________________
३०९
प्रथमोऽध्यायः । सर्वदा किमनित्यत्वमिति प्रश्नोप्यसंभवी । प्रादुर्भूतस्य भावस्य निरोधिश्च तदिष्यते ॥४३६॥ नाश्रयाश्रयिभावोपि व्याघातादनयोः सदा । नित्यानित्यत्वयोरेकवस्तुनीष्टौ विरोधतः॥४३७ ततो नानित्यता शब्दे नित्यत्वप्रत्यवस्थितिः । परैः शक्या निराकर्तुं वाचालैर्जयलोलुपैः ४३८ अथ कार्यसमा जातिरभिधीयते;प्रयत्नानेककार्यत्वाजातिः कार्यसमोदिता । त्रिप्रयत्नोद्भवत्वेन शब्दानित्यत्वसाधने ॥४३९॥ प्रयत्नानंतरं तावदात्मलाभः समीक्षितः । कुंभादीनां तथाव्यक्तिर्व्यवधानेप्यपोहनात् ॥४४०॥ तद्बुद्धिलक्षणात् पूर्व सतामेवेत्यनित्यता । प्रयत्नानंतरं भावान शब्दसाविशेषतः ॥ ४४१॥ तत्रोत्तरमिदं शब्दः प्रयत्नानंतरोद्भवः । प्रागदृष्टिनिमित्तस्याभावेप्यनुपलब्धितः ।। ४४२ ॥ सत्याभावादभूत्वास्य भावो जन्मैव गम्यते । नाभिव्यक्तिः सतः पूर्व व्यवधानाव्यपोहनात्४४३ अनैकांतिकता हेतोरेवं चेदुपपद्यते । प्रतिषेधेपि सा तुल्या ततोऽसाधक एव सः ॥ ४४४ ॥ विधाविव निषेधेपि समा हि व्यभिचारिता । विशेषस्योक्तितश्चायं हेतो>पो निवारितः४४५ एवं भेदेन निर्दिष्टा ज्ञातयो""दिष्ट । ये चतुर्विंशतिरन्यानंता बोध्यास्तथा बुधैः ॥ ४४६ ॥ नैताभिर्निग्रहो वादे सत्यसाधनवादिनः । साधनाभं बुवाणस्तु तत एव निगृह्यते ॥ ४४७॥ निग्रहाय प्रकल्प्यंते त्वेता जल्पवितंडयोः । जिगीषया प्रवृत्तानामिति यौगाः प्रचक्षते ॥४४८ तत्रेदं दुर्घटं तावज्जातेः सामान्यलक्षणं । साधयेणेतरेणापि प्रत्यवस्थानमीरितम् ॥ ४४९ ॥ साधनाभप्रयोगेपि तजातित्वप्रसंगतः । दूषणाभासरूपस्य जातित्वेन प्रकीर्तने ॥ ४५० ॥ अस्तु मिथ्योत्तरं जातिरकलंकोक्तलक्षणा ।
युक्तं तावदिह यदनंता जातय इति वचनं तथेष्टत्वादसदुत्तराणामानंत्यप्रसिद्धेः । संक्षेपतस्तु विशेषेण चतुर्विंशतिरित्ययुक्तं, जात्यंतराणामपि भावात् । तेषामाखेवांतर्भावाददोष इति चेत् न, जातिसामान्यलक्षणस्य तत्र दुर्घटत्वात् । साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिरित्येतद्धि सामान्यलक्षणं जातेरुदीरितं योगैस्तच्च न सुधटं, साधनाभासप्रयोगेपि साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य जातित्वप्रसंगात् । तथेष्टस्वान्न दोष इत्येके । तथाहि-असाधौ साधने प्रयुक्ते यो जातीनां प्रयोगः सोनभिज्ञतया वा साधनदोषः स्यात्, तद्दोषप्रदर्शनार्थत्वाप्रसंगव्याजेनेति । तदप्ययुक्तं । खयमुद्योतकरेण साधनाभासे प्रयुक्ते जातिप्रयोगस्य निराकरणात् । जातिवादी हि साधनाभासमेतदिति प्रतिपद्यते वा न वा ? यदि प्रतिपद्यते एवास्य साधनाभासत्वहेतुदोषोनेन प्रतिपन्नः स एव वक्तव्यो न जातिः, प्रयोजनाभावात् । प्रसंगव्याजेन दोषप्रदर्शनत्वमिति चायुक्तं, अनर्थसंशयात् । यदि हि परेण प्रयुक्तायां जातौ साधनाभासबाधा स्वप्रयुक्तसाधनदोषं पश्यन् सभायामेवं ब्रूयात् मया प्रयुक्ते साधने अयं दोषः स च परेण नोद्भावितः किं तु जातिरुद्भावितेति, तदापि न जातिवादिनो जयः प्रयोजनं स्यात् , उभयोरज्ञानसिद्धेः । नापि साम्यं प्रयोजनं सर्वथा जयस्यासंभवे तस्याभिप्रेतत्वादेकांतपराजयाद्वरं संदेह इति वचनात् । यदा तु साधनाभासवादी स्वसाधनदोषं प्रच्छाद्य युक्तां जातिमेवोद्भावयति तदापि न तस्य जयः प्रयोजनं साम्यं वा पराजयस्यैव तथा संभवात् । अथ साधनदोषमनवबुध्यमानो जातिं प्रयुक्त तदा निःप्रयोजनो जातिप्रयोगः स्यात् । यत्किचन वदतोपि तूष्णीभावतोपि वा साम्यप्रातिभैर्व्यवस्थापनाद्वयोरज्ञानस्य निश्चयात् । एवं तर्हि साधुसाधने प्रयुक्ते यत्परस्य साधाभ्यां प्रत्यवस्थानं दूषणाभास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org