________________
प्रथमोऽध्यायः ।
१७५
यदि कारण दोषस्याभावज्ञानं च गम्यते । ज्ञानस्यादुष्टहेतूत्था तदा स्यादनवस्थितिः ॥ ९१ ॥ हेतुदोषविहीनत्वज्ञानस्यापि प्रमाणता । स्वहेतुदोषशून्यत्वज्ञानात्तस्यापि सा ततः ॥ ९२ ॥ गत्वा सुदूरमेकस्य तदभावेपि मानता । यदीष्टा तद्वदेव स्यादाद्यज्ञानस्य सा न किम् ॥९३॥ एवं न बाधवर्जितत्वमदुष्टकारणारब्धत्वं लोकसंमतत्वं वा प्रमाणस्य विशेषणं सफलपूर्वार्थवत् । "स्वार्थव्यवसायात्मकत्वमात्रेण सुनिश्चितासंभवद्वाधकत्वात्मना प्रमाणत्वस्य वा व्यवस्थितेरपि परीक्षकैः प्रतिपत्तव्यम् ॥
स्वतः सर्वप्रमाणानां प्रामाण्यमिति केचन । यतः स्वतोऽसती शक्तिः कर्तुं नान्येन शक्यते ९४ तेषां स्वतोप्रमाणत्वमज्ञानानां भवेन्न किम् । तत एव विशेषस्याभावात्सर्वत्र सर्वथा ॥ ९५ ॥ यथार्थबोधकत्वेन प्रमाणत्वं व्यवस्थितम् । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ ९६ ॥ तथा मिथ्यावभासित्वादप्रमाणत्वमादितः । अर्थयाथात्म्यहेतूत्थगुणज्ञानादपोद्यते ॥ ९७ ॥ यद्यथार्थान्यथाभावाभावज्ञानं निगद्यते । अर्थयाथात्म्य विज्ञानमप्रमाणत्वबाधकम् ॥ ९८ ॥ तथैवास्त्वर्थयाथात्म्याभावज्ञानं स्वतः सताम् । अर्थान्यथात्वविज्ञानं प्रमाणत्वापवादकम् ९९ - विज्ञानकारणे दोषाभावः प्रज्ञायते गुणः । यथा तथा गुणाभावो दोषः किं नात्र मन्यते ॥ १०० यथा च जातमात्रस्यादुष्टा नेत्रादयः स्वतः । जात्यंधादेस्तथा दुष्टाः शिष्टैस्ते किं न लक्षिताः १०१ धूमादयो यथाग्न्यादीन् विना न स्युः स्वभावतः । धूमाभासादयस्तद्वत्तैर्विना संत्यबाधिताः १०२
यथा शब्दाः स्वतस्तत्त्वप्रत्यायनपरास्तथा । शब्दाभासास्तथा मिथ्यापदार्थप्रतिपादकाः ॥ १०३ दुष्टे वक्तरि शब्दस्य दोषस्तत्संप्रतीयते । गुणो गुणवतीति स्याद्वऋधीनमिदं द्वयम् ॥ १०४ ॥ यथा वगुणैर्दोषः शब्दानां विनिवर्त्यते । तथा गुणोपि तद्दोषैरिति स्पृष्टमभीक्ष्यते ॥ १०५ यथा च वक्रभावेन न स्युर्दोषास्तदाश्रयाः । तद्वदेव गुणा न स्युर्मेघध्वानादिवद्ध्रुवम् ॥ १०६ ततश्च चोदनाबुद्धिर्न प्रमाणं न वा प्रमा । आप्तानाप्तोपदेशोत्थबुद्धेस्तत्त्वप्रसिद्धितः ॥ १०७ ॥ एवं समत्वसंसिद्धौ प्रमाणत्वेतरत्वयोः । स्वत एव द्वयं सिद्धं सर्वज्ञानेष्वितीतरे ॥ १०८ ॥ यथा प्रमाणानां स्वतः प्रामाण्यं सर्वथा विशेषाभावात् तयोरुत्पत्तौ खकार्ये च सामग्र्यंतरखग्रहणनिरपेक्षत्वोपपत्तेः प्रकारांतरासंभवादित्यपरे ॥
-
स्वतः प्रमाणेतरैकांतवादिनं प्रत्याह ;तन्नानभ्यासकालेपि तथा भावानुषंगतः । न च प्रतीयते तादृक् परतस्तत्त्वनिर्णयात् ॥ १०९ ॥ स्वतः प्रामाण्येतरैकांत वादिनामभ्यासावस्थायामिवानभ्यासदशायामपि खत एव प्रमाणत्वमितरच्च स्यादन्यथा तदेकांतहानिप्रसंगात् । न चेदृक् प्रतीयतेऽनभ्यासे परतः प्रमाणत्वस्येतरस्य च निर्णयात् । न हि तत्तदा कस्यचित्तध्यार्थावबोधकत्वं मिथ्यावभासित्वं वा नेतुं शक्यं स्वत एव तस्यार्थान्यथात्व हेतूत्थं - दोषज्ञानादर्थयाथात्म्यहेतुत्थगुणज्ञानाद्वा अनपवादप्रसंगात् । तथा च नांप्रमाणत्वस्यार्थान्यथाभावाभावज्ञानं बाधकं प्रमाणत्वस्य वार्थान्यथात्वविज्ञानं सिध्येत् । न चानभ्यासे ज्ञानकारणेषु दोषाभावो गुणाभावो वा गुणदोषस्वभावः खतो विभाव्यते यतो जातमात्रस्यादुष्टा दुष्टा वा नेत्रादयः प्रत्यक्ष हेतवः सिद्धेयुः धूमादितदाभासा वानुमानहेतवः शब्दतदाभासा वा शाब्दज्ञानहेतवः प्रमाणांत रहेतवो वा यथोपवर्णिता इति । कथं वानभ्यासे दुष्टो वक्ता गुणवान् वा स्वतः शक्योवसातुं यतः शब्दस्य दोषवत्त्वं गुणवत्त्वं वा वऋधीनमनुरुध्यते । तथा वक्तुर्गुणैः शब्दानां दोष उपनीयते दोषैर्वा गुण इत्येतदपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org