________________
१७६ तत्त्वार्थश्लोकवार्तिके
[सू० १० नामभ्यासे स्वतो निर्णेयं, वक्तरहितत्वं वा गुणदोषाभावनिबंधनतया चोदनाबुद्धेः प्रमाणेतरत्वाभावनिबंधनमिति न प्रमाणेतरत्वयो समत्वं सिद्ध्येत् स्वतस्तन्निबंधनं सर्वथानभ्यासे ज्ञानानामुत्पत्तौ स्वकार्ये च सामग्र्यंतरवग्रहणनिरपेक्षत्वासिद्धेश्च । ततो न खत एवेति युक्तमुत्पश्यामः ।। । द्वयं परत एवेति केचित्तदपि साकुलम् । स्वभ्यस्तविषये तस्य परापेक्षानभीक्षणात् ॥ ११०॥ .. खभ्यस्तेपि विषये प्रमाणाप्रमाणयोस्तद्भावसिद्धौ परापेक्षायामनवस्थानापत्तेः कुतः कस्यचित्प्रवृत्तिनिवृत्ती च स्यातामिति न परत एव तदुभयमभ्युपगंतव्यं ॥
तत्र प्रवृत्तिसामर्थ्यात्प्रमाणत्वं प्रतीयते । प्रमाणस्यार्थवत्वं चेन्नानवस्थानुपंगतः ॥ १११ ॥ प्रमाणेन प्रतीतेथे यत्तद्देशोपसपेणम् । सा प्रवृत्तिः फलस्याप्तिस्तस्याः साममिष्यते ॥११२।। प्रसूतिर्वा सजातीयविज्ञानस्य यदा तदा । फलप्राप्तिरपि ज्ञाता सामर्थ्य नान्यथा स्थितिः११३ तद्विज्ञानस्य चान्यस्मात् प्रवृत्तिबलतो यदि । तदानवस्थितिस्तावत्केनात्र प्रतिहन्यते॥११४॥ स्वतस्तदलतो ज्ञानं प्रमाणं चेत्तथा न किम् । प्रथमं कथ्यते ज्ञानं प्रद्वेषो निर्निबंधनम् ११५ एतेनैव सजातीयज्ञानोत्पत्ती निवेदिता । अनवस्थान्यतस्तस्य प्रमाणत्वव्यवस्थितेः ॥११६ ॥
न च सामर्थ्य विज्ञाने प्रामाण्यानवधारणे । तन्निबंधनमाद्यस्य ज्ञानस्यैतत् प्रसिद्ध्यति ॥११७॥ • न ह्यनवधारितप्रामाण्याद्विज्ञानात् प्रवृत्तिसामर्थ्य सिद्ध्यति यतोनवस्थापरिहारः । प्रमाणतोर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमित्येतद्वा भाष्यं सुघटं स्यात् प्रवृत्तिसामर्थ्यादसिद्धाप्रमाणस्यार्थवत्त्वाघटनात् । किं च प्रमाणतः प्रवृत्तिरपि ज्ञातप्रामाण्यादज्ञातप्रामाण्याद्वा स्यात् ।
ज्ञातप्रामाण्यतो मानात्प्रवृत्तौ केन वार्यते । परस्पराश्रयो दोषो वृत्तिप्रामाण्यसंविदोः॥११८ अविज्ञातप्रमाणत्वात् प्रवृत्तिश्चेदृथा भवेत् । प्रामाण्यवेदनं वृत्तेः क्षौरे नक्षत्रपृष्टिवत् ॥११९॥ अर्थसंशयतो वृत्तिरनेनैव निवारिता । अनर्थसंशयाद्वापि निवृत्तिर्विदुषामिव ॥ १२० ॥ परलोकप्रसिद्धर्थमनुष्ठानं प्रमाणतः । सिद्धं तस्य बहुक्लेशवित्तत्यागात्मकत्वतः ॥ १२१ ॥ इति ब्रुवन् महायात्राविवाहादिषु वर्तनम् । संदेहादभिमन्येत जाड्यादेव महातमात् ॥१२२॥
परलोकार्थानुष्ठाने महायात्रा विवाहादौ च बहुक्लेशवित्तत्यागाविशेषेपि निश्चितप्रामाण्याद्वेदनादेकत्रान्यत्र वर्तनं संदेहाच्च खयमाचक्षाणस्य किमन्यत्कारणमन्यत्र महातमाज्जाड्यात् । एकत्र परस्पराश्रयस्यान्यत्र प्रामाण्यव्यवस्थापनवैयर्थ्यस्य च तदवस्थत्वात् ॥
तस्मात्प्रेक्षावतां युक्ता प्रमाणादेव निश्चितात । सर्वप्रवृत्तिरन्येषां संशयादेरपि कचित ॥१२३॥ द्विविधा हि प्रवर्तितारो दृश्यते विचार्य प्रवर्तमाना केचिदविचार्य चान्ये । तत्रैकेषां निश्चितप्रामाण्यादेव वेदनात्. कचित्प्रवृत्तिरन्यथा प्रेक्षावत्वविरोधात् । परेषां संशयाद्विपर्ययावा अन्यथा प्रेक्षाकारित्वव्याघातादिति युक्तं वक्तुं, लोकवृत्तानुवादस्येवं घटनात् । सोयमुद्योतकरः खयं लोकप्रवृत्तानुवादमुपयप्रामाण्यपरीक्षायां तद्विरुद्धमभिदधातीति किमन्यदनात्मज्ञतायाः । ननु च लोकव्यवहारं प्रति बालपंडितयोः सदृशत्वादप्रेक्षावत्तयैव सर्वस्य प्रवृत्तेः क्वचित्संशयात् प्रवृत्तियुक्तैवान्यथा प्रेक्षावतः प्रवृत्त्यभावप्रसंगादितिचेत् न, तस्य कचित्कदाचित्प्रेक्षावत्तयापि प्रवृत्त्य विरोधात् ॥ ... प्रेक्षावता पुनर्जेया कदाचित्कस्यचित्कचित् । अप्रेक्षकारिताप्येवमन्यत्राशेषवेदिनः ॥ १२४ ॥ - प्रेक्षावरणक्षयोपशमविशेषस्य सर्वत्र सर्वदा सर्वेषामसंभवात् कस्यचिदेव कचित्कदाचिच्च प्रेक्षावतेतरयोः सिद्धिरन्यत्र प्रक्षीणाशेषावरणादशेषज्ञादिति निश्चितप्रामाण्यात्प्रमाणात्प्रेक्षावतः प्रवृत्तिः कदाचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org