________________
प्रथमोऽध्यायः।
१७१ मस्य वेदनस्य प्रत्यक्षत्वे प्रत्यक्षमभ्रांतमिति विशेषणानर्थक्यं । तस्याप्यभ्रांततोपगमे कुतो विसंवादित्वं विकल्पज्ञानस्य च प्रत्यक्षत्वे कल्पनापोढं प्रत्यक्षमिति विरुध्यते तस्यानुमानत्वे प्रमाणांतरत्वमनिवार्यमिति मिथ्याज्ञानं खरूपे प्रमाणं बहिरर्थे त्वप्रमाणमित्यभ्युपगंतव्यं । तथा च सिद्धं देशतः प्रामाण्यं । तद्वदवितथवेदनस्यापीति सर्वमनवा एकत्र प्रमाणत्वाप्रमाणत्वयोः सिद्धिः । कथमेकमेव ज्ञानं प्रमाणं ,वाप्रमाणं च विरोधादिति चेत् नो, असिद्धत्वाद्विरोधस्य । तथाहि;
न चैकत्र प्रमाणत्वाप्रमाणत्वे विरोधिनी । प्रत्यक्षत्वपरोक्षत्वे यथैकत्रापि संविदि ॥ ४६॥
ययोरेकसद्भावेऽन्यतरानिवृत्तिस्तयोर्न विरोधो यथा प्रत्यक्षत्वपरोक्षत्वयोरेकस्यां संविदि । तथा च प्रमाणत्वाप्रमाणत्वयोरेकत्र ज्ञाने ततो न विरोधः ॥
खसंविन्मात्रतोध्यक्षा यथा बुद्धिस्तथा यदि । वेद्याकारविनिर्मुक्ता तदा सर्वस्य बुद्धता ॥ ४७ तया यथा परोक्षत्वं हृत्संवित्तेरतोपि चेत् । बुद्धादेरपि जायेत जाड्यं मानविवर्जितम् ॥४८॥
न हि सर्वस्य बुद्धता बुद्धादेरपि च जाड्यं सर्वथेत्यत्र प्रमाणमपरस्यास्ति यतः संविदाकारेणेव वेद्याकारविवेकेनापि संवेदनस्य प्रत्यक्षता युज्येत तद्वदेव वा संविदाकारेण परोक्षता तदयोगे च कथं दृष्टांतः साध्यसाधन विकलः हेतुर्वा न सिद्धः स्यात् ॥
यैव बुद्धेः स्वयं वित्तिवेद्याकारविमुक्तता । सैवेत्यध्यक्षतैवेष्टा तस्यां किमपरोक्षता ॥ ४९ ॥ बुद्धेः खसंवित्तिरेव वेद्याकारविमुक्तता तया प्रत्यक्षतायां वेद्याकारविमुक्तयापि प्रत्यक्षतैव यदीष्यते तदा तस्याः परोक्षतायां स्वसंवित्तेरपि परोक्षता किं नेष्टा ? खसंवित्तिवेद्याकारविमुक्तयोस्तादात्म्याविशेषात् ।। ननु च केवलभूतलोपलब्धिरेव घटानुपलब्धिरिति घटानुपलब्धितादात्म्येपि न केवलभूतलोपलब्धेरनुपलब्धिरूपतास्ति तद्वद्वेद्याकारविमुक्त्यनुपलब्धितादात्म्येपि न खरूपोपलब्धेरनुपलब्धिखभावता व्यापकस्य व्याप्याव्यभिचारात् व्याप्यस्यैव व्यापकव्यभिचारसिद्धेः पादपत्वशिशिपात्ववत् खरूपोपलब्धिमानं हि व्याप्यं व्यापिका च वेद्याकारमुक्तानुपलब्धिरिति चेत् नैतदेवं तयोः समव्याप्तिकत्वेन परस्पराव्यभिचारसिद्धेः कृतकत्वानित्यवत् । न हि वेद्याकारविवेकानुपलब्धावपि कचित्संवेदने कदाचित्वरूपोपलब्धिर्नास्ति ततः प्रत्यक्षत्वात् स्वसंवेदनादभिन्नो ग्राह्याकारविवेकः प्रत्यक्षो न पुनः परोक्षाद्वाह्याकारविवेकादभिन्नं खसंवेदनं बुद्धेः परोक्षमित्याचक्षाणो न परीक्षाक्षमः प्रत्यक्षत्वपरोक्षत्वयोभिन्नाश्रयत्वान्न तादात्म्यमिति चेन्न एकज्ञानाश्रयत्वात्तदसिद्धेः । संविन्मात्रविषया प्रत्यक्षता वेद्याकारविवेकविषया परोक्षतेति तयोभिन्नविषयत्वे कथं खसंविप्रत्यक्षतैव वेद्याकारविवेकपरोक्षता खसंवेदनस्यैव वेद्याकारविवेकरूपत्वादितिचेत् , कथमेवं प्रत्यक्षपरोक्षत्वयोभिन्नाश्रयत्वं धर्मिधर्मविभेदविषयत्व. कल्पनादितिचेत् तर्हि परमार्थतस्तयोभिन्नाश्रयत्वमिति संविन्मात्रप्रत्यक्षत्वे वेद्याकारविवेकस्य प्रत्यक्षत्वमायातं तथा तस्य परोक्षत्वे संविन्मात्रस्य परोक्षतापि किं न स्यात् । तत्र निश्चयोत्पत्तः प्रत्यक्षतेति चेत्, वेद्याकारविवेकनिश्चयानुपपत्तेः परोक्षतैवास्तु । तथा चैकत्र संविदि सिद्धे प्रत्यक्षतरते प्रमाणेतरयोः प्रसारिके स्त इति न विरोधः ॥ सर्वेषामपि विज्ञानं स्ववेद्यात्मनि वेदकम् । नान्यवेद्यात्मनीति साद्विरुद्धाकारमंजसा ॥५०॥
सर्वप्रवादिनां ज्ञानं खविषयस्य खरूपमात्रस्योभयस्य वा परिच्छेदकं तदेव नान्यविषयस्येति सिद्धं विरुद्धाकारमन्यथा सर्ववेदनस्य निर्विषयत्वं सर्वविषयत्वं वा दुर्निवारं खविषयस्याप्यन्यविषयवदपरिच्छेदाखविषयवद्वान्यविषयावसायात् । खान्यविषयपरिच्छेदनापरिच्छेदनखभावयोरन्यतरस्यां परमार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org