________________
१७० तत्त्वार्थश्लोकवार्तिके
[सू०१० परं" इति संवेदनाद्वैताश्रयणात् । तदपि न च । तदित्येवेति चेत् न तस्य निरस्तत्वात् । किं चेदं संवेदनं सत्यं प्रमाणमेव मृषासत्यमप्रमाणं । न हि न प्रमाणं नाप्यसत्यं । सर्वविकल्पातीतत्वात् संवेदनमेवेति चेत् सुव्यवस्थितं तत्त्वं । को हि सर्वथानवस्थितात्खरविषाणादस्य विशेषः । खयं प्रकाशमानत्वमितिचेत् तद्यदि परमार्थसत् प्रमाणत्वमन्वाकर्षति । ततो द्वयं संवेदनं यथाखरूपे केनचितदतत्स्वरूपमपि प्रमाणं तथा हि बहिरर्थे किं न भवेत् तस्य तव्यभिचारिणो निराकर्तुमशक्तेः । पारंपर्यं च परिहृतमेव स्यात् संविदर्थयोरंतराले सारूपस्याप्रवेशात् । यदि पुनः संवेदनस्य स्वरूपसारूप्यं प्रमाणं सारूप्याधिगतिः फलमिति परिकल्प्यते तदानवस्थोदितैव । ततो ज्ञानादन्यदिद्रियादिसारूप्यं न प्रमाणमन्यत्रोपचारादिति स्थितं ज्ञानं प्रमाणमिति ॥
मिथ्याज्ञानं प्रमाणं न सम्यगित्यधिकारतः । यथा यत्राविसंवादस्तथा तत्र प्रमाणता ॥३८॥
यदि सम्यगेव ज्ञानं प्रमाणं तदा चंद्रद्वयादिवेदनं वावल्यादौ प्रमाणं कथमुक्तमिति न चोद्यं, तत्र तस्याविवादात् सम्यगेतदिति खयमिष्टेः । कथमियमिष्टिरविरुद्धेति चेत्, सिद्धांताविरोधात्तथा प्रतीतेश्च ॥ स्वार्थे मतिश्रुतज्ञानं प्रमाणं देशतः स्थितं । अवध्यादि तु कायेन केवलं सर्ववस्तुषु ॥३९।।
खस्मिन्नर्थे च देशतो ग्रहणयोग्यतासद्भावात् मतिश्रुतयोर्न सर्वथा प्रामाण्यं, नाप्यवधिमनःपर्यययोः सर्ववस्तुषु केवलस्यैव तत्र प्रामाण्यादिति सिद्धांताविरोध एव "यथा यत्राविसंवादस्तथा तत्र प्रमाणता" इति वचनस्य प्रत्येयः । प्रतीत्यविरोधस्तूच्यते
अनुपप्लतदृष्टीनां चंद्रादिपरिवेदनम् । तत्संख्यादिषु संवादि न प्रत्यासन्नतादिषु ॥ ४० ॥ तथा ग्रहोपरागादिमात्रे श्रुतमवाधितम् । नांगुलिद्वितयादौ तन्मानभेदेऽन्यथा स्थिते ॥४१॥
एवं हि प्रतीतिः सकलजनसाक्षिका सर्वथा मतिश्रुतयोः खार्थे प्रमाणतां हंतीति तया तदेतत्प्रमाणमबाधम् ॥
ननूपप्लतविज्ञानं प्रमाणं किं न देशतः । स्वनादाविति नानिष्टं तथैव प्रतिभासनात् ॥ ४२ ॥ खप्नाद्युपप्लुतविज्ञानस्य क्वचिदविसंवादिनः प्रामाण्यस्येष्टौ तव्यवहारः स्यादितिचेत् ;प्रमाणव्यवहारस्तु भूयः संवादमाश्रितः । गंधद्रव्यादिवद्भूयो विसंवादं तदन्यथा ॥ ४३ ॥
सत्यज्ञानस्यैव प्रमाणत्वव्यवहारो युक्तिमान् भूयः संवादात् । वितथज्ञानस्यैव वाप्रमाणत्वव्यवहारो भूयो विसंवादात् तदाश्रितत्वात्तव्यवहारस्य । दृष्टो हि लोके भूयसि व्यपदेशो यथा गंधादिना गंधद्रव्यादेः सत्यपि स्पर्शवत्त्वादौ ।
येषामेकांततो ज्ञानं प्रमाणमितरच न । तेषां विप्लतविज्ञानप्रमाणेतरता कुतः॥४४॥
अथायमेकांतः सर्वथा वितथज्ञानमप्रमाणं सत्यं तु प्रमाणमिति चेत् तदा कुतो वितथवेदनस्य स्वरूपे प्रमाणता बहिरर्थे त्वप्रमाणतेति व्यवतिष्ठेत् ॥
स्वरूपे सर्वविज्ञानप्रमाणत्वे मतक्षतिः । बहिर्विकल्प विज्ञानप्रमाणत्वे प्रमांतरम् ॥ ४५ ॥
न हि सत्यज्ञानमेव स्वरूपे प्रमाणं न पुनर्मिथ्याज्ञानमिति युक्तं । नापि सर्वं तत्र प्रमाणमिति सर्वचित्तचैतानामात्मसंवेदनं प्रत्यक्षमिति खमतक्षतेः सर्व मिथ्याज्ञानं विकल्पविज्ञानमेव बहिरर्थे प्रमाणं खरूपवदित्यप्ययुक्तं, प्रकृतप्रमाणाप्रमाणांतरसिद्धिप्रसंगात् । तिमिराश्वभ्रमणनौयातसंक्षोभायाहितविभ्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org