________________
प्रथमोऽध्यायः।
१७७ दन्यदा तस्यैवाप्रेक्षावतः यतः संशयादेरपीति न सर्वदा लोकव्यवहारं प्रति बालपंडितसदृशौ । कथमेवं प्रेक्षावतः प्रामाण्यनिश्चयेऽनवस्थादिदोषपरिहार इति चेत् ;
तत्राभ्यासात्प्रमाणत्वं निश्चितः स्वत एव नः । अनभ्यासे तु परत इत्याहुः केचिदंजसा१२५
तच स्याद्वादिनामेव स्वार्थनिश्चयनात् स्थितम् । न तु स्वनिश्चयोन्मुक्तनिःशेषज्ञानवादिनाम् १२६ ' क्वचिदत्यंताभ्यासात् खतः प्रमाणत्वस्य निश्चयान्नानवस्थादिदोषः, क्वचिदनभ्यासात् परतस्तस्य व्यवस्थिते व्याप्तिरित्येतदपि स्याद्वादिनामेव परमार्थतः सिद्ध्येत् खार्थनिश्चयोपगमात् । न पुनः खरूपनिश्चयरहितसकलसंवेदनवादिनामनवस्थाद्यनुषंगस्य तदवस्थत्वात् । तथाहि । वस्तुव्यवस्थानिबंधनस्य खरूपनिश्चयरहितस्याखसंवेदितस्यैवानुपयोगात् । तत्र निश्चयं जनयत एवं प्रमाणत्वमभ्युपगंतव्यम् । तन्निश्चयस्य स्वरूपे खयमनिश्चितस्यानुत्पादिताविशेषान्निश्चयांतरजननानुषंगादनवस्था, पूर्वनिश्चयस्योत्तरनिश्चयात्सिद्धौ तस्य पूर्वनिश्चयादन्योन्याश्रयणं । यदि पुनर्निश्चयः स्वरूपे निश्चयमजनयन्नपि सिध्यति निश्चयत्वादेव न प्रत्यक्षमनिश्चयत्वादिति मतं तदार्थज्ञानज्ञानं ज्ञानांतरापरिच्छिन्नमपि सिद्धयेत् तद्ज्ञानत्वात् न पुनरर्थज्ञानं तस्यातत्त्वादिति ज्ञानांतरवेद्यज्ञानवादिनोपि नार्थचिन्तनमुत्सीदेत् । ज्ञानं ज्ञानं च स्याज्ज्ञानांतरपरिच्छेद्यं च विरोधाभावादिति चेत् , तर्हि निश्चयो निश्चयश्च स्यात्वरूपे निश्चयं च जनयेत्तत एव सोपि तथैवेति स एव दोषः । खसंविदितत्वान्निश्चयस्य खयं निश्चयान्तरानपेक्षत्वेनुभवस्यापि तदपेक्षा मा भूत् , शक्यनिश्चयमजनयन्नेवार्थानुभवः प्रमाणमभ्यासपाटवादित्यपरः। तस्यापि “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता” इति ग्रंथो विरुध्यते । कश्चायमभ्यासो नाम ? पुनः पुनरनुभवस्य भाव इति चेत् , क्षणक्षयादौ तत्प्रमाणत्वापत्तिस्तत्र सर्वदा सर्वार्थेषु दर्शनस्य भावात् परमाभ्याससिद्धेः । पुनः पुनर्विकल्पस्य भावः स इति चेत् , ततोनुभवस्य प्रमाणत्वे निश्चयजननादेव तदुपगतं स्यादिति पक्षांतरं पाटवमेतेनैव निरूपितं । अविद्यावासनाप्रहाणादात्मलाभोनुभवस्य पाटवं न तु पौनः पुन्येनानुभवो विकल्पोत्पत्तिर्वा, यतोभ्यासेनैवास्य व्याख्येति चेत् ; कथमेवमप्रहणाविद्यावासनानां जनानामनुभवात्कचित्प्रवर्तनं सिद्धेत् , तस्य पाटवाभावात् प्रमाणत्वायोगात् । प्राणिमात्रस्याविद्यावासनाप्रहाणादन्यत्र क्षणक्षयाद्यनुभवादिति दोषापाकरणे कथमेकस्यानुभवस्य पाटवापाटवे परस्परविरुद्धे वास्तवेन स्यातां । तयोरन्यतरस्याप्यवास्तवत्वे क्वचिदेव प्रमाणत्वाप्रमाणत्वयोरेकत्रानुभवेनुपपत्तेः प्रकरणाप्रकरणयोरनुत्पत्तिरनेनोक्ता । अर्थित्वानर्थित्वे पुनरर्थज्ञानात्प्रमाणात्मकादुत्तरकालभाविनी कथमर्थानुभवस्य प्रामाण्येतरहेतुतां प्रतिपद्येते खमतविरोधात् । ततः खार्थव्यवसायात्मकज्ञानाभिधायिनामेवाभ्यासे खतोऽनभ्यासे परतः प्रामाण्यसिद्धिः ॥
स्वतः प्रमाणता यस्य तस्यैव परतः कथम् । तदैवैकत्र नैवातः साद्वादोस्ति विरोधतः॥१२७ नैतत्साधु प्रमाणस्यानेकरूपत्वनिश्चयात् । प्रमेयस्य च निभोगतत्त्ववादस्तु बाध्यते ॥ १२८ ॥ तत्र यत्परतो ज्ञानमनभ्यासे प्रमाणताम् । याति स्वतः स्वरूपे तत्तामिति कैकरूपता ॥१२९॥ स्वार्थयोरपि यस्य स्यादनभ्यासात्प्रमाणता । प्रतिक्षणविवर्तादौ तस्यापि परतो न किम् १३० स्थाद्वादो न विरुद्धोतः स्यात्प्रमाणप्रमेययोः । स्वद्रव्यादिवशाद्वापि तस्य सर्वत्र निश्चयः १३१
केवलज्ञानमपि खद्रव्यादिवशात्प्रमाणं न परद्रव्यादिवशादिति सर्व कथंचित्प्रमाणं, तथा तदेव खात्मनः स्वतः प्रमाणं छद्मस्थानां तु परत इति सर्व स्यात् स्वतः, स्यात्परतः प्रमाणमुपगम्यते विरोधाभावात् । न पुनर्यत्स्वतः तत्वत एव यत्परतस्तत्परत एवेति सर्वथैकांतप्रसक्तरुभयपक्षप्रक्षिप्तदोषानुषंगात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org