________________
१६४ तत्त्वार्थश्लोकवार्तिके
[सू०९ संज्ञानमेव तानीति परमादवधारणात् । तेषामज्ञानतापास्ता मिथ्यात्वोदयसंसृता ॥ १७ ॥
न ह्यत्र पूर्वापरावधारणयोरन्योन्यं विरोधोस्त्येकतरव्यवच्छेद्यस्यान्यतरेणानपहरणात् । नापि तयोरन्यतरस्य वैयर्थ्यमेकतरसाध्यव्यवच्छेद्यस्याम्यतरेणासाध्यत्वादित्यविरोध एव ।। किं पुनरत्र मतिग्रहणात् सूत्रकारेण कृतमित्याह;--- मतिमात्रग्रहादत्र स्मृत्यादेओनता गतिः । तेनाक्षमतिरेवैका ज्ञानमित्यपसारितम् ॥ १८ ॥ . सानुमा सोपमाना च सार्थापत्त्यादिकेत्यपि । संवादकत्वतस्तस्याः संज्ञानत्वाविरोधतः॥१९॥
अक्षमतिरेवैका सम्यग्ज्ञानमगौणत्वात् प्रमाणस्य नानुमानादि ततोर्थनिश्चयस्य दुर्लभत्वादिति केषांचिदर्शनं । सानुमानसहिता सम्यग्ज्ञानं खसामान्यलक्षणयोः प्रत्यक्षपरोक्षयोरर्थयोः प्रत्यक्षानुमानाभ्यामवगमात् ताभ्यां तत्परिच्छित्तौ प्रवृत्तौ प्राप्तौ च विसंवादाभावादित्यन्येषां । सैवानुमानोपमानसहिता सम्यग्ज्ञानं, उपमानाभावे तथा चात्र धूम इत्युपनयस्यानुपपत्तेरिति परेषां । सैवानुमानोपमानार्थापत्त्यभावसहितागमसहिता च सम्यग्ज्ञानं तदन्यतमापायेापरिसमाप्तेरितीतरेषां । तन्मतिमात्रग्रहणादपसारितं । ततः स्मृत्यादीनां सम्यग्ज्ञानतावगमात् तथावधारणाविरोधात् । न च तासां प्रमाणत्वं विरुद्धं संवादकत्वाद् । दृष्टप्रमाणागृहीतग्रहणादप्रमाणत्वमितिचेन्न, इष्टप्रमाणस्याप्यप्रमाणत्वप्रसंगादिति चेतयिष्यमाणत्वात् ॥
श्रुता वाचात्र किं कृतमित्याह;श्रुतस्याज्ञानतामिच्छंस्तद्वाचैव निराकृतः । स्वार्थेक्षमतिवत्तस्य संविदित्वेन निर्णयात् ॥ २०॥
न हि श्रुतज्ञानमप्रमाणं कचिद्विसंवादादिति ब्रुवाणः स्वस्थः प्रत्यक्षादेरप्यप्रमाणत्वापत्तेः । संवादकत्वात्तस्य प्रमाणत्वे तत एव श्रुतं प्रमाणमस्तु । न हि ततोथै परिच्छिद्य प्रवर्तमानोर्थक्रियायां विसंवाद्यते प्रत्यक्षानुमानत इव श्रुतस्याप्रमाणतामिच्छन्नेव श्रुतवचनेन निराकृतो द्रष्टव्यः ॥
अत्रावध्यादिवचनात् किं कृतमित्याह;जिघ्रत्यतींद्रियज्ञानमवध्यादिवचोबलात् । प्रत्याख्यातसुनिर्णीतबाधकत्वेन तद्गतेः ॥ २१ ॥ सिद्धे हि केवलज्ञाने सर्वार्थेषु स्फुटात्मनि । कार्येन रूपिषु ज्ञानेष्ववधिः केन वाध्यते॥२२ परिचित्तागतेष्वर्थेष्वेवं संभाव्यते न किम् । मनःपर्ययविज्ञानं कस्यचित्प्रस्फुटाकृतिः ॥२३॥ स्वल्पज्ञानं समारभ्य प्रकृष्टज्ञानमंतिमम् । कृत्वा तन्मध्यतो ज्ञानतारतम्यं न हन्यते ॥ २४ ॥
न ह्येवं संभाव्यमानमपि युक्त्यागमाभ्यामवध्यादिज्ञानत्रयमतींद्रियं प्रत्यक्षेण बाध्यते तस्य तदविषयत्वाच्च । नाप्यनुमाने, नार्थापत्त्यादिभिर्वा तत एवेत्यविरोधः सिद्धः ॥ ___ कश्चिदाह, मतिश्रुतयोरेकत्वं साहचर्यादेकत्रावस्थानादविशेषाचेति तद्विरुद्धं साधनं तावदाह;
न मतिश्रुतयोरैक्यं साहचर्यात्सहस्थितेः । विशेषाभावतो नापि ततो नानात्वसिद्धितः ॥२५॥
साहचर्यादिसाधनं कथंचिन्नानात्वेन व्याप्तं सर्वथैकत्वे तदनुपपत्तेरिति तदेव साधयेन्मतिश्रुतयोर्न पुनः सर्वथैकत्वं तयोः कथंचिदेकत्वस्य साध्यत्वे सिद्धसाध्यतानेनैवोक्ता ॥
साहचर्यमसिद्धं च सर्वदा तत्सहस्थितिः । नैतयोरविशेषश्च पर्यायार्थनयार्पणात् ॥ २६ ॥
सामान्यार्पणायां हि मतिश्रुतयोः साहचर्यादयो न विशेषार्पणायां पौर्वापर्यादिसिद्धेः । कार्यकारणभावादेकत्वमनयोरेवं स्यादितिचेत् न, ततोपि कथंचिद्भेदसिद्धेस्तदाह;
कार्यकारणभावात्स्यात्तयोरेकत्वमित्यपि । विरुद्ध साधनं तस्य कथंचिद्भेदसाधनात् ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org