________________
तत्त्वार्थश्लोकवार्तिके
[सू० १० प्रवर्तमानं शब्दनित्यत्वे प्रवर्तते न शब्दरूपमात्रे प्रत्यक्षत्ववदनेकांतार्थप्रसंगात् । यदि पुनः प्रत्यभिज्ञानान्नित्यशब्दादिसिद्धावपि कुतश्चित्समारोपस्य प्रसूतेस्तव्यवच्छेदार्थमनुमानं न पूर्वार्थमिति मतं तदा स्मृतितर्कादेरपि पूर्वार्थत्वं मा भूत् तत एव । तथा च वाभिमतप्रमाणसंख्याव्याघातः । कथं वा प्रत्यभिझानं गृहीतग्राहि प्रमाणमिष्टं तद्धि प्रत्यक्षमेव वा ततोऽन्यदेव वा प्रमाणं स्यात् ॥
प्रत्यक्षं प्रत्यभिज्ञा चेद्रहीतग्रहणं भवेत् । ततोन्यच्चेत्तथाप्येवं प्रमाणांतरता च ते ॥७३॥ । न ह्यननुभूतार्थे प्रत्यभिज्ञा सर्वथातिप्रसंगात् । नाप्यस्मर्यमाणे यतो ग्रहीतग्राहिणी न भवेत् ॥ प्रत्यक्षेणाग्रहीतेर्थे प्रत्यभिज्ञा प्रवर्तते । पूर्वोत्तरविवतैकग्राहाचेन्नाक्षजत्वतः ॥ ७४ ॥ पूर्वोत्तरावस्थयोर्यध्यापकमेकत्वं तत्र प्रत्यभिज्ञा प्रवर्तते न प्रत्यक्षेण परिच्छिन्नेवस्थामात्रे स्मर्यमाणेनुभूयमाने वा ततो न ग्रहीतग्राहिणी चेत् तत् नेन्द्रियजत्वात्तस्याः कथमन्यथा प्रत्यक्षतर्भावः । न चेंद्रियं पूर्वोत्तरावस्थयोरतीतवर्तमानयोः वर्तमाने तदेकत्वे प्रवर्तितुं समर्थ वर्तमानार्थग्राहित्वात् संबंध वर्तमानं च गृह्यते चक्षुरादिभिरिति वचनात् ॥
पूर्वोत्तरविवर्ताक्षज्ञानाभ्यां सोपजन्यते । तन्मात्रमितिचेत्केयं तद्भिनैकत्ववेदिनी ॥ ७५॥
न हि पूर्वोत्तरावस्थाभ्यां भिन्ने च सर्वथैकत्वे तत्परिच्छेदिभ्यामक्षज्ञानाभ्यां जन्यमानं प्रत्यभिज्ञानं प्रवर्तते स्मरणवत् संतानांतरैकत्ववद्वा ॥
विवर्ताभ्यामभेदश्चेदेकत्वस्य कथंचन । तद्राहिण्या:कथं न सात्पूर्वार्थत्वं स्मृतेरिव ॥ ७६ ॥
यद्यवस्थाभ्यामेकत्वस्य कथंचिदभेदात्तद्राहींद्रियज्ञानाभ्यां जनितायाः प्रत्यभिज्ञाया ग्रहणं न विरुध्यते सर्वथाभेदे तद्विरोधादिति मतिस्तदास्याः कथं पूर्वार्थत्वं न स्यात् स्मृतिवत् । कथंचित्पूर्वार्थत्वे वा सर्व प्रमाणं नैकांतेनापूर्वार्थ । तद्वदेवं च तत्रापूर्वार्थविज्ञानं प्रमाणमित्यसंबंधं । एतेनानुमानमेव प्रत्यभिज्ञानप्रमाणांतरमेव चेति प्रत्याख्यातं, सर्वथाप्यपूर्वार्थत्वनिराकृतेः सर्वप्रमाणानां प्रमाणांतरासिद्धिप्रसंगाच्च ।
तत्त्वार्थव्यवसायात्मज्ञानं मानमितीयता । लक्षणेन गतार्थत्वाद्यर्थमन्यद्विशेषणम् ॥ ७७ ॥ गृहीतमगृहीतं वा स्वार्थ यदि व्यवस्यति । तन लोके न शास्त्रेषु विजहाति प्रमाणताम् ॥७८ बाधवर्जितताप्येषा नापरा स्वार्थनिश्चयात् । स च प्रवाध्यते चेति व्याघातान्मुग्धभाषितम् ७९ बाधकोदयतः पूर्व वर्तते स्वार्थनिश्चयः । तस्योदये तु बाध्यतेत्येतदप्यविचारितम् ॥ ८॥ अप्रमाणादपि ज्ञानात्प्रवृत्तेरनुषंगतः । बाधकोद्भूतितः पूर्व प्रमाणं विफलं ततः ॥ ८१॥ बाधकाभाव विज्ञानात्प्रमाणत्वस्य निश्चये । प्रवृत्त्यंगे तदेव स्यात्प्रतिपत्तुः प्रवर्तकम् ।। ८२॥ तस्यापि च प्रमाणत्वं बाधकाभाववेदनात् । परमादित्यवस्थानं क नामैवं लभेमहि ॥ ८३ ।। बाधकामावबोधस्य स्वार्थनिर्णीतिरेव चेत् । बाधकांतरशून्यत्वनिर्णीतिः प्रथमेत्र सा ॥८४॥ संप्रत्ययो यथा यत्र तथा तत्रास्त्वितीरणे । बाधकामावविज्ञानपरित्यागः समागतः ॥८५॥ यच्चार्थवेदने बाधाभावज्ञानं तदेव नः । स्यादर्थसाधनं बाधसद्भावज्ञानमन्यथा ॥८६॥ तत्र देशांतरादीनि वापेक्ष्य यदि जायते । तदा सुनिश्चितं बाधाभावज्ञानं न चान्यथा ॥ ८७ अदुष्टकारणारब्धमित्येतच्च विशेषणम् । प्रमाणस्य न साफल्यं प्रयात्यव्यभिचारतः ॥ ८८ ॥ दुष्टकारणजन्यस्य स्वार्थनिर्णीत्यसंभवात् । सर्वस्य वेदनस्योत्थं तत एवानुमानतः ॥ ८९॥ खार्थनिधायकत्वेनादुष्टकारणजन्यता । तथा च तत्त्वमित्येतत्परस्परसमाश्रितम् ॥९० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org