________________
प्रथमोऽध्यायः ।
१६३
ज्ञानशब्दस्य संबंधः प्रत्येकं भुजिवन्मतः । समूहो ज्ञानमित्यस्यानिष्टार्थस्य निवृत्तये ॥ १५ ॥
मत्यादीनि ज्ञानमित्यनिष्टार्थो न शंकनीयः प्रत्येकं ज्ञानशब्दस्याभिसंबंधाद्भुजिवत् । न चायमयुक्तिकः, सामान्यस्य खविशेषव्यापित्वात् सुवर्णत्वादिवत् । यथैव सुवर्णविशेषेषु कटकादिषु सुवर्णसामान्यं प्रत्येकमभिसंबध्यते कटकं सुवर्णं कुंडलं सुवर्णमिति । तथा मतिर्ज्ञानं श्रुतं ज्ञानं अवधिर्ज्ञानं मनःपर्ययो ज्ञानं * केवलं ज्ञानमित्यपि विशेषाभावात् सामान्यबहुत्वमेवं स्यादिति चेत्, कथंचिन्नानिष्टं सर्वथा सामान्यैकत्वेअनेकत्वखाश्रयै सकृद्वृत्तिविरोधादेकपरमाणुवत् । क्रमशस्तत्र तद्वृत्तौ सामान्याभावप्रसंगात् सकृदनेकाश्रयवर्तिनः सामान्यस्योपगमात् । न चैकस्य सामान्यस्य कथंचिद्बहुत्वमुपपत्तिविरुद्धं बहुव्यक्तितादात्म्यात् । यमात्मानं पुरोधाय तस्य व्यक्तिस्तादात्म्यं यं च तादात्म्यं तौ चेद्भिन्नौ भेद एव, नो चेदभेद एवेत्यपि वाणो अनभिज्ञ एव । यमात्मानमासृत्य भेदः संव्यवह्रियते स एव हि भेदो नान्यः, यं चात्मानमवलंब्याभेदव्यवहारः स एवाभेद इति तत्प्रतिपत्तौ कथंचिद्भेदाभेदौ प्रतिपन्नावेव तदप्रतिपत्तौ किमाश्रयोऽयमु पालंभः स्यात् प्रतिपत्तिविषयः । पराभ्युपगमाश्रय इति चेत् स यदि तवात्रा सिद्धः कथमाश्रयितव्यः । अथ सिद्धः कथमुपालंभो विवादाभावात् । अथ परस्य वचनादभ्युपगमः सिद्धः स तु सम्यग्मिथ्या चेति विषादसद्भावादुपालंभः श्रेयान् दोषदर्शनात् । गुणदर्शनात् क्वचित्समाधानवदिति चेत्, कस्य पुनर्दोषस्यात्र दर्शनं ? अनवस्थानस्येति चेन्न, तस्य परिहृतत्वात् । विरोधस्येति चेन्न, प्रतीतौ सत्यां विरोधस्यानवता - रात् । संशयस्येति चेन्न, चलनाभावात् । वैयधिकरण्यापि न दर्शनं सामान्यविशेषात्मनोनेकाधिकरणतयाबसायात् । संकरव्यतिकरयोरपि न तत्र दर्शनं तद्व्यतिरेकेणैव प्रतीतेः । मिथ्याप्रतीतिरियमिति चेन्न, सकलबाधकाभावात् । विशेषमात्रस्य सामान्यमात्रस्य वा परिच्छेदकप्रत्ययः बाधकमिति चेन्न, तस्य जातुचित्तदपरिच्छेदित्वात् सर्वजात्यंतरस्य सामान्यविशेषात्मनो वस्तुनस्तत्र प्रतिभासनात् । प्रत्यक्षपृष्ठभाविनि विकल्पे तथा प्रतिभासनं न प्रत्यक्षे निर्विकल्पात्मनीति चेन्न, तस्यासिद्धत्वात् सर्वथा निर्विकल्पस्य निराकरिष्यमाणत्वात् । अनुमानं बाधकमिति चेन्न, तस्य निर्विशेषमात्रग्राहिणो भावात् सामान्यमात्रमाहिवत् । सामान्यविशेषात्मन एव जात्यंतरस्यानुमानेन व्यवस्थितेः । यथा हि । सामान्यविशेषात्मकमखिलं वस्तु, वस्त्वन्यथानुपपत्तेः । वस्तुत्वं हि तावदर्थक्रियाव्याप्तं सा च क्रमयौगपद्याभ्यां, ते स्थिति पूर्वापरभावत्यागोपादानाभ्यां ते च सामान्यविशेषात्मकत्वेन सामान्यात्मनोपाये स्थित्यसंभवात् विशेषात्मनोसंभवे पूर्वापरखभावत्यागोपादानस्यानुपपत्तेः । तदभावे क्रमयौगपद्ययोगादनयोरर्थक्रियानवस्थितेः न कस्यचित्सामान्यैकांतस्य विशेषैकांतस्य वा वस्तुत्वं नाम खरविषाणवत् । न हि सामान्यं विशेषनिरपेक्षं कांचिदप्यर्थक्रियां संपादयति, नापि विशेषः सामान्यनिरपेक्षः, सुवर्णसामान्यस्य कटकादिविशेषाश्रयस्यैवार्थक्रियायामुपयुज्यमानत्वात् कटकादिविशेष्यं च सुवर्णसामान्यानुगतस्यैवेति सकलाविकलजनसाक्षिकमवसीयते । तद्वदिह ज्ञानसामान्यस्य मत्यादिविशेषाक्रांतस्य स्वार्थक्रियायामुपयोगो मत्यादिविशेषस्य च ज्ञानसामान्यान्वितस्येति युक्ता ज्ञानस्य मत्यादिषु प्रत्येकं परिसमाप्तिः । ततश्च मत्या - दिसमूहो ज्ञानमित्यनिष्टोर्थो निवर्तितः स्यात् । कुतोयमर्थोनिष्ठः ? केवलस्य मत्यादिक्षयोपशमिकज्ञानचतुष्टयासंपृक्तस्य ज्ञानत्वविरोधात् । मत्यादीनां चैकशः सोपयोगानामुक्तज्ञानांतरासंपृक्तानां ज्ञानत्वव्याघातात् तस्य प्रतीतिविरोधाच्चेति निश्चीयते । किं मतिश्रुतावधिमनः पर्ययकेवलान्येव ज्ञानमिति पूर्वावधारणं द्रष्टव्यं तानि ज्ञानमेवेति परावधारणं वा तदुभयमविरोधादित्याह ;
मत्यादीन्येव संज्ञानमिति पूर्वावधारणात् । मत्यज्ञानादिषु ध्वस्तसम्यग्ज्ञानत्वमुह्यते ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org