________________
प्रथमोऽध्यायः ।
१७९
प्रत्यक्षमेव मुख्यं स्वार्थनिर्णीतावन्यानपेक्षत्वादन्यस्य प्रमाणस्य जन्मनिमित्तत्वात् न पुनरनुमादि तस्य प्रत्यक्षापेक्षत्वात् प्रत्यक्षजननानिमित्तत्वाच्च गौणतोपपत्तेः । न च गौणं प्रमाणमतिप्रसंगात् । ततः प्रत्यक्षमेकमेव प्रमाणमगौणत्वात् प्रमाणस्येति केचित् ।।
तेषां तत्कि स्वतः सिद्धं प्रत्यक्षांतरतोपि वा । स्वस्य सर्वस्य चेत्येतद्भवेत् पर्यनुयोजनम् ॥१४७ खस्याध्यक्षं सर्वस्य वा खतो वा सिद्ध्येत् प्रत्यक्षांतराद्वेति पर्यनुयोगोऽवश्यंभावी ॥ स्वस्यैव चेत् स्वतः सिद्धं नष्टं गुर्वादिकीर्तनम् । तदव्यक्तप्रमाणत्वसिद्ध्यभावात्कथंचन॥१४८॥ प्रत्यक्षांतरतो वाप्यसिद्धौ स्यादनवस्थितिः । कचित्स्वतोऽन्यतो वेति स्याद्वादाश्रयणं परम् १४९ सर्वस्यापि स्वतोध्यक्षप्रमाणमिति चेन्मतिः । केनावगम्यतामेतदध्यक्षाद्योगिविद्विषाम् ॥१५० प्रमाणांतरतो ज्ञाने नैकमानव्यवस्थितिः । अप्रमाणागतावेव प्रत्यक्षं किमु पोष्यते ॥१५१ ॥
सर्वस्य प्रत्यक्षं खत एव प्रमाणमिति प्रमाणमंतरेणाधिगच्छन् प्रमेयमपि तथाधिगच्छतु विशेषाभावात् । ततस्तैः प्रत्यक्षं किमु पोण्यत इति चिंत्यम् ॥
प्रत्यक्षमनुमानं च प्रमाणे इति केचन । तेषामपि कुतो व्याप्तिः सिद्ध्येन्मानांतराद्विना १५२
योप्याह-प्रत्यक्षं मुख्यं प्रमाणं स्वार्थनिर्णीतावन्यानपेक्षत्वादिति तस्यानुमानं मुख्यमस्तु तत एव । न हि तत्तस्यामन्यानपेक्षं । खोत्पत्तौ तदन्यापेक्षमिति चेत् , तत्स्वनिमित्तमक्षादिकमपेक्षते न पुनः प्रमाणमन्यदितिचेत् , तथानुमानमपि । न हि तत्रिरूपलिंगनिश्चयं खहेतुमपेक्ष्य जायमानमन्यत्प्रमाणमपेक्ष्यते । यत्तु त्रिरूपलिंगग्राहि प्रमाणं तदनुमानोत्पत्तिकारणमेव न भवति, लिंगपरिच्छित्तावेव चरितार्थत्वात् । यदप्यभ्यधायि, प्रत्यक्षं मुख्यं प्रमाणांतरजन्मनो निमित्तत्वादिति तत्रिरूपलिंगादिनानैकांतिकं । यदि पुनरर्थस्यासंभवेऽभावात् प्रत्यक्षं मुख्यं तदानुमानमपि तत एव विशेषाभावात् । तदुक्तं- “अर्थस्यासंभवे भावात् प्रत्यक्षेपि प्रमाणता । प्रतिबंधखभावस्य तद्धेतुत्वे समं द्वयम्” इति संवादकत्वात्तन्मुख्यमिति चेत् तत एवानुमानं न पुनभ्यामथै परिच्छिद्य प्रवर्तमानोर्थक्रियायां संवाद्यते । वस्तुविषयत्वान्मुख्यं प्रत्यक्षमिति चेत् तत एवानुमानं तथास्तु प्राप्यवस्तुविषयत्वादनुमानस्य वस्तुविषयं प्रामाण्यं द्वयोः इति वचनात् । ततो मुख्य द्वे एव प्रमाणे प्रत्यक्षमनुमानं चेति केचित् , तेषामपि यावत्कश्चिड्रमः ससवोप्यग्निजन्मानमिजन्मा वा न भवतीति व्याप्तिः साध्यसाधनयोः कुतः प्रमाणांतराद्विनेति चित्यम् ॥
प्रत्यक्षानुपलंभाभ्यां न तावत्तत्प्रसाधनम् । तयोः सनिहितार्थत्वात् त्रिकालागोचरत्वतः१५३ कारणानुपलंभाच्चेत्कार्यकारणतानुमा । व्यापकानुपलंभाच्च व्याप्यव्यापकतानुमा ॥ १५४ ॥ तयाप्तिसिद्धिरप्यन्यानुमानादिति न स्थितिः । परस्परमपि व्याप्तिसिद्धावन्योन्यमाश्रयः १५५ योगिप्रत्यक्षतो व्याप्तिसिद्धिरित्यपि दुर्घटम् । सर्वत्रानुमितिज्ञानाभावात् सकलयोगिनः॥१५६ परार्थानुमितौ तस्य व्यापारोपि न युज्यते । अयोगिनः स्वयं व्याप्तिमजानानः जनान् प्रति१५७ योगिनोपि प्रति व्यर्थः स्वस्वार्थानुमिताविव । समारोपविशेषस्याभावात् सर्वत्र योगिनाम्१५८ एतेनैव हतादेशयोगिप्रत्यक्षतो गतिः । संबंधसास्फुटं दृष्टेत्यनुमानं निरर्थकम् ॥ १५९ ॥ तस्याविशदरूपत्वे प्रत्यक्षत्वं विरुध्यते । प्रमाणांतरतायां तु द्वे प्रमाणे न तिष्ठतः ॥ १६० ॥ न चाप्रमाणतो ज्ञानायुक्तो व्याप्तिविनिश्चयः । प्रत्यक्षादिप्रमेयस्याप्येवं निर्णीतसंगतः ॥१६१ प्रत्यक्षं मानसं येषां संबंधं लिंगलिंगिनोः । व्याप्त्या जानाति तेप्यर्थेतींद्रिये किमु कुर्वते १६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org