार्थगा ॥४२७ दृष्टांतेपि च यो धर्मः साध्यसाधनभावतः । प्रज्ञायते स एवात्र हेतुरुक्तोर्थसाधनः ॥४२८॥ तस्य केनचिदर्थेन समानत्वात्सधर्मता । केनचित्तु विशेषात्स्याद्वैधर्म्यमिति निश्चयः॥४२९॥ हेतुर्विशिष्टसाधर्म्य न तु साधर्म्यमात्रकं । साध्यसाधनसामर्थ्यभागयं न च सर्वगः ॥४३०॥ सत्त्वेन च सधर्मत्वात् सर्वस्यानित्यतेरणे । दोषः पूर्वोदितो वाच्यः साविशेषः समाश्रयः४३१ तेन प्रकारेणोक्तो यो निषेधस्तस्याप्यसिद्धिप्रसक्तेरसमंजसमशेषं स्यादित्यनित्यसमवादिनः । कुत इति चेत् , पक्षणासिद्धिं प्राप्तेन समानत्वात्प्रतिषेधस्येति । निषेधो ह्यत्र पक्षः प्रतिषेधस्तस्य प्रतिपक्षः कथ्यते धीमद्भिः प्रतिपक्ष इति प्रसिद्धिः, तयोश्च पक्षप्रतिपक्षयोः साधर्म्य प्रतिज्ञादिभिर्योग इष्यते तेन विना तयोः सर्वत्रासंभवात् । ततः प्रतिज्ञादियोगाद्यथा पक्षस्यासिद्धिस्तथा प्रतिपक्षस्याप्यस्तु ! अथ सत्यपि साधम्र्ये पक्षप्रतिपक्षयोः पक्षस्यैवासिद्धिर्न प्रतिपक्षस्येति मन्यते तर्हि घटेन साधर्म्यात्कृतकत्वादेः शब्दस्यानित्यतास्तु । सकलार्थगत्वं नित्यता तेन साधर्म्यमात्रात् मा भूदिति समंजसं । अपि च, दृष्टांते घटादौ यो धर्मः साध्यसाधनभावेन प्रज्ञायते कृतकत्वादिः स एवात्र सिद्धिहेतुः साध्यसाधनोभिहितस्तस्य च केनचिदर्थेन सपक्षेण समानत्वात्साधर्म्य केनचिद्विपक्षणासमानत्वाद्वैधर्म्यमिति निश्चयो न्यायविदां । ततो विशिष्टसाधर्म्यमेव हेतुः साध्यसाधनसामर्थ्यभाक् । स च न सर्वार्थेष्वनित्यत्वे साध्ये संभवतीति न सर्वगतः । सर्वे भावाः क्षणिकाः सत्त्वादिति संभवत्येवेति चेत् न, अन्वयासंभवाव्यतिरेकानिश्चयात् । किं च, न सत्त्वेन साधर्म्यात्सर्वस्य पदार्थस्यानित्यत्वसाधने सर्वो अविशेषसमाश्रयो दोषः पूर्वोदितो वाच्यः । सर्वस्यानित्यत्वं साधयन्नेव शब्दस्यानित्यत्वं प्रतिषेधतीति कथं वस्थ इत्यादिः । तन्नेयमनित्यसमा जातिरविशेषसमातो भिद्यमानापि कथंचिदुपपत्तिमतीति ।।
अनित्यः शब्द इत्युक्ते नित्यत्वप्रत्यवस्थितिः । जातिनित्यसमा वक्तुरज्ञानात्संप्रवर्तते ॥४३२।। शब्दाश्रयमनित्यत्वं नित्यं वानित्यमेव वा । नित्ये शब्दोपि नित्यं स्यात्तदाधारोऽन्यथा क तत्४३३ तत्रानित्येप्ययं दोषः स्यादनित्यत्वविच्युतौ । नित्यं शब्दस्य सद्भावादित्येतद्धि न संगतम्४३४ अनित्यत्वप्रतिज्ञाने तनिषेधविरोधतः । स्वयं तदप्रतिज्ञानेप्येष तस्य निराश्रयः ॥ ४३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org