________________
१७८
तत्त्वार्थश्लोकवार्तिके
[सू० १०
नन्वसिद्धं प्रमाणं किं स्वरूपेण निरूप्यते । शशशृंगवदित्येके तदप्युन्मत्तभाषितम् ॥ १३२ ॥ स्वेष्टानिष्टार्थयोर्ज्ञातुर्विधानप्रतिषेधयोः । सिद्धिः प्रमाणसंसिद्ध्यभावेस्ति न हि कस्यचित् १३३ इष्टार्थस्य विधेरनिष्टार्थस्य वा प्रतिषेधस्य प्रमाणानां तत्त्वतोऽसंभवे कदाचिदनुपपत्तेर्न स्वरूपेणासिद्धं प्रमाणमनिरूपणात् शशशृंगवन्नास्ति प्रमाणं विचार्यमाणस्यायोगादिति स्वयमिष्टमर्थं साधयन्ननिष्टं च निराकुर्वन् प्रमाणत एव कथमननुमतः । ततः प्रमाणसिद्धिरर्थादायता ॥
ननु प्रमाणसंसिद्धिः प्रमाणांतरतो यदि । तदानवस्थितिर्नो चेत् प्रमाणान्वेषणं वृथा ॥ १३४ ॥ आद्यप्रमाणतः स्याच्चेत्प्रमाणांतरसाधनम् । ततश्चाद्यप्रमाणस्य सिद्धेरन्योन्यसंश्रयः ।। १३५ ।। प्रसिद्धेनाप्रसिद्धस्य विधानमिति नोत्तरम् । प्रसिद्धस्याव्यवस्थानात् प्रमाणविरहे कचित् ॥ १३६ परानुरोधमात्रेण प्रसिद्धोर्थो यदीष्यते । प्रमाणसाधनस्तद्वत्प्रमाणं किं न साधनम् ॥ १३७ ॥ पराभ्युपगमः केन सिद्ध्यतीत्यपि च द्वयोः । समः पर्यनुयोगः स्यात्समाधानं च नाधिकम् १३८ तत्प्रमाणप्रमेयादिव्यवहारः प्रवर्तते । सर्वस्याप्य विचारेण स्वप्नादिवदितीतरे ॥ १३९ ॥ तेषां संवित्तिमात्रं स्यादन्यद्वा तत्त्वमंजसा । सिद्धं स्वतो यथा तद्वत्प्रमाणमपरे विदुः ॥ १४० ॥ यथा स्वातंत्र्यमभ्यस्तविषयेऽस्य प्रतीयते । प्रमेयस्य तथा नेति न प्रमान्वेषणं वृथा ॥ १४१ ॥ परतोपि प्रमाणत्वेन भ्यस्तविषये कचित् । नानवस्थानुषज्येत तत एव व्यवस्थितेः ॥ १४२ ।। स्वरूपस्य खतो गतिरिति संविदद्वैतं ब्रह्म वा स्वतः, सिद्धमुपपन्नमभ्यस्तविषये सर्व प्रमाणं तथाभ्युपगंतुमर्हति । नोचेदनवधेयवचनो न प्रेक्षापूर्ववादी । न च यथा प्रमाणं स्वतः सिद्धं तथा प्रमेयमपि तस्य तद्वत्खातंत्र्याप्रतीतेः तथा प्रतीतौ वा प्रमेयस्य प्रमाणत्वापत्तेः, स्वार्थप्रमितौ साधकतमस्य स्वतंत्रस्य प्रमाणत्वात्मकत्वात् । ततो न प्रमाणान्वेषणमफलं, तेन विना स्वयं प्रमेयस्याव्यवस्थानात् । यदा पुनरभ्यस्तेर्थे परतः प्रमाणानां प्रामाण्यं तदापि नानवस्था परस्पराश्रयो वा स्वतः सिद्धप्रामाण्यात् कुतश्चित्वचित्प्रमाणादवस्थोपपत्तेः । ननु च क्वचित्कस्यचिदभ्यासे सर्वत्र सर्वस्याभ्यासोस्तु विशेषाभावादनभ्यास एव प्रतिप्राणि तद्वैचित्र्य कारणाभावात् । तथा च कुतोभ्यासानभ्यासयोः स्वतः परतो वा प्रामाण्यव्यवस्था भवेदिति चेत् । नैवं, तद्वैचित्र्यसिद्धेः ॥
दृष्टादृष्टनिमित्तानां वैचित्र्यादिह देहिनाम् । जायते कचिदभ्यासोऽनभ्यासो वा कथंचन १४३ दृष्टानि निमित्तान्यभ्यासस्य क्वचित्पौनःपुन्येनानुभवादीनि तद् ज्ञानावरणवीर्यांतरायक्षयोपशमादीन्यदृष्टानि विचित्राण्यभ्यास एव खहेतुवैचित्र्यात् जायंते, अनभ्यासस्य च सकृदनुभवादीन्यनभ्यासज्ञानावरणक्षयोपशमादीनि च । तद्वैचित्र्याद्वैचित्र्येऽभ्यासोऽनभ्यासश्च जायते । ततः युक्ता खतः परतश्च
प्रामाण्यव्यवस्था ॥
तत्प्रसिद्धेन मानेन खतोसिद्धस्य साधनम् । प्रमेयस्य यथा तद्वत्प्रमाणस्येति धीधनाः ॥ १४४ ॥ न हि खसंवेदनवदभ्यासदशायां खतः सिद्धेन प्रमाणेन प्रमेयस्य स्वयमसिद्धस्य साधनमनुरुध्यमानैरनभ्यासदशायां खयमपि सिद्धस्य प्रमाणस्य तदपाकर्तुं युक्तं, सिद्धेनासिद्धस्य साधनोपपत्तेः । ततः सूक्तं संति प्रमाणानीष्ट साधनादिति ॥
एवं विचारतो मानस्वरूपे तु व्यवस्थिते । तत्संख्यानप्रसिद्ध्यर्थ सूत्रे द्वित्वस्य सूचनात् ॥ १४५ तत्प्रमाणे, इति हि द्वित्वनिर्देशः संख्यांतरावधारणनिराकरणाय युक्तः कर्तुं तत्र विप्रतिपत्तेः ॥ प्रमाणमेकमेवेति केचित्तावत् कुदृष्टयः । प्रत्यक्षमुख्यमन्यस्मादर्थनिर्णीत्यसंभवात् ॥ १४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org