________________
प्रथमोऽध्यायः ।
१६५
न ह्युपादानोपादेयभावः कथंचिद्भेदमंतरेण मतिश्रुतपर्याययोर्घटते यतोस्य विरुद्धसाधनत्वं न भवेत् कथंचिदेकत्वस्य साधने तु न किंचिदनिष्टम् ॥
गोचराभेदतश्चेन्न सर्वथा तदसिद्धितः । श्रुतस्यासर्व पर्यायद्रव्यग्राहित्ववाच्यपि ॥ २८ ॥ केवलज्ञानवत्सर्वतत्त्वार्थग्राहितास्थितेः । मतेस्तथात्वशून्यत्वादन्यथा स्वमतक्षतेः ॥ २९ ॥ “मतिश्रुतयोर्निबंधो द्रव्येष्वसर्व पर्यायेषु" इति वचनाद्गोचराभेदस्ततस्तयोरेकत्वमिति न प्रतिपत्तव्यं सर्वथा तदसिद्धेः । श्रुतस्यासर्वपर्यायद्रव्यग्राहित्ववचनेपि केवलज्ञानवत्सर्वतत्त्वार्थग्राहित्ववचनात् । " स्याद्वाद - केवलज्ञाने सर्वतत्त्वप्रकाशने " इति तद्व्याख्यानात् । न मतिस्तस्यार्थित्वात्मिकायाः स्वार्थानुमानात्मिकायाश्च तथाभावरहितत्वात् । न हि यथा श्रुतमनंतव्यंजन पर्यायसमाक्रांतानि सर्वद्रव्याणि गृह्णाति तथाभावरहितत्वात् । स्वमतसिद्धांतेऽस्याः वर्णसंस्थानादिस्तोकपर्यायविशिष्टद्रव्य विषयतया प्रतीतेः । स्वमतविरोधोपि तस्यान्यथैवावतारात् तयोरसर्वपर्यायद्रव्यविषयत्वमात्रमेव हि खसिद्धांते प्रसिद्धं न पुनरनंत व्यंजनपर्यायाशेषद्रव्यविषयत्वमिति तद्व्याख्यानमप्यविरुद्धमेव बाधकाभावादिति न विषयाभेदस्तदेकत्वस्य साधकः ॥
इंद्रियानिंद्रियायत्तवृत्तित्वमपि साधनम् । न साधीयोप्रसिद्धत्वाच्छ्रुतस्याक्षानपेक्षणात् ॥ ३० ॥ मतिश्रुतयोरेकत्व मंद्रियानिंद्रियायत्तवृत्तित्वादित्यपि न श्रेयः साधनमसिद्धत्वात् साक्षादक्षानपेक्षत्वाच्छ्रुतस्य, परंपरया तु तस्याक्षानपेक्षत्वं भेदभावनमेव साक्षादक्षापेक्षयोर्विरुद्धधर्माध्याससिद्धेः ॥ नानिंद्रियनिमित्तत्वादीहनश्रुतयोरिह । तादात्म्यं बहुवेदित्वाच्छ्रुतस्येहाव्यपेक्षया ॥ ३१ ॥ अवग्रहग्रहीतस्य वस्तुनो भेदमीहते । व्यक्तमीहा श्रुतं त्वर्थान् परोक्षान् विविधानपि ॥ ३२ ॥ न हि यादृशमनिंद्रियनिमित्तत्वमीहायास्तादृशं श्रुतस्यापि । तन्निमित्तत्वमात्रं तु न तयोस्तादात्म्यगमकमविनाभावाभावात् सत्त्वादिवत् । केचिदाहुर्मतिश्रुतयोरेकत्वं श्रवणनिमित्तत्वादिति, तेपि न युक्तिवादिनः । श्रुतस्य साक्षाच्छ्रवणनिमित्तत्वासिद्धेः तस्यानिंद्रियवत्त्वादृष्टार्थसजातीयविजातीयनानार्थपरामर्शनखभावतया प्रसिद्धत्वात् । श्रुतावधारणाद्ये तु श्रुतं व्याचक्षते न ते तस्य श्रोत्रमतेर्भेदं प्रख्यापयितुमीशते । श्रुतावधारणाच्छ्रुतमित्याचक्षाणाः शब्दं श्रुत्वा तस्यैवावधारणं श्रुतं संप्रतिपन्नास्तदर्थस्यावधारणं तदिति प्रष्टव्याः । प्रथमकल्पनायां श्रुतस्य श्रवणमतेरभेदप्रसंगोऽशक्यप्रतिषेधः, द्वितीयकल्पनायां तु श्रोत्रमतिपूर्वमेव श्रुतं स्यान्नेद्रियांतरमंतिपूर्वं ॥ तथाहि
1
शब्दं श्रुत्वा तदर्थानामवधारणमिष्यते । यैः श्रुतं तैर्न लभ्येत नेत्रादिमतिजं श्रुतम् ॥ ३३ ॥ यदि पुना रूपादीनुपलभ्य तदविनाभाविनामर्थानामवधारणं श्रुतमित्यपीष्यते श्रुत्वावधारणात् श्रुतमित्यस्य दृष्ट्वावधारणात् श्रुतमित्याद्युपलक्षणत्वादिति मतं तदा न विरोधः प्रतिपत्तिगौरवं न स्यात् । न चैवमपि मतेः श्रुतस्याभेदः सिद्ध्येत् तल्लक्षणभेदाच्चेत्युपसंहर्तव्यम् ॥
तस्मान्मतिः श्रुताद्भिन्ना भिन्नलक्षणयोगतः । अवध्यादिवदर्थादिभेदाच्चेति सुनिश्चितम् ||३४|| यथैव ह्यवधिमनःपर्ययकेवलानां परस्परं मतेः स्खलक्षणभेदोर्थभेदः कारणादिभेदश्च सिद्धस्तथा श्रुतस्यापीति युक्तं तस्य मतेर्नानात्वमवध्यादिवत् । ततः सूक्तं मत्यादिज्ञानपंचकम् ॥
सर्वज्ञानमनध्यक्षं प्रत्यक्षोर्थः परिस्फुटः । इति केचिदनात्मज्ञाः प्रमाणव्याहतं विदुः ।। ३५ ।। परोक्षा नो बुद्धिः प्रत्यक्षोर्थः स हि बहिर्देश संबंध: प्रत्यक्षमनुभूयत इति केचित् संप्रतिपन्नास्तेप्यनात्मज्ञा प्रमाणव्याहताभिधायित्वात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org