________________
१६२ तत्त्वार्थश्लोकवार्तिके
[सू०९ सामान्येन विशेषेण च यथा सत्त्वेनाधिगम्यते संख्यादिभिश्च तथा संक्षेपेणाजीवादयोपीहैव । व्यासेन तु गत्यादिमार्गणासु सामान्यतो विशेषतश्च जीववदजीवादयोऽन्यत्र कीर्तिता विज्ञातव्याः॥
इत्युद्दिष्टौ त्र्यात्मके मुक्तिमार्गे सम्यग्दृष्टेर्लक्षणोत्पत्तिहेतून् । तत्त्वन्यासौ गोचरस्याधिगंतुं हेतु नानीतिकश्चानुयोगः ॥१॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ।
मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥ किमर्थमिदं सूत्रमाहेत्युच्यतेअथ स्वभेदनिष्ठस्य ज्ञानस्येह प्रसिद्धये । प्राह प्रवादिमिथ्याभिनिवेशविनिवृत्तये ॥१॥
न हि ज्ञानमन्वयमेवेति मिथ्याभिनिवेशः कस्यचिन्निवर्तयितुं शक्यो विना मत्यादिभेदनिष्ठसम्यग्ज्ञाननिर्णयात् तदन्यमिथ्याभिनिवेशवत् । न चैतस्मात्सूत्रादृते तन्निर्णय इति सूक्तमिदं संपश्यामः ॥
किं पुनरिह लक्षणीयमित्युच्यतेज्ञानं संलक्षितं तावदादिसूत्रे निरुक्तितः । मत्यादीन्यत्र तद्भेदाल्लक्षणीयानि तत्त्वतः ॥२॥
न हि सम्यग्ज्ञानमत्र लक्षणीयं तस्यादिसूत्रे ज्ञानशब्दनिरुक्त्यैवाव्यभिचारिण्या लक्षितत्वात् तद्भेदमासृत्य मत्यादीनि तु लक्ष्यंते तन्निरुक्तिसामर्थ्यादिति बुध्यामहे । कथं ? मत्यावरणविच्छेदविशेषान्मन्यते यथा । मननं मन्यते यावत्स्वार्थे मतिरसौ मता ॥३॥ श्रुतावरणविश्लेषविशेषाच्छ्रवणं श्रुतम् । शृणोति स्वार्थमिति वा श्रूयतेस्मेति वागमः ॥४॥ अवध्यावृतिविध्वंसविशेषादवधीयते । येन स्वार्थोवधानं वा सोवधिनियतः स्थितिः ॥५॥ यन्मनःपर्ययावारपरिक्षयविशेषतः । ................(2)मनः पर्येति योपि वा ॥६॥ स मनःपर्ययो ज्ञेयो मनोन्नार्था मनोगताः । परेषां स्वमनो वापि तदालंबनमात्रकम् ॥ ७॥ क्षायोपशमिकज्ञानासहायं केवलं मतम् । यदर्थमर्थिनो मार्ग केवंते वा तदिष्यते ॥ ८ ॥ मत्यादीनां निरुक्त्यैव लक्षणं सूचितं पृथक् । तत्प्रकाशकसूत्राणामभावादुत्तरत्र हि ॥९॥ यथादिसूत्रे ज्ञानस्य चारित्रस्य च लक्षणम् । निरुक्तेर्व्यभिचारे हि लक्षणांतरसूचनम् ॥१०॥
न मत्यादीनां निरुक्तिस्तल्लक्षणं व्यभिचरति ज्ञानादिवत् न च तदव्यभिचारेपि तल्लक्षणप्रणयनं युक्तमतिप्रसंगात् सूत्रातिविस्तरप्रसक्तिरिति संक्षेपतः सकललक्षणप्रकाशनावहितमनाः सूत्रकारो न निरुक्तिलभ्ये लक्षणे यत्नांतरमकरोत् ॥ .
खतत्त्वाल्पाक्षरत्वाभ्यां विषयाल्पत्वतोपि च । मतेरादौ वचो युक्तं श्रुतात्तस्य तदुत्तरम् ॥११॥ मतिसंपूर्वतः साहचर्यात् मत्या कथंचन । प्रत्यक्षत्रितयस्यादाववधिः प्रतिपाद्यते ॥ १२ ॥ सर्वस्तोकविशुद्धित्वात्तुच्छत्वाचावधिध्वनेः । ततः परं पुनर्वाच्यं मनःपर्ययवेदनम् ॥ १३ ॥ विशुद्धतरतायोगात्तस्य सर्वावधेरपि । अंते केवलमाख्यातं प्रकर्षातिशयस्थितेः ॥ १४ ॥ तस्य निर्वृत्त्यवस्थायामपि सद्भावनिश्चयात् ।
न हि सूत्रेस्मिन्मत्यादिशब्दानां पाठक्रमे यथोक्तहेतुभ्यः शब्दार्थन्यायाश्रयेभ्योऽन्येपि हेतवः किं नोक्ता इति पर्यनुयोगः श्रेयांस्तदुक्तावप्यन्ये किन्नोक्ता इति पर्यनुयोगस्यानिवृत्तेः कुतश्चित्कस्यचित्कचित्संप्रतिपत्तौ तदर्थहेत्वंतरावचनमिति समाधानमपि समानमन्यत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org