________________
प्रथमोऽध्यायः ।
१७३
ग्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् । ततोपर्यनुयोज्याश्वेत्तत्रैते व्यवहारिणः ॥ ६२ ॥ शास्त्रेण क्रियतां तेषां कथं मोहनिवर्तनम् । तदनिष्टौ तु शास्त्राणां प्रतीतिर्व्याहता न किम् ६३ व्यवहारेण प्रामाण्यस्योपगमात्तत्रापर्यनुयोज्या एव व्यवहारिणः । किं न भवंतः स्वप्नादिप्रत्ययस्य जाग्रत्प्रत्ययवत् प्रमाणत्वं व्यवहरति तद्वद्वादो जाग्रद्बोधस्याप्रमाणत्वमिति केवलं तदनुसारिभिस्तदनुरोधा'देव क्वचित्प्रमाणत्वमप्रमाणत्वं चानुमंतव्यमिति ब्रुवाणः कथं शास्त्रं मोहनिवर्तनमाचक्षीत न चेद्याक्षिप्तः । ये हि यस्यापर्यनुयोज्यास्तच्छास्त्रेण कथं तेषां मोहनिवर्तनं क्रियते । व्यवहारे मोहवत् क्रियत इति चेत् कुतस्तेषां विनिश्चयः ? प्रसिद्धव्यवहारातिक्रमादितिचेत् कोसौ प्रसिद्धो व्यवहारः ? सुगतशास्त्रोपदर्शित इति चेत् कपिलादिशास्त्रोपदर्शितः कस्मान्न स्यात् ? तत्र व्यवहारिणामननुरोधादिति चेत्, तर्हि यत एव व्यवहारिजनानां सुगतशास्त्रोक्तो व्यवहारः प्रसिद्धात्मा व्यवस्थित एवमतिक्रामतां तत्र मोहनिवर्तनं सिद्धमिति किं शास्त्रेण तदर्थेन तेन । तन्निवर्तनस्यानिष्टौ तु व्याहता शास्त्रप्रणीतिः किं न भवेत् ? ॥
I
युक्त्या यन्न घटामेति दृष्ट्वापि श्रदधे न तत् । इति ब्रुवन् प्रमाणत्वं युक्त्या श्रद्धातुमर्हति ॥ ६३ ॥ न केवलं व्यवहारी दृष्टं दृष्टमपि तत्त्वं युक्त्या श्रद्धातव्यं । सा च युक्ति: शास्त्रेण व्युत्पाद्यते । ततो शास्त्रप्रणीतिव्याहतेति ब्रुवन् कस्यचित्प्रमाणत्वं युक्त्यैव श्रद्धातुमर्हति ॥
तथासति प्रमाणस्य लक्षणं नावतिष्ठते । परिहर्तुमतिव्याप्तेरशक्यत्वात्कथंचन ॥ ६४ ॥
प्रमाणस्य हि लक्षणमविसंवादनं तच्च यथा सौगतैरुपगम्यते तथा युक्त्या न घटत एवातिव्याप्तेर्दुःपरिहरत्वादित्युक्तं स्वप्नादिज्ञानस्य प्रमाणत्वापादनात् ॥
क्षणक्षयादिबोधे विमुक्त्यभावाच्च दृष्यते । प्रत्यक्षेपि किमव्यात्या तदुक्तं नैव लक्षणम् || ६५ || क्षणिकेषु विभिन्नेषु परमाणुषु सर्वतः । संभवोप्यविमोक्षस्य न प्रत्यक्षानुमानयोः ॥ ६६ ॥ न हि वस्तुनः क्षणक्षये सर्वतो व्यावृत्तिर्न स परमाणुखभावे वा प्रत्यक्षमपि संवादलक्षणमविमोक्षाभावादित्युक्तं प्राक् । प्रत्यक्षानुमानयोर्वा विमोक्षस्यासंभवादव्यात्या वासंभवेन च तल्लक्षणं दूष्यत एव, ततोतिव्याप्त्यव्यात्यसंभवदोषोपद्रुतं न युक्तिमल्लक्षणमविसंवादनम् ॥
अज्ञातार्थप्रकाश लक्षणं परमार्थतः । गृहीतग्रहणान्न स्यादनुमानस्य मानता ॥ ६७ ॥ प्रत्यक्षेण गृहीतेपि क्षणिकत्वादिवस्तुनि | समारोपव्यवच्छेदात्प्रामाण्यं लैंगिकस्य चेत् ||६८॥ स्मृत्यादिवेदनस्यातः प्रमाणत्वमपीष्यताम् । मानद्वैविध्य विध्वंस निबंधनमवाधितम् ।। ६९ ।। मुख्यं प्रामाण्यमध्यक्षेऽनुमाने व्यावहारिकम् । इति ब्रुवन्न बौद्धः स्यात् प्रमाणे लक्षणद्वयम् ॥७० चार्वाकोपि ह्येवं प्रमाणद्वयमिच्छत्येव प्रत्यक्षमेकमेव प्रमाणमगौणत्वात् प्रमाणस्येति वचनादनुमानस्य गौणप्रामाण्यानिराकरणात् ॥
तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । प्रमाणमिति योप्याह सोप्येतेन निराकृतः ॥ ७१ ॥ गृहीतग्रहणाभेदादनुमानादि संविदः । प्रत्यभिज्ञाननिर्णीत नित्यशब्दादिवस्तुषु ।। ७२ ।। ( न प्रत्यभिज्ञाननिर्णीतेषु नित्येषु शब्दात्मादिष्वर्थेष्वनुमानादिसंविदः प्रवर्तते पिष्टपेषणवद्वैयर्थ्यादनवस्थाप्रसंगाच्च । ततो न गृहीतग्रहणमित्ययुक्तं, दर्शनस्य परार्थत्वादित्यादि शब्दानित्यत्वसाधनस्याभ्युपगमात् । तत एव तत्साधनं न पुनः प्रत्यभिज्ञानादित्यसारं, नित्यः शब्दः प्रत्यभिज्ञायमानत्वादित्यत्र हेत्वसिद्धिप्रसंगात् । प्रत्यभिज्ञायमानत्वं हि हेतुः तदा सिद्धः स्याद्यदा सर्वेषु प्रत्यभिज्ञानं प्रवर्तेत तच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org