________________
"प्रथमोऽध्यायः ।
१६९
सन्निकर्षस्य योग्यताख्यस्य प्रमितौ साधकतमस्य प्रमाणव्यपदेश्यं प्रतिपाद्यमानस्य खावरणक्षयोपशमविशिष्टात्मरूपतानिरूपणेनैव शक्तेः । इंद्रियतयोपगतायास्सा निरूपिता बोद्धव्या तस्या योग्यतारूपत्वात् । ततो व्यतिरेकेण सर्वथाप्यसंभवात् सन्निकर्षवत् । न हि तव्यतिरेकः सन्निकर्षः संयोगादिः खार्थप्रमितौ साधकतमः संभवति व्यभिचारात् । तत्र करणत्वात्सन्निकर्षस्य साधकतमत्वं तद्वदिंद्रियशक्ति, रपीतिचेत् , कुतस्तत्करणत्वं ? साधकतमत्वादिति चेत् परस्पराश्रयदोषः । तद्भावाभावयोस्तद्वत्तासिद्धः साधकतमत्वमित्यपि न साधीयोऽसिद्धत्वात् । खार्थप्रमितेः सन्निकर्षादिसद्भावेप्यभावात् , तदभावेपि च भावात् सर्वविदः कथं वा प्रमातुरेवं साधकतमत्वं न स्यात् । न हि तस्य भावाभावयोः प्रमितेर्भावाभाववत्त्वं नास्ति ? साधारणस्यात्मनो नास्त्येवेति चेत् संयोगादेरिंद्रियस्य च साधारणस्य सा किमस्ति ? तस्यासाधारणस्यास्त्येवेति चेत् , आत्मनोप्यसाधारणस्यास्तु । प्रमातुः किमसाधारणत्वमितिचेत् , सन्निकर्षादेः किम् ? विशिष्टप्रमितिहेतुत्वमेवेतिचेत् , प्रमातुरपि तदेव तस्य सततावस्थायित्वात् । सर्वप्रमितिसाधारणकारणत्वसिद्धेर्न संभवतीति चेत् , तर्हि कालांतरस्थायित्वात्संयोगादेरिंद्रियस्य च तत्साधारणकारणत्वं कथं न सिद्धयेत् ? तदसंभवनिमित्तं यदा प्रमित्युत्पत्ती व्याप्रियते तदैव सन्निकर्षादि तत्कारणं नान्यदा इत्यसाधारणमिति चेत् , तर्हि यदात्मा तत्र व्याप्रियते तदैव तत्कारणं नान्यदा इत्यसाधारणो हेतुरस्तु । तथा सति तस्य नित्यत्वापत्तिरिति चेत् नो दोषोयं, कथंचित्तस्या नित्यत्वसिद्धेः सन्निकर्षादिवत् । सर्वथा कस्यचिन्नित्यत्वेऽर्थक्रियाविरोधादित्युक्तप्रायं ।।
प्रमाणं येन सारूप्यं कथ्यतेऽधिगतिः फलम् । सन्निकर्षः कुतस्तस्य न प्रमाणत्वसंमतः॥३४॥
सारूप्यं प्रमाणमस्याधिगतिः फलं संवेदनस्यार्थरूपतामुक्तार्थेन घटयितुमशक्तेः । नीलस्येदं संवेदनमिति निराकारसंविदः केनचित्प्रत्यासत्तिविप्रकर्षे सिद्धे सर्वार्थेन घटनप्रसक्तेः सर्वेकवेदनापत्तेः । सर्वैकवेदनापत्तेः करणादेः सर्वार्थसाधारणत्वेन तत्प्रतिनियमनिमित्ततानुपपत्तेरित्यपि येनोच्यते तस्य सन्निकर्षः प्रमाणमधिगतिः फलं तस्मादतरेणार्थघटनासंभवात् साकारस्य समानार्थसकलवेदनसाधारणत्वात् केनचिप्रत्यासत्तिविप्रकर्षे सिद्धे सकलसमानार्थेन घटनप्रसक्तेः सर्वसमानार्थंकवेदनापत्तेः, तदुत्पत्तेरिंद्रियादिना व्यभिचारान्नियामकत्वायोगात् । तदव्यवसायस्य मिथ्यात्वसमनंतरप्रत्ययेन कुतश्चित् सिते शंखे पीताकारज्ञानजनितापरपीताकारज्ञानस्य तजन्मादिरूपसद्भावेपि तत्र प्रमाणत्वाभावादिति कुतो न संमतं । सत्यपि सन्निकर्षेधिगतेरभावान्न प्रमाणमिति चेत् ;
सन्निकर्षे यथा सत्यप्याधिगतिशून्यता । सारूप्येपि तथा सेष्टा क्षणभंगादिषु स्वयम् ॥३५॥ __ यथा चक्षुरादेराकाशादिभिः सत्यपि संयोगादौ सन्निकर्षे तदधिगतेरभावस्तथा क्षणक्षयवर्गप्रापणशक्त्यादिभिर्दानादिसंवेदनस्य सत्यपि सारूप्ये तदधिगतेः शून्यता खयमिष्टैव तदालंबनप्रत्ययत्वेपि तस्य तच्छून्यत्वतावत् । “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति वचनात् । ततो नायं सन्निकर्षवादिनमतिशेते ॥ किं च
स्वसंविदप्रमाणत्वं सारूप्येण विना यदि । किं नार्थवेदनस्येष्टं पारंपर्यस्य वर्जनात् ॥ ३६ ॥ सारूप्यकल्पने तत्राप्यनवस्थोदिता न किम् । प्रमाणं ज्ञानमेवास्तु ततो नान्यदिति स्थितम् ॥३७ - खसंविदः स्वरूपे प्रमाणत्वं नास्त्येवान्यत्रोपचारादित्ययुक्तं सर्वथा मुख्यप्रमाणाभावप्रसंगात् स्वमतविरोधात् । प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनमिति वचनात् मुख्यप्रमाणाभावे न खमतविरोध: सौगतस्येति चेत् , स्यादेवं । यदि मुख्यं प्रमाणमयं न वदेत् "अज्ञातार्थप्रकाशो वा स्वरूपाधिगते
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org