________________
१६८
तत्त्वार्थश्लोकवार्तिके
[सू०१० . अर्थग्रहणयोग्यत्वमात्मनश्चेतनात्मकम् । सन्निकर्षः प्रमाणं नः कथंचित्केन वार्यते ॥ १२ ॥ तथापरिणतो ह्यात्मा प्रमिणोति स्वयं स्वभुः । यदा तदापि युज्येत प्रमाणं कर्तसाधनम् ॥१३
संनिकर्षः प्रमाणमित्येतदपि न स्याद्वादिना वार्यते कथंचित्तस्य प्रमाणत्वोपगमे विरोधाभावात् । पुंसोऽर्थग्रहणयोग्यत्वं सन्निकर्षो न पुनः संयोगादिरिष्टः । न ह्यर्थग्रहणयोग्यतापरिणतस्यात्मनः प्रमाणत्वे कश्चिद्विरोधः कर्तृसाधनस्य प्रमाणस्य तथैव च घटनात् । प्रमात्रात्मकं च स एव प्रमाणमिति चेत् ,' प्रमातृप्रमाणयोः कथंचित्तादात्म्यात् ॥ प्रमाता भिन्न एवात्मप्रमाणाद्यस्य दर्शने । तस्यान्यात्मा प्रमाता स्यात् किन भेदाविशेषतः॥१४॥ प्रमाणं यत्र संबद्धं स प्रमातेति चेन किम् । कायः संबद्धसद्भावात्तस्य तेन कथंचन ॥ १५॥ प्रमाणफलसंबंधो प्रमातैतेन दूषितः । संयुक्तसमवायस्य सिद्धेः प्रमितिकाययोः ॥१६॥ ज्ञानात्मकप्रमाणेन प्रमित्या चात्मनः परः । समवायो न युज्येत तादात्म्यपरिणामतः॥१७॥ ततो नात्यंतिको भेदः प्रमातुः स्वप्रमाणतः । वासंनिर्णीतरूपायाः प्रमितेश्च फलात्मनः १८ तथा च युक्तिमत्प्रोक्तं प्रमाणं भावसाधनम् । सतोपि शक्तिभेदस्य पर्यायार्थादनाश्रयात्॥१९॥
सर्वथा प्रमातुः प्रमितिप्रमाणाभ्यामभेदादेवं तद्विभागः कल्पितः स्यान्न पुनर्वास्तव इति न मंतव्यं, कथंचिद्भेदोपगमात् । सर्वथा तस्य ताभ्यां भेदादुपचरितं प्रमातुः प्रमितिप्रमाणत्वं न तात्त्विकमित्यपि न मंतव्यं कथंचित्तदभेदस्यापीष्टेः । तथाहि;
स्यात्प्रमाता प्रमाणं स्यात्प्रमितिः स्वप्रमेयवत् । एकांताभेदभेदौ तु प्रमात्रादिगतौ क नः २० एकस्यानेकरूपत्वे विरोधोपि न युज्यते । मेचकज्ञानवत्प्रायश्चिंतितं चैतदंजसा ॥ २१॥
यथैव हि मेचकज्ञानस्यैकस्यानेकरूपमविरुद्धबाधितप्रतीत्या रूढत्वात् तथात्मनोपि तदविशेषात् । न ह्ययमात्मार्थग्रहणयोग्यतापरिणतः सन्निकर्षाख्यं प्रतिपद्यमानोप्रबाधप्रतीत्यारूढो न भवति येन कथंचिप्रमाणं न स्यात् । नाप्ययमव्यापृतावस्थोऽर्थग्रहणव्यापारांतरवार्थविदात्मको न प्रतिभाति येन कथंचिअमितिर्न भवेत् । म चायं प्रमितिप्रमाणाभ्यां कथंचिदर्थीतरभूतः खतंत्रो न चकास्ति येन प्रमाता न स्यात् ॥
संयोगादि पुनर्येन सन्निकर्षोभिधीयते । तत्साधकतमत्वस्य भावात्तस्याप्रमाणता ॥ २२ ॥ सतींद्रियार्थयोस्तावत्संयोगेनोपजायते । स्वार्थप्रमितिरेकांतव्यभिचारस्य दर्शनात् ॥ २३॥ क्षितिद्रव्येण संयोगो नयनादेर्यथैव हि । तस्य व्योमादिनाप्यस्ति न च तज्ज्ञानकारणम् ॥२४ संयुक्तसमवायश्च शब्देन सह चक्षुषः । शब्दज्ञानमकुवोणो रूपचिचक्षुरेव किम् ॥ २५ ॥ संयुक्तसमवेतार्थसमवायोप्यभावयन् । शब्दत्वस्य न नेत्रेण बुद्धिं रूपत्ववित्करः ॥ २६ ॥ श्रोत्रस्यायेन शब्देन समवायश्च तद्विदम् । अकुर्वन्न त्वशब्दस्य ज्ञानं कुर्यात्कथं तु वः ॥२७॥ तस्यैवादिमशब्देषु शब्दत्वेन समं भवेत् । समवेतसमवायं सद्विज्ञानमनादिवत् ॥ २८ ॥ अंत्यशब्देषु शब्दत्वे ज्ञानमेकांततः कथम् । विदधीत विशेषस्याभावे यौगस्य दर्शने ॥२९॥ तथागतस्य संयुक्तविशेषणतया दृशा । ज्ञानेनाधीयमानेपि समवायादिवित्कुतः ॥ ३० ॥ योग्यतां कांचिदासाद्य संयोगादिरयं यदि । क्षित्यादिवित्तदेव स्यात्तदा नैवास्तु संमता ॥३१ खात्मा स्वावृतिविच्छेदविशेषसहितः कचित् । संविदं जनयनिष्टः प्रमाणमविगानतः ॥३२॥ शक्तिरिंद्रियमित्येतदनेनैव निरूपितं । योग्यताव्यतिरेकेण सर्वथा तदसंभवात् ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org