________________
१६६ तत्त्वार्थ श्लोकवार्तिके
[सू०९ प्रत्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् । प्रत्यात्मवेद्यमाहंति तत्परोक्षत्वकल्पनाम् ॥ ३६ ॥
साक्षात्प्रतिभासमानं हि प्रत्यक्षं खस्मिन् विज्ञानमनुमेयमपरत्र व्याहारादेरिति प्रत्यात्मवेद्यं सर्वस्य ज्ञानपरोक्षत्वकल्पनामाहत्येव ॥ किंच
विज्ञानस्य परोक्षत्वे प्रत्यक्षोर्थः स्वतः कथम् । सर्वदा सर्वथा सर्वः सर्वस्य न तथा भवेत ३७
ग्राहकपरोक्षत्वेपि सर्वदा सर्वथा सर्वस्य पुंसः कस्यचिदेव खतः प्रत्यक्षोर्थ कश्चित्कदाचित्कथंचिदिति व्याहततरां ॥
ततः परं च विज्ञानं किमर्थमुपकल्प्यते । कादाचित्कत्वसियर्थमर्थज्ञप्तेने सा परा ॥ ३८ ॥ विज्ञानादित्यनध्यक्षात् कुतो विज्ञायते परैः । लिंगाचेत्तत्परिच्छित्तिरपि लिंगांतरादिति ॥३९ कावस्थानमनेनैव तत्रार्थापत्तिराहता । अविज्ञातस्य सर्वस्य ज्ञापकत्वविरोधतः ॥ ४०॥
खतः प्रत्यक्षादर्थात्परं विज्ञानं किमर्थ चोपकल्पित इति च वक्तव्यं परैः कादाचित्कत्वसिद्ध्यर्थमर्थज्ञप्तेरिति चेत् , उच्यते । न सा पूर्वा विज्ञानात् ततो नाध्यक्षा सती कुतो विज्ञातव्या ? लिंगाचेत्तत्परिच्छित्तिरपि लिंगांतरादेव इत्येतदुपस्थापनविरोधाविशेषात् । अर्थापत्त्यंतरात्तस्य ज्ञानेनवस्थानात् । एतेनोपमानादेस्तद्विज्ञानेप्यनवस्थानमुक्तं सादृश्यादेरज्ञातस्योपमानाधुपजनकत्वासंभवात् ज्ञानेप्युपमानांतरादिपरिकल्पनस्यावश्यं भावित्वात् । तदेवं प्रमाणविरुद्धं संविदंतोऽनात्मज्ञा एव ॥ ज्ञाताहं बहिरर्थस्य सुखादेश्चेति निर्णयात् । स्वसंवेद्यत्वतः पुंसो न दोष इति चेन्मतम् ॥४१॥
खसंवेद्यांतरादन्यद्विज्ञानं किं करिष्यते । करणेन विना कर्तुः कर्मणि व्यावृतिने चेत् ॥४२॥ खसंवित्तिक्रिया न स्यात् स्वतः पुंसोर्थवित्तिवत् । यदि स्वात्मा स्वसंवित्तावात्मनः करणं मतम् ४३ स्वार्थवित्तौ तदेवास्तु ततो ज्ञानं स एव नः ।
न सर्वथा प्रतिभासरहितत्वात् परोक्षं ज्ञानं करणत्वेन प्रतिभासनात् । केवलं कर्मत्वेनाप्रतिभासमानत्वात् परोक्षं तदुच्यत इति कश्चित् तं प्रत्युच्यते
कर्मत्वेनापरिच्छित्तिरप्रत्यक्षं यदीष्यते । ज्ञानं तदा परो न स्यादध्यक्षस्तत एव ते ॥४४॥ यदि पुनरात्मा कर्तृत्वेनेव कर्मत्वेनापि प्रतिभासतां विरोधाभावादेव । ततः प्रत्यक्षमस्तु अर्थों अनंशत्वान्न ज्ञानं करणं कर्म च विरोधादित्याकूतं, तत एवात्मा कर्ता कर्म च मा भूदित्यप्रत्यक्ष एव स्यात् ॥
तथास्त्विति मतं ध्वस्तप्रायं न पुनरस्य ते । स्वविज्ञानं ततोध्यक्षमात्मवदवतिष्ठते ॥ ४५ ॥
अप्रत्यक्षः पुरुष इति मतं प्रायेणोपयोगात्मकालप्रकरणे निरस्तमिति नेह पुनर्निरस्यते । ततः प्रत्यक्ष एष कथंचिदात्माभ्युपगंतव्यः । तद्विज्ञानं प्रत्यक्षमिति व्यवस्था श्रेयसी प्रतीत्यनतिक्रमात् ॥
प्रत्यक्षं वफलज्ञानं करणं ज्ञानमन्यथा । इति प्राभाकरी दृष्टिः स्वेष्टव्याघातकारिणी ॥४६॥ कर्मत्वेन परिच्छित्तेरभावो ह्यात्मनो यथा । फलज्ञानस्य तद्वच्चेत्कुतस्तस्य समक्षता ॥४७॥ तत्कर्मत्वपरिच्छित्तौ फलज्ञानांतरं भवेत् । तत्राप्येवमतो न स्यादवस्थानं कचित्सदा ॥४८॥ फलत्वेन फलज्ञाने प्रतीते चेत्समक्षता । करणत्वेन तद्द्वाने कर्तृत्वेनात्मनीप्यताम् ॥ ४९ ॥ तथा च न परोक्षत्वमात्मनो न परोक्षता । करणात्मनि विज्ञाने फलज्ञानत्ववेदिनः ॥५०॥ साक्षात्करणज्ञानस्य करणत्वेनात्मनि खकर्तृत्वेन प्रतीतावपि न प्रत्यक्षता, फलज्ञानस्य फलस्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org