________________
१८० तत्त्वार्थश्लोकवार्तिके
[सू० १० यत्राक्षाणि प्रवर्तते मानसं तत्र वर्तते । नोन्यत्राक्षादिवैधुर्यप्रसंगात् सर्वदेहिनाम् ॥ १६३ ॥ संबंधोतींद्रियार्थेषु निश्चीयेतानुमानतः । तद्याप्तिश्चानुमानेनान्येन यावत्प्रवर्तते ॥ १६४ ॥ प्रत्यक्षनिश्चितव्याप्तिरनुमानोनवस्थितिः । निवर्त्यते तथान्योन्यसंश्रयश्चेति केचन ॥ १६५ ॥ तेषां तन्मानसं ज्ञानं स्पष्टं न प्रतिभासते । अस्पष्टं च कथं नाम प्रत्यक्षमनुमानवत् ॥१६६॥ तर्कश्चैवं प्रमाणं स्यात्स्मृतिसंज्ञा च किं न वः । मानसत्वाविसंवादाविशेषान्नानुमान्यथा१६७.
मानसं ज्ञानमस्पष्टं व्याप्तौ प्रमाणमविसंवादकत्वादिति वदन् कथमयं तर्कमेवं नेच्छेत् ? स्मरणं प्रत्यभिज्ञानं वा कुतः प्रतिक्षिपेत् । तदविशेषात् मनोज्ञानत्वान्न तत्प्रमाणमितिचेत् , तत एव स्मरणादि प्रमाणमस्तु । न हि ततोथै परिच्छिद्य वर्तमानोर्थक्रियायां विसंवाद्यते प्रत्यक्षादिवत् ॥ तर्कादेर्मानसेध्यक्षे यदि लिंगानपेक्षिणः । सादंतर्भवनं सिद्धिस्ततोध्यक्षानुमानयोः ॥१६८॥
यदि तर्कादेर्मानसेध्यक्षेतर्भावः स्याल्लिंगानपेक्षत्वात्ततोऽध्यक्षानुमानयोः सिद्धिः प्रमाणांतरभाववादिनः संभाव्यते नान्यथा ॥
तदा मतेः प्रमाणत्वं नामांतरवृतोस्तु नः । तद्वदेवाविसंवादाच्छुतस्येति प्रमात्रयम् ॥१६९॥
यो ह्यवग्रहाद्यात्मकमिंद्रियजं प्रत्यक्षमक्ष नितत्वात् तदनपेक्षं तु स्मरणादि मानसं लिंगानपेक्षणादिति ब्रूयात् तेन मतिज्ञानमेवास्माकमिष्टं नामांतरेणोक्तं स्यात् । तद्विशेषस्तु लिंगापेक्षोनुमानमिति च प्रमाणद्वयं मतिज्ञानव्यक्त्यपेक्षयोपगतं भवेत् । तथा च शब्दापेक्षत्वात्कुतो ज्ञानं ततः प्रमाणांतरं सिद्ध्येत् संवादकत्वाविशेषादिति प्रमाणत्रयसिद्धेः । यत्प्रत्यक्षपरामर्शिवचः प्रत्यक्षमेव तत् लैंगिकं तत्परामर्श तत्प्रमाणांतरं न चेत् सर्वः प्रत्यक्षेणानुमानेन वा परिच्छिद्यार्थ स्वयमुपदिशेत् परस्मै नान्यथा तस्यानाप्तत्वप्रसंगात् । तत्र प्रत्यक्षपरामर्युपदेशः प्रत्यक्षमेव यथा लैंगिकमिति न श्रुतं ततः प्रमाणांतरं येन प्रमाणद्वयनियमो न स्यादिति चेत् ॥ नाक्षलिंगविभिन्नायाः सामग्र्या वचनात्मनः । समुद्भूतस्य बोधस्य मानांतरतया स्थिते १७०
अक्षलिंगाभ्यां विभिन्ना हि वचनात्मा सामग्री तस्याः समुद्भूतं श्रुतं प्रमाणांतरं युक्तमिति न तदध्यक्षमेवानुमानमेव वा सामग्रीभेदात् प्रमाणभेदव्यवस्थापनात् ।।
यत्रंद्रियमनोध्यक्षं योगिप्रत्यक्षमेव वा । लैंगिकं वा श्रुतं तत्र वृत्तेर्मानांतरं भवेत् ॥ १७१॥ प्रत्यक्षादनुमानस्य मा भूत्तर्हि विभिन्नता । तदर्थे वर्तमानत्वात् सामग्रीभित्समा श्रुतिः॥१७२ न हि विषयस्याभेदात् प्रमाणभेदः प्रत्यक्षादनुमानस्य भेदप्रसंगात् । न च तत्ततो भिन्नविषयं सामान्यविशेषात्मकवस्तुविषयत्वात् प्रत्यक्षमेव सामान्यविशेषात्मकवस्तुविषयं न पुनरनुमानं तस्य सामान्यविषयत्वादितिचेत् ततः कस्यचित्कचित्प्रकृत्यभावप्रसंगात् । सर्वोर्थक्रियार्थी हि प्रवर्तते नच सामान्यमशेषविशेषरहितं कांचिदर्थक्रियां संपादयितुं समर्थ तत्तु ज्ञानामात्रस्याप्यभावात् सामान्यादनुमिताद्विशेषानुमानात् प्रवर्तकमनुमानमिति चेत् , न अनवस्थानुषंगात् । विशेषेपि ह्यनुमानं तत्सामान्यविषयमेव परं विशेषमनुपाय यदेव प्रवर्तकं तत्राप्यनुमानं तत्सामान्यविषयमिति सुदूरमपि गत्वा सामान्यविशेषविषयमनुमानमुपगंतव्यं ततः प्रवृत्तौ तस्य प्राप्तिप्रसिद्धेः । सामग्रीभेदाद्भिन्नमनुमानमध्यक्षादिति चेत् तत एव श्रुतं ताभ्यां भिन्नमस्तु विशेषाभावात् ॥
शब्दलिंगाक्षसामग्रीभेदायेषां प्रमात्रयं । तेषामशब्दलिंगाक्षजन्मज्ञानं प्रमांतरम् ॥ १७३॥ योगिप्रत्यक्षमप्यक्षसामग्रीजनितं न हि । सर्वार्थागोचरत्वस्य प्रसंगादसदादिवत् ॥ १७४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org