________________
१७२ तत्त्वार्थश्लोकवार्तिके
[सू०१० तायामपीदमेव दूषणमुन्नेयमिति । परमार्थतस्तदुभयखभावविरुद्धमेकत्र प्रमाणेतरत्वयोरविरोधं साधयति ॥ किं च;
स्वव्यापारसमासक्तोन्यव्यापारनिरुत्सुकः । सर्वो भावः स्वयं वक्ति स्याद्वादन्यायनिष्ठताम् ५१ • सर्वोग्निसुखादिभावः खामर्थक्रियां कुर्वन् तदैवान्यामकुर्वन्ननेकांतं वक्तीति किं नश्चिंतया । स एव च प्रमाणेतरभावाविरोधमेकत्र व्यवस्थापयिष्यतीति सूक्तं “यथा यत्राविसंवादस्तथा तत्र प्रमाणता" इति ।।
चंद्रे चंद्रत्वविज्ञानमन्यत्संख्याप्रवेदनम् । प्रत्यासन्नत्वविच्चान्यत्वेकाद्याकारविन्न चेत् ॥५२॥ • हतं मेचकविज्ञानं तथा सर्वज्ञता कुतः । प्रसिधेदीश्वरस्येति नानाकारैकवित्स्थितिः ॥५३ ।।
एक एवेश्वरज्ञानस्याकारः सर्ववेदकः । तादृशो यदि संभाव्यः किं ब्रह्मैवं न ते मतम् ॥५४॥ तच्चेतनेतराकारकरंबितवपुः स्वयम् । भावैकमेव सर्वस्य संवित्तिभवनं परम् ॥ ५५ ॥
यद्यकस्य विरुध्येत नानाकारावभासिता । तदा नानार्थबोधोपि नैकाकारोवतिष्ठते ॥ ५६ ॥ : नाना ज्ञानानि नेशस्य कल्पनीयानि धीमता । क्रमात्सर्वज्ञताहानेरन्यथा ननु संधितः ॥५७।। .. तस्मादेकमनेकात्मविरुद्धमपि तत्त्वतः । सिद्धं विज्ञानमन्यच्च वस्तुसामर्थ्यतः स्वयम् ॥ ५८ ॥
नन्वेकमनेकात्मकं तत्त्वतः सिद्धं चेत् कथं विरुद्धमिति स्याद्वादविद्विषामुपालंभः क्वचित्तद्विरुद्धमुपलभ्य सर्वत्र विरोधमुद्भावयतां न पुनरबाध्यप्रतीत्यनुसारिणाम् ॥
प्रमाणमविसंवादि ज्ञानमित्युपवर्ण्यते । कैश्चित्तत्राविसंवादो यद्याकांक्षानिवर्तनम् ॥ ५९ ॥ . तदा स्वप्नादिविज्ञानं प्रमाणमनुषज्यते । ततः कस्यचिदर्थेषु परितोषस्य भावतः ॥ ६० ॥ .
न हि खप्तौ वेदनेनार्थ परिच्छिद्य प्रवर्तमानोर्थक्रियायामाकांक्षातो न निवर्तते प्रत्यक्षतोनुमानतो वा दहनाद्यवभासस्य दाहाद्यर्थक्रियोपजननसमर्थस्याकांक्षितदहनाद्यर्थप्रापणयोग्यताखभावस्य जाग्रद्दशायामिवानुभवात् । तादृशस्येवाकांक्षानिवर्तनस्य प्रमाणे प्रेक्षावद्भिरर्थ्यमानत्वात् । ततोतिव्यापि प्रमाणसामान्यलक्षणमिति आयातम् ॥ अर्थक्रिया स्थितिः प्रोक्ता विमुक्तिः सा न तत्रचेत् । शान्दादाविव तद्भावोस्त्वभिप्रायनिवेदनात् ६१ . नाकांक्षानिवर्तनमपि संवादनं । किं तर्हि ? अर्थक्रिया स्थितिः । सा चाविमुक्तिरविचलमनर्थक्रियायां । न च तत्वप्नादौ दहनाद्यवभासस्यास्तीति केचित् । तेषां गीतादिशब्दज्ञानं चित्रादिरूपज्ञानं वा कथं प्रमाणं तथा विमुक्तेरभावात् तदनंतरं कस्यचित्साध्यस्य फलस्यानुभवनात् । तत्रापि प्रतिपत्तुरभिप्रायनिवेदनात् साध्याविमुक्तिरितिचेत् , तर्हि निराकांक्षतैव स्वार्थक्रियास्थितिः खनादौ कथं न स्यात् । प्रबोधावस्थायां प्रतिपत्तुरभिप्रायचलनादितिचेत् , किमिदं तच्चलनं नाम ? धिङ्ग मिथ्या प्रतर्कितं मया इति प्रत्ययोपजननमिति चेत् , तत्वमादावप्यस्ति । न हि खप्नोपलब्धार्थक्रियायाश्चलनं जाग्रद्दशायां बाधकानुभवनमनुमन्यते, न पुनर्जाग्रद्दशोपलब्धार्थक्रियायाः स्वप्नादाविति युक्तं वक्तुं, सर्वथा विशेषाभावात् । स्वप्नादिषु बाधकप्रत्ययस्य सबाधत्वान्न तदनुभवनं तच्च फलमितिचेत् , कुतस्तस्य सबाधत्वसिद्धिः । कस्यचित्ताशस्य सबाधकत्वदर्शनादिचेत् , नन्वेवं जागबाधकप्रत्ययस्य कस्यचित्सबाधत्वदर्शनात् सर्वस्य सबाधत्वं सिद्ध्येत् । तस्य निर्वाधस्यापि दर्शनान्नैवमिति चेत् , सत्यस्वप्नजप्रत्ययस्य निर्बाधस्यावलोकनात्सर्वस्य तस्य सबाधत्वं. मा भूत् । तस्मादविचारितरमणीयत्वमेवाविचलनमर्थक्रियायाः संवादनमभिप्रायनिवेदनात् क्वचिदभ्युपगंतव्यं । ते च खप्नादावपि दृश्यंत इति तत्प्रत्ययस्य प्रामाण्यं दुर्निवारम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |