________________
प्रथमोऽध्यायः । तत्संपत्संभवो येषां ते प्रत्यासन्नमुक्तयः । भव्यास्ततः परेषां तु तत्संपत्तिर्न जातुचित् ॥१२॥ प्रत्यासन्नमुक्तीनामेव भव्यानां दर्शनमोहप्रतिपक्षः संपद्यते नान्येषां कदाचित्कारणासन्निधानात् । इति युक्तिमानासन्नभव्यादिविभागः सद्दर्शनादिशक्त्यात्मकत्वेपि सर्वसंसारिणाम् ॥
सम्यग्दर्शनशक्तेहि भेदाभावेपि देहिनाम् । संभवेतरतो भेदस्तब्यक्तेः कनकाश्मवत् ॥ १३ ॥
यथा किंचित्कनकाश्मादि संभवत्कनकभावाभिव्यक्तिकमचिरादेव प्रतीयते, अपरं चिरतरेणापि कालेन संभवत्कनकभावाभिव्यक्तिकमन्यदसंभवत्कनकभावाभिव्यक्तिकं शश्वत्कनकशक्त्यात्मकत्वाविशेषेपि संभाव्यते तथा कश्चित् संसारी संभवदासन्नमुक्तिरभिव्यक्तसम्यग्दर्शनादिपरिणामः, परोनंतेनापि कालेन संभवदभिव्यक्तसद्दर्शनादिरन्यः शश्वदसंभवदभिव्यक्तसद्दर्शनादिस्तच्छक्त्यात्मकत्वाविशेषेपि संभाव्यते, इति नासन्नभव्यदूरभव्याभव्यविभागो विरुध्यते बाधकाभावात्सुखादिवत् । तत्र प्रत्यासन्ननिष्ठस्य भव्यस्य दर्शनमोहोपशमादौ सत्यंतरंगे हेतौ बहिरंगादपरोपदेशात्तत्त्वार्थज्ञानात् परोपदेशापेक्षाच्च प्रजायमानं तत्त्वार्थश्रद्धानं निसर्गजमधिगमजं च प्रत्येतव्यम् ॥ किं तत्त्वं नाम येनार्यमाणस्तत्त्वार्थ इष्यते । इत्यशेषविवादानां निरासायाह सूत्रकृत् ॥
जीवाजीवास्रवबंधसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४॥ तत्त्वस्य हि संख्यायां खरूपे च प्रवादिनो विप्रवदंते तद्विप्रतिपत्तिप्रतिषेधाय त्रमिदमुच्यते । तत्र जीवादिवचनात् । सप्त जीवादयस्तत्त्वं न प्रकृत्यादयोऽपरे । श्रद्धानविषया ज्ञेया मुमुक्षोर्नियमादिह ॥१॥ तथा चानंतपर्यायं द्रव्यमेकं न सूचितम् । तत्त्वं समासतो नापि तदनंतं प्रपंचतः॥२॥ मध्यमोक्त्यापि तवयादिभेदेन बहुधा स्थितम् । नातः सप्तविधा तत्त्वाद्विनेयापेक्षितात्परम् ३
प्रकृत्यादयः पंचविंशतिस्तत्त्वमित्यादिसंख्यांतरनिराचिकीर्षयापि संक्षेपतस्तावदेकं द्रव्यमनंतपर्यायं तत्त्वमित्येकाद्यनंतविकल्पोपायादौ तत्त्वस्य मध्यमस्थानाश्रयमपेक्ष्य विनेयस्य मध्यमाभिधानं सूरेः संक्षेपाभिधानं सुमेधसामेवानुग्रहाद्विस्तराभिधाने चिरेणापि प्रतिपत्तेरयोगात् । सर्वानुग्रहानुपपत्तिरित्येके । ते न सूत्रकाराभिप्रायविदः । सप्तानामेव जीवादीनां पदार्थानां नियमेन मुमुक्षोः श्रद्धेयत्वज्ञापनार्थत्वादुपदेशस्य मध्यमरुचिविनेयानुरोधेन तु संक्षेपेणैकं तत्त्वं प्रपंचतश्चानंतं मा भूत् सूत्रयितव्यं । मध्यमोक्त्या तु म्यादिभेदेन बहुप्रकारं कथनं सूत्रयितव्यं विशेषहेत्वभावात् । सप्तविधतत्त्वोपदेशे तु विशेषहेतुरवश्यं मुमुक्षोः श्रद्धातव्यत्वमभ्यवाप्येत परैः । कथम् ? मोक्षस्तावद्विनेयेन श्रद्धातव्यस्तदर्थिना । बंधश्च नान्यथा तस्य तदार्थत्वं घटामटेत् ॥४॥ आस्रवोपि च बंधस्य हेतुः श्रद्धीयते न चेत् । काहेतुकस्य बंधस्य क्षयो मोक्षः प्रसिध्धति ॥५॥ बंधहेतुनिरोधश्च संवरो निर्जरा क्षयः । पूर्वोपात्तस्य बंधस्य मोक्षहेतुस्तदाश्रयः ॥६॥ जीवोऽजीवश्च बंधश्च द्विष्ठत्वात्तत्क्षयस्य च । श्रद्धेयो नान्यदाफल्यादिति सूत्रकृतां मतम् ॥७॥ ननु च पुण्यपापपदार्थावपि वक्तव्यौ तयोबैधव्यत्वाद्वंधफलत्वाद्वा तदश्रद्धाने बंधस्य श्रद्धानानुपपत्तेरसंभवादफलत्वाच्चेति कश्चित् । तदसदित्याह;
पुण्यपापपदार्थों तु बंधास्रवविकल्पगौ । श्रद्धातव्यौ न भेदेन सप्तभ्योतिप्रसंगतः ॥८॥ न हि पुण्यपापपदार्थों बंधव्यौ जीवाजीवबंधव्यवत्, नापि बंधफलं सुखदुःखाद्यनुभवनात्मकनिर्जरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.