________________
३१०
तत्त्वार्थश्लोकवार्तिके
[तत्त्वार्था० रूपं तज्जातेः सामान्यलक्षणमस्तु निरवद्यत्वादिति चेत् , मिथ्योत्तरं जातिरित्येतावदेव जातिलक्षणमकलंकप्रणीतमस्तु किमपरेण । “तत्र मिथ्योत्तरं जातियथानेकांतविद्विषाम्" इति वचनात् ॥ तथासति अव्याप्तिदोषस्यासंभवान्निरवद्यमेतदेवेत्याह;सांकर्यात् प्रत्यवस्थानं यथानेकांतसाधने । यथा वैयधिकर्येण विरोधेनानवस्थया ॥ ४५१॥ . भिन्नाचारतया ताभ्यां दोषाभ्यां संशयेन च। अप्रतीत्या तया भावेनान्यथा वा यथेच्छया४५२ वस्तुतस्तादृशैर्दोषैः साधनाप्रतिघाततः । सिद्धं मिथ्योत्तरत्वं नो निरवद्यं हि लक्षणम्।।४५३।। न चैवं परलक्षणस्याव्याप्तिदोषाभाव इत्याह;परोक्तं पुनरव्याप्तिप्रोक्तेष्वेतेष्वसंभवात् । ततो न निग्रहस्थानं युक्तमेतदिति स्थितम् ॥४५४॥
परोक्तं पुनर्जातिसामान्यलक्षणमयुक्तमेव, संकरव्यतिकरविरोधानवस्थावैयधिकरण्योभयदोषसंशयाप्रतीत्यभावादिभिः प्रत्यवस्थानेषु तस्यासंभवात् । ततो न निग्रहस्थानमेतद्युक्तं तात्त्विके वादे, प्रतिज्ञाहान्यादिवच्छलवदसाधनांगदोषोद्भावनवच्चेति ॥
तथा च तात्त्विको वादः स्वेष्टसिद्ध्यवसानभाक । पक्षे पतत्वयुक्त्यैव नियमानुपपत्तितः ४५५
एवं तावत्तात्त्विको वादः खाभिप्रेतपक्षसिद्धिपर्यंतभावावस्थितः पक्षेयत्तायाः कर्तुमशक्तेनियमानुपपत्तितश्च न सकलपक्षसिद्धिपर्यंतः कस्यचिजयो व्यवस्थितः ।। सांप्रतं प्रातिभे वादे निग्रहव्यवस्थां दर्शयति;
यस्तूक्तः प्रातिभो वादः संप्रातिभपरीक्षणः । निग्रहस्तत्र विज्ञेयः स्वप्रतिज्ञाव्यतिक्रमः ॥ ४५६ ॥ यथा पद्यं मया वाच्यमाप्रस्तुतविनिश्चयात् । सालंकारं तथा गद्यमस्खलद्रूपमित्यपि ॥ ४५७ ।। पंचावयववाक्यं वा त्रिरूपं वान्यथापि वा।। निर्दोषमिति वा संधास्थलभेदं तमूह्यते ॥ ४५८ ॥ तथा संगरहान्यादिनिग्रहस्थानतोप्यसौ । छलोक्क्या जातिवाच्यत्वात्तथा संधाव्यतिक्रमात् ॥ ४५९ ॥ यथा द्यूतविशेषादौ स्वप्रतिज्ञाक्षतेर्जयः । लोके तथैव शास्त्रेषु वादे प्रातिभगोचरे ॥ ४६० ॥ द्विप्रकारं ततो जल्पात्तत्त्वप्रातिभगोचरात् । नान्यभेदप्रतिष्ठानं प्रक्रियामात्रघोषणात् ॥ ४६१ ॥ सोऽयं जिगीषुबोधाय वादन्यायः सतां मतं । प्रकर्तव्यो बुवाणेन नयवाक्यैर्यथोदितैः ॥ ४६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org