________________
१६७
प्रथमोऽध्यायः । प्रतीतौ प्रत्यक्षमिति मतं व्याहतं । ततः खरूपेण स्पष्टप्रतिभासमानत्वात् करणज्ञानमात्मा वा प्रत्यक्षः स्याद्वादिनां सिद्धः फलज्ञानवत् ॥
ज्ञानं ज्ञानांतराद्वेद्यं स्वात्मज्ञप्तिविरोधतः । प्रमेयत्वाद्यथा कुंभ इत्यप्यश्लीलभाषितम् ॥५१॥ ज्ञानांतरं यदा ज्ञानादन्यस्मात्तेन विद्यते । तदानवस्थितिप्राप्तेरन्यथा ह्यविनिश्चयात् ।। ५२ ॥ अर्थज्ञानस्य विज्ञानं नाज्ञातमवबोधकम् । ज्ञापकत्वाद्यथा लिंगं लिंगिनो नान्यथा स्थितिः५३
न ह्यर्थज्ञानस्य विज्ञानं परिच्छेदकं कारकं येनाज्ञातमपि ज्ञानांतरेण तस्य ज्ञापकं स्यात् अनवस्थापरिहारादिति चिंतितप्रायम् ॥ प्रधानपरिणामत्वात् सर्व ज्ञानमचेतनम् । सुखक्ष्मादिवदित्येकप्रतीतेरपलापिनः ॥ ५४॥ चेतनात्मतया वित्तेरात्मवत्सर्वदा धियः । प्रधानपरिणामत्वासिद्धेश्चेति निरूपणात् ॥ ५५ ॥ तत्स्वार्थव्यवसायात्मज्ञानं चेतनमंजसा । सम्यगित्यधिकाराच्च संमत्यादिकभेदभृत् ॥५६॥
तत्प्रमाणे ॥ १०॥ कुतः पुनरिदमभिधीयते;स्वरूपसंख्ययोः केचित्प्रमाणस्य विवादिनः । तत्प्रत्याह समासेन विदधत्तद्विनिश्चयम् ॥१॥ तदेव ज्ञानमास्थेयं प्रमाणं नेंद्रियादिकम् । प्रमाणे एव तद् ज्ञानं वैकत्र्यादिप्रमाणवित् ॥ २॥
प्रमाणं हि संख्यावन्निर्दिष्टमत्र तत्त्वसंख्यावद्विवचनान्न प्रयोगात् । तत्र तदेव मत्यादिपंचभेदं सम्यग्ज्ञानं प्रमाणमित्येकं वाक्यमिंद्रियाद्यचेतनव्यवच्छेदेन प्रमाणवरूपनिरूपणपरं । तन्मत्यादिज्ञानं पंचविधं प्रमाणे एवेति द्वितीयमेकच्यादिसंख्यांतरव्यवच्छेदेन संख्याविशेषव्यवस्थापनप्रधानमित्यतः सूत्राप्रमाणस्य खरूपसंख्याविवादनिराकरणपुरःसरनिश्चयविधानात् इदमभिधीयत एव ॥
ननु प्रमीयते येन प्रमाणं तदितीरणम् । प्रमाणलक्षणस्य स्यादिद्रियादेः प्रमाणता ॥३॥ तत्साधकतमत्वस्याविशेषात्तावता स्थितिः। प्रामाण्यस्यान्यथा ज्ञान प्रमाणं सकलं न किम् ४
इंद्रियादिप्रमाणमिति साधकतमत्वाल्लुप्रतीतौ विशेषेण ज्ञानवत् यत्पुनरप्रमाणं तन्न साधकतमं यथा प्रमेयमचेतनं चेतनं वा शशधरद्वयविज्ञानमिति प्रमाणत्वेन साधकतमत्वं व्याप्तं न पुननित्वमज्ञानत्वं वा तयोः सद्भावेपि प्रमाणत्वानिश्चयादिति कश्चित् ॥ तत्रेदं चिंत्यते तावदिंद्रियं किमु भौतिकम् । चेतनं वा प्रमेयस्य परिच्छित्तौ प्रवर्तते ॥५॥ न तावद्भौतिकं तस्याचेतनत्वाद् घटादिवत् । मृतद्रव्येद्रियसापि तत्र वृत्तिप्रसंगतः ॥६॥ प्रमात्राधिष्ठितं तच्चेत्तत्र वर्तेत नान्यथा । किं न खापाद्यवस्थायां तदधिष्ठानसिद्धितः ॥ ७॥ आत्मा प्रयत्नवांस्तस्याधिष्ठानानाप्रयत्नकः । खापादाविति चेत्कोयं प्रयत्नो नाम देहिनः॥८॥ प्रमेये प्रमितावाभिमुख्यं चैतदचेतनम् । यद्यकिंचित्करं तत्र पटवत् किमपेक्षते ॥९॥ चेतनं चैतदेवास्तु भावेंद्रियमवाधितम् । यत्साधकतमं वित्तौ प्रमाणं स्वार्थयोरिह ॥ १० ॥ एतेनैवोत्तरः पक्षः चिंतितः संप्रतीयते । ततो नाचेतनं किंचित्प्रमाणमिति संस्थितम् ॥११॥
प्रमीयतेऽनेनेति प्रमाणमिति करणसाधनत्वविवक्षायां साधकतमं प्रमाणमित्यभिमतमेव अन्यथा तस्य करणत्वायोगात् । केवलमर्थप्रमितौ साधकतमत्वमेवाचेतनस्य कस्यचिन्न संभावयाम इति भावेंद्रियं चेतनात्मकं साधकतमत्वात् प्रमाणमुपगच्छामः । न चैवमागमविरोधः प्रसज्यते, "लब्ध्युपयोगौ भावेंद्रियं" इति वचनात् उपयोगस्यार्थग्रहणस्य प्रमाणत्वोपपत्तेः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.